🪷 Mahābhārata · Śānti-Parva · Chapter 278

The Book of Peace · the great dharma-śāstra · Parva 12 · 38 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 38 Shlokas

MBh 12.278.1
युधिष्ठिर उवाच तिष्ठते मे सदा तात कौतूहलमिदं हृदि तदहं श्रोतुमिच्छामि त्वत्तः कुरुपितामह
MBh 12.278.2
कथं देवर्षिरुशना सदा काव्यो महामतिः असुराणां प्रियकरः सुराणामप्रिये रतः
MBh 12.278.3
वर्धयामास तेजश्च किमर्थममितौजसाम् नित्यं वैरनिबद्धाश्च दानवाः सुरसत्तमैः
MBh 12.278.4
कथं चाप्युशना प्राप शुक्रत्वममरद्युतिः ऋद्धिं च स कथं प्राप्तः सर्वमेतद्ब्रवीहि मे
MBh 12.278.5
न याति च स तेजस्वी मध्येन नभसः कथम् एतदिच्छामि विज्ञातुं निखिलेन पितामह
MBh 12.278.6
भीष्म उवाच शृणु राजन्नवहितः सर्वमेतद्यथातथम् यथामति यथा चैतच्छ्रुतपूर्वं मयानघ
MBh 12.278.7
एष भार्गवदायादो मुनिः सत्यो दृढव्रतः असुराणां प्रियकरो निमित्ते करुणात्मके
MBh 12.278.8
इन्द्रोऽथ धनदो राजा यक्षरक्षोधिपः स च प्रभविष्णुश्च कोशस्य जगतश्च तथा प्रभुः
MBh 12.278.9
तस्यात्मानमथाविश्य योगसिद्धो महामुनिः रुद्ध्वा धनपतिं देवं योगेन हृतवान्वसु
MBh 12.278.10
हृते धने ततः शर्म न लेभे धनदस्तथा आपन्नमन्युः संविग्नः सोऽभ्यगात्सुरसत्तमम्
MBh 12.278.11
निवेदयामास तदा शिवायामिततेजसे देवश्रेष्ठाय रुद्राय सौम्याय बहुरूपिणे
MBh 12.278.12
कुबेर उवाच योगात्मकेनोशनसा रुद्ध्वा मम हृतं वसु योगेनात्मगतिं कृत्वा निःसृतश्च महातपाः
MBh 12.278.13
भीष्म उवाच एतच्छ्रुत्वा ततः क्रुद्धो महायोगी महेश्वरः संरक्तनयनो राजञ्शूलमादाय तस्थिवान्
MBh 12.278.14
क्वास्वौ क्वासाविति प्राह गृहीत्वा परमायुधम् उशना दूरतस्तस्य बभौ ज्ञात्वा चिकीर्षितम्
MBh 12.278.15
स महायोगिनो बुद्ध्वा तं रोषं वै महात्मनः गतिमागमनं वेत्ति स्थानं वेत्ति ततः प्रभुः
MBh 12.278.16
संचिन्त्योग्रेण तपसा महात्मानं महेश्वरम् उशना योगसिद्धात्मा शूलाग्रे प्रत्यदृश्यत
MBh 12.278.17
विज्ञातरूपः स तदा तपःसिद्धेन धन्विना ज्ञात्वा शूलं च देवेशः पाणिना समनामयत्
MBh 12.278.18
आनतेनाथ शूलेन पाणिनामिततेजसा पिनाकमिति चोवाच शूलमुग्रायुधः प्रभुः
MBh 12.278.19
पाणिमध्यगतं दृष्ट्वा भार्गवं तमुमापतिः आस्यं विवृत्य ककुदी पाणिं संप्राक्षिपच्छनैः
MBh 12.278.20
स तु प्रविष्ट उशना कोष्ठं माहेश्वरं प्रभुः व्यचरच्चापि तत्रासौ महात्मा भृगुनन्दनः
MBh 12.278.21
युधिष्ठिर उवाच किमर्थं व्यचरद्राजन्नुशना तस्य धीमतः जठरे देवदेवस्य किं चाकार्षीन्महाद्युतिः
MBh 12.278.22
भीष्म उवाच पुरा सोऽन्तर्जलगतः स्थाणुभूतो महाव्रतः वर्षाणामभवद्राजन्प्रयुतान्यर्बुदानि च
MBh 12.278.23
उदतिष्ठत्तपस्तप्त्वा दुश्चरं स महाह्रदात् ततो देवातिदेवस्तं ब्रह्मा समुपसर्पत
MBh 12.278.24
तपोवृद्धिमपृच्छच्च कुशलं चैनमव्ययम् तपः सुचीर्णमिति च प्रोवाच वृषभध्वजः
MBh 12.278.25
तत्संयोगेन वृद्धिं चाप्यपश्यत्स तु शंकरः महामतिरचिन्त्यात्मा सत्यधर्मरतः सदा
MBh 12.278.26
स तेनाढ्यो महायोगी तपसा च धनेन च व्यराजत महाराज त्रिषु लोकेषु वीर्यवान्
MBh 12.278.27
ततः पिनाकी योगात्मा ध्यानयोगं समाविशत् उशना तु समुद्विग्नो निलिल्ये जठरे ततः
MBh 12.278.28
तुष्टाव च महायोगी देवं तत्रस्थ एव च निःसारं काङ्क्षमाणस्तु तेजसा प्रत्यहन्यत
MBh 12.278.29
उशना तु तदोवाच जठरस्थो महामुनिः प्रसादं मे कुरुष्वेति पुनः पुनररिंदम
MBh 12.278.30
तमुवाच महादेवो गच्छ शिश्नेन मोक्षणम् इति स्रोतांसि सर्वाणि रुद्ध्वा त्रिदशपुंगवः
MBh 12.278.31
अपश्यमानः स द्वारं सर्वतःपिहितो मुनिः पर्यक्रामद्दह्यमान इतश्चेतश्च तेजसा
MBh 12.278.32
स विनिष्क्रम्य शिश्नेन शुक्रत्वमभिपेदिवान् कार्येण तेन नभसो नागच्छत च मध्यतः
MBh 12.278.33
निष्क्रान्तमथ तं दृष्ट्वा ज्वलन्तमिव तेजसा भवो रोषसमाविष्टः शूलोद्यतकरः स्थितः
MBh 12.278.34
न्यवारयत तं देवी क्रुद्धं पशुपतिं पतिम् पुत्रत्वमगमद्देव्या वारिते शंकरे च सः
MBh 12.278.35
देव्युवाच हिंसनीयस्त्वया नैष मम पुत्रत्वमागतः न हि देवोदरात्कश्चिन्निःसृतो नाशमर्छति
MBh 12.278.36
भीष्म उवाच ततः प्रीतोऽभवद्देव्याः प्रहसंश्चेदमब्रवीत् गच्छत्वेष यथाकाममिति राजन्पुनः पुनः
MBh 12.278.37
ततः प्रणम्य वरदं देवं देवीमुमां तथा उशना प्राप तद्धीमान्गतिमिष्टां महामुनिः
MBh 12.278.38
एतत्ते कथितं तात भार्गवस्य महात्मनः चरितं भरतश्रेष्ठ यन्मां त्वं परिपृच्छसि

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 38 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.278local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷