🪷 Mahābhārata · Śānti-Parva · Chapter 282

The Book of Peace · the great dharma-śāstra · Parva 12 · 21 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 21 Shlokas

MBh 12.282.1
पराशर उवाच वृत्तिः सकाशाद्वर्णेभ्यस्त्रिभ्यो हीनस्य शोभना प्रीत्योपनीता निर्दिष्टा धर्मिष्ठान्कुरुते सदा
MBh 12.282.2
वृत्तिश्चेन्नास्ति शूद्रस्य पितृपैतामही ध्रुवा न वृत्तिं परतो मार्गेच्छुश्रूषां तु प्रयोजयेत्
MBh 12.282.3
सद्भिस्तु सह संसर्गः शोभते धर्मदर्शिभिः नित्यं सर्वास्ववस्थासु नासद्भिरिति मे मतिः
MBh 12.282.4
यथोदयगिरौ द्रव्यं संनिकर्षेण दीप्यते तथा सत्संनिकर्षेण हीनवर्णोऽपि दीप्यते
MBh 12.282.5
यादृशेन हि वर्णेन भाव्यते शुक्लमम्बरम् तादृशं कुरुते रूपमेतदेवमवैहि मे
MBh 12.282.6
तस्माद्गुणेषु रज्येथा मा दोषेषु कदाचन अनित्यमिह मर्त्यानां जीवितं हि चलाचलम्
MBh 12.282.7
सुखे वा यदि वा दुःखे वर्तमानो विचक्षणः यश्चिनोति शुभान्येव स भद्राणीह पश्यति
MBh 12.282.8
धर्मादपेतं यत्कर्म यद्यपि स्यान्महाफलम् न तत्सेवेत मेधावी न तद्धितमिहोच्यते
MBh 12.282.9
यो हृत्वा गोसहस्राणि नृपो दद्यादरक्षिता स शब्दमात्रफलभाग्राजा भवति तस्करः
MBh 12.282.10
स्वयंभूरसृजच्चाग्रे धातारं लोकपूजितम् धातासृजत्पुत्रमेकं प्रजानां धारणे रतम्
MBh 12.282.11
तमर्चयित्वा वैश्यस्तु कुर्यादत्यर्थमृद्धिमत् रक्षितव्यं तु राजन्यैरुपयोज्यं द्विजातिभिः
MBh 12.282.12
अजिह्मैरशठक्रोधैर्हव्यकव्यप्रयोक्तृभिः शूद्रैर्निर्मार्जनं कार्यमेवं धर्मो न नश्यति
MBh 12.282.13
अप्रनष्टे ततो धर्मे भवन्ति सुखिताः प्रजाः सुखेन तासां राजेन्द्र मोदन्ते दिवि देवताः
MBh 12.282.14
तस्माद्यो रक्षति नृपः स धर्मेणाभिपूज्यते अधीते चापि यो विप्रो वैश्यो यश्चार्जने रतः
MBh 12.282.15
यश्च शुश्रूषते शूद्रः सततं नियतेन्द्रियः अतोऽन्यथा मनुष्येन्द्र स्वधर्मात्परिहीयते
MBh 12.282.16
प्राणसंतापनिर्दिष्टाः काकिण्योऽपि महाफलाः न्यायेनोपार्जिता दत्ताः किमुतान्याः सहस्रशः
MBh 12.282.17
सत्कृत्य तु द्विजातिभ्यो यो ददाति नराधिप यादृशं तादृशं नित्यमश्नाति फलमूर्जितम्
MBh 12.282.18
अभिगम्य दत्तं तुष्ट्या यद्धन्यमाहुरभिष्टुतम् याचितेन तु यद्दत्तं तदाहुर्मध्यमं बुधाः
MBh 12.282.19
अवज्ञया दीयते यत्तथैवाश्रद्धयापि च तदाहुरधमं दानं मुनयः सत्यवादिनः
MBh 12.282.20
अतिक्रमे मज्जमानो विविधेन नरः सदा तथा प्रयत्नं कुर्वीत यथा मुच्येत संशयात्
MBh 12.282.21
दमेन शोभते विप्रः क्षत्रियो विजयेन तु धनेन वैश्यः शूद्रस्तु नित्यं दाक्ष्येण शोभते

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 21 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.282local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷