🪷 Mahābhārata · Śānti-Parva · Chapter 280

The Book of Peace · the great dharma-śāstra · Parva 12 · 23 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 23 Shlokas

MBh 12.280.1
पराशर उवाच मनोरथरथं प्राप्य इन्द्रियार्थहयं नरः रश्मिभिर्ज्ञानसंभूतैर्यो गच्छति स बुद्धिमान्
MBh 12.280.2
सेवाश्रितेन मनसा वृत्तिहीनस्य शस्यते द्विजातिहस्तान्निर्वृत्ता न तु तुल्यात्परस्परम्
MBh 12.280.3
आयुर्नसुलभं लब्ध्वा नावकर्षेद्विशां पते उत्कर्षार्थं प्रयतते नरः पुण्येन कर्मणा
MBh 12.280.4
वर्णेभ्योऽपि परिभ्रष्टः स वै संमानमर्हति न तु यः सत्क्रियां प्राप्य राजसं कर्म सेवते
MBh 12.280.5
वर्णोत्कर्षमवाप्नोति नरः पुण्येन कर्मणा दुर्लभं तमलब्धा हि हन्यात्पापेन कर्मणा
MBh 12.280.6
अज्ञानाद्धि कृतं पापं तपसैवाभिनिर्णुदेत् पापं हि कर्म फलति पापमेव स्वयं कृतम् तस्मात्पापं न सेवेत कर्म दुःखफलोदयम्
MBh 12.280.7
पापानुबन्धं यत्कर्म यद्यपि स्यान्महाफलम् न तत्सेवेत मेधावी शुचिः कुसलिलं यथा
MBh 12.280.8
किंकष्टमनुपश्यामि फलं पापस्य कर्मणः प्रत्यापन्नस्य हि सतो नात्मा तावद्विरोचते
MBh 12.280.9
प्रत्यापत्तिश्च यस्येह बालिशस्य न जायते तस्यापि सुमहांस्तापः प्रस्थितस्योपजायते
MBh 12.280.10
विरक्तं शोध्यते वस्त्रं न तु कृष्णोपसंहितम् प्रयत्नेन मनुष्येन्द्र पापमेवं निबोध मे
MBh 12.280.11
स्वयं कृत्वा तु यः पापं शुभमेवानुतिष्ठति प्रायश्चित्तं नरः कर्तुमुभयं सोऽश्नुते पृथक्
MBh 12.280.12
अज्ञानात्तु कृतां हिंसामहिंसा व्यपकर्षति ब्राह्मणाः शास्त्रनिर्देशादित्याहुर्ब्रह्मवादिनः
MBh 12.280.13
तथा कामकृतं चास्य विहिंसैवापकर्षति इत्याहुर्धर्मशास्त्रज्ञा ब्राह्मणा वेदपारगाः
MBh 12.280.14
अहं तु तावत्पश्यामि कर्म यद्वर्तते कृतम् गुणयुक्तं प्रकाशं च पापेनानुपसंहितम्
MBh 12.280.15
यथा सूक्ष्माणि कर्माणि फलन्तीह यथातथम् बुद्धियुक्तानि तानीह कृतानि मनसा सह
MBh 12.280.16
भवत्यल्पफलं कर्म सेवितं नित्यमुल्बणम् अबुद्धिपूर्वं धर्मज्ञ कृतमुग्रेण कर्मणा
MBh 12.280.17
कृतानि यानि कर्माणि दैवतैर्मुनिभिस्तथा नाचरेत्तानि धर्मात्मा श्रुत्वा चापि न कुत्सयेत्
MBh 12.280.18
संचिन्त्य मनसा राजन्विदित्वा शक्तिमात्मनः करोति यः शुभं कर्म स वै भद्राणि पश्यति
MBh 12.280.19
नवे कपाले सलिलं संन्यस्तं हीयते यथा नवेतरे तथाभावं प्राप्नोति सुखभावितम्
MBh 12.280.20
सतोयेऽन्यत्तु यत्तोयं तस्मिन्नेव प्रसिच्यते वृद्धे वृद्धिमवाप्नोति सलिले सलिलं यथा
MBh 12.280.21
एवं कर्माणि यानीह बुद्धियुक्तानि भूपते नसमानीह हीनानि तानि पुण्यतमान्यपि
MBh 12.280.22
राज्ञा जेतव्याः सायुधाश्चोन्नताश्च; सम्यक्कर्तव्यं पालनं च प्रजानाम् अग्निश्चेयो बहुभिश्चापि यज्ञै;रन्ते मध्ये वा वनमाश्रित्य स्थेयम्
MBh 12.280.23
दमान्वितः पुरुषो धर्मशीलो; भूतानि चात्मानमिवानुपश्येत् गरीयसः पूजयेदात्मशक्त्या; सत्येन शीलेन सुखं नरेन्द्र

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 23 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.280local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷