🪷 Mahābhārata · Śānti-Parva · Chapter 279
The Book of Peace · the great dharma-śāstra · Parva 12 · 25 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 25 Shlokas
MBh 12.279.1
युधिष्ठिर उवाच
अतः परं महाबाहो यच्छ्रेयस्तद्वदस्व मे
न तृप्याम्यमृतस्येव वचसस्ते पितामह
MBh 12.279.2
किं कर्म पुरुषः कृत्वा शुभं पुरुषसत्तम
श्रेयः परमवाप्नोति प्रेत्य चेह च तद्वद
MBh 12.279.3
भीष्म उवाच
अत्र ते वर्तयिष्यामि यथा पूर्वं महायशाः
पराशरं महात्मानं पप्रच्छ जनको नृपः
MBh 12.279.4
किं श्रेयः सर्वभूतानामस्मिँल्लोके परत्र च
यद्भवेत्प्रतिपत्तव्यं तद्भवान्प्रब्रवीतु मे
MBh 12.279.5
ततः स तपसा युक्तः सर्वधर्मविधानवित्
नृपायानुग्रहमना मुनिर्वाक्यमथाब्रवीत्
MBh 12.279.6
धर्म एव कृतः श्रेयानिह लोके परत्र च
तस्माद्धि परमं नास्ति यथा प्राहुर्मनीषिणः
MBh 12.279.7
प्रतिपद्य नरो धर्मं स्वर्गलोके महीयते
धर्मात्मकः कर्मविधिर्देहिनां नृपसत्तम
तस्मिन्नाश्रमिणः सन्तः स्वकर्माणीह कुर्वते
MBh 12.279.8
चतुर्विधा हि लोकस्य यात्रा तात विधीयते
मर्त्या यत्रावतिष्ठन्ते सा च कामात्प्रवर्तते
MBh 12.279.9
सुकृतासुकृतं कर्म निषेव्य विविधैः क्रमैः
दशार्धप्रविभक्तानां भूतानां बहुधा गतिः
MBh 12.279.10
सौवर्णं राजतं वापि यथा भाण्डं निषिच्यते
तथा निषिच्यते जन्तुः पूर्वकर्मवशानुगः
MBh 12.279.11
नाबीजाज्जायते किंचिन्नाकृत्वा सुखमेधते
सुकृती विन्दति सुखं प्राप्य देहक्षयं नरः
MBh 12.279.12
दैवं तात न पश्यामि नास्ति दैवस्य साधनम्
स्वभावतो हि संसिद्धा देवगन्धर्वदानवाः
MBh 12.279.13
प्रेत्य जातिकृतं कर्म न स्मरन्ति सदा जनाः
ते वै तस्य फलप्राप्तौ कर्म चापि चतुर्विधम्
MBh 12.279.14
लोकयात्राश्रयश्चैव शब्दो वेदाश्रयः कृतः
शान्त्यर्थं मनसस्तात नैतद्वृद्धानुशासनम्
MBh 12.279.15
चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम्
कुरुते यादृशं कर्म तादृशं प्रतिपद्यते
MBh 12.279.16
निरन्तरं च मिश्रं च फलते कर्म पार्थिव
कल्याणं यदि वा पापं न तु नाशोऽस्य विद्यते
MBh 12.279.17
कदाचित्सुकृतं तात कूटस्थमिव तिष्ठति
मज्जमानस्य संसारे यावद्दुःखाद्विमुच्यते
MBh 12.279.18
ततो दुःखक्षयं कृत्वा सुकृतं कर्म सेवते
सुकृतक्षयाद्दुष्कृतं च तद्विद्धि मनुजाधिप
MBh 12.279.19
दमः क्षमा धृतिस्तेजः संतोषः सत्यवादिता
ह्रीरहिंसाव्यसनिता दाक्ष्यं चेति सुखावहाः
MBh 12.279.20
दुष्कृते सुकृते वापि न जन्तुरयतो भवेत्
नित्यं मनःसमाधाने प्रयतेत विचक्षणः
MBh 12.279.21
नायं परस्य सुकृतं दुष्कृतं वापि सेवते
करोति यादृशं कर्म तादृशं प्रतिपद्यते
MBh 12.279.22
सुखदुःखे समाधाय पुमानन्येन गच्छति
अन्येनैव जनः सर्वः संगतो यश्च पार्थिव
MBh 12.279.23
परेषां यदसूयेत न तत्कुर्यात्स्वयं नरः
यो ह्यसूयुस्तथायुक्तः सोऽवहासं नियच्छति
MBh 12.279.24
भीरू राजन्यो ब्राह्मणः सर्वभक्षो; वैश्योऽनीहावान्हीनवर्णोऽलसश्च
विद्वांश्चाशीलो वृत्तहीनः कुलीनः; सत्याद्भ्रष्टो ब्राह्मणः स्त्री च दुष्टा
MBh 12.279.25
रागी मुक्तः पचमानोऽऽत्महेतो;र्मूर्खो वक्ता नृपहीनं च राष्ट्रम्
एते सर्वे शोच्यतां यान्ति राज;न्यश्चायुक्तः स्नेहहीनः प्रजासु
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 278
- Next chapter · Śānti-Parva Ch 280 →
Sources and Connected Readings
Continue from these 25 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.279local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷