🪷 Mahābhārata · Śānti-Parva · Chapter 274
The Book of Peace · the great dharma-śāstra · Parva 12 · 60 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 60 Shlokas
MBh 12.274.1
युधिष्ठिर उवाच
पितामह महाप्राज्ञ सर्वशास्त्रविशारद
अस्ति वृत्रवधादेव विवक्षा मम जायते
MBh 12.274.2
ज्वरेण मोहितो वृत्रः कथितस्ते जनाधिप
निहतो वासवेनेह वज्रेणेति ममानघ
MBh 12.274.3
कथमेष महाप्राज्ञ ज्वरः प्रादुरभूत्कुतः
ज्वरोत्पत्तिं निपुणतः श्रोतुमिच्छाम्यहं प्रभो
MBh 12.274.4
भीष्म उवाच
शृणु राजञ्ज्वरस्येह संभवं लोकविश्रुतम्
विस्तरं चास्य वक्ष्यामि यादृशं चैव भारत
MBh 12.274.5
पुरा मेरोर्महाराज शृङ्गं त्रैलोक्यविश्रुतम्
ज्योतिष्कं नाम सावित्रं सर्वरत्नविभूषितम्
अप्रमेयमनाधृष्यं सर्वलोकेषु भारत
MBh 12.274.6
तत्र देवो गिरितटे हेमधातुविभूषिते
पर्यङ्क इव विभ्राजन्नुपविष्टो बभूव ह
MBh 12.274.7
शैलराजसुता चास्य नित्यं पार्श्वे स्थिता बभौ
तथा देवा महात्मानो वसवश्च महौजसः
MBh 12.274.8
तथैव च महात्मानावश्विनौ भिषजां वरौ
तथा वैश्रवणो राजा गुह्यकैरभिसंवृतः
MBh 12.274.9
यक्षाणामधिपः श्रीमान्कैलासनिलयः प्रभुः
अङ्गिरःप्रमुखाश्चैव तथा देवर्षयोऽपरे
MBh 12.274.10
विश्वावसुश्च गन्धर्वस्तथा नारदपर्वतौ
अप्सरोगणसंघाश्च समाजग्मुरनेकशः
MBh 12.274.11
ववौ शिवः सुखो वायुर्नानागन्धवहः शुचिः
सर्वर्तुकुसुमोपेताः पुष्पवन्तो महाद्रुमाः
MBh 12.274.12
तथा विद्याधराश्चैव सिद्धाश्चैव तपोधनाः
महादेवं पशुपतिं पर्युपासन्त भारत
MBh 12.274.13
भूतानि च महाराज नानारूपधराण्यथ
राक्षसाश्च महारौद्राः पिशाचाश्च महाबलाः
MBh 12.274.14
बहुरूपधरा हृष्टा नानाप्रहरणोद्यताः
देवस्यानुचरास्तत्र तस्थिरे चानलोपमाः
MBh 12.274.15
नन्दी च भगवांस्तत्र देवस्यानुमते स्थितः
प्रगृह्य ज्वलितं शूलं दीप्यमानं स्वतेजसा
MBh 12.274.16
गङ्गा च सरितां श्रेष्ठा सर्वतीर्थजलोद्भवा
पर्युपासत तं देवं रूपिणी कुरुनन्दन
MBh 12.274.17
एवं स भगवांस्तत्र पूज्यमानः सुरर्षिभिः
देवैश्च सुमहाभागैर्महादेवो व्यतिष्ठत
MBh 12.274.18
कस्यचित्त्वथ कालस्य दक्षो नाम प्रजापतिः
पूर्वोक्तेन विधानेन यक्ष्यमाणोऽन्वपद्यत
MBh 12.274.19
ततस्तस्य मखं देवाः सर्वे शक्रपुरोगमाः
गमनाय समागम्य बुद्धिमापेदिरे तदा
MBh 12.274.20
ते विमानैर्महात्मानो ज्वलितैर्ज्वलनप्रभाः
देवस्यानुमतेऽगच्छन्गङ्गाद्वारमिति श्रुतिः
MBh 12.274.21
प्रस्थिता देवता दृष्ट्वा शैलराजसुता तदा
उवाच वचनं साध्वी देवं पशुपतिं पतिम्
MBh 12.274.22
भगवन्क्व नु यान्त्येते देवाः शक्रपुरोगमाः
ब्रूहि तत्त्वेन तत्त्वज्ञ संशयो मे महानयम्
MBh 12.274.23
महेश्वर उवाच
दक्षो नाम महाभागे प्रजानां पतिरुत्तमः
हयमेधेन यजते तत्र यान्ति दिवौकसः
MBh 12.274.24
उमा उवाच
यज्ञमेतं महाभाग किमर्थं नाभिगच्छसि
केन वा प्रतिषेधेन गमनं ते न विद्यते
MBh 12.274.25
महेश्वर उवाच
सुरैरेव महाभागे सर्वमेतदनुष्ठितम्
यज्ञेषु सर्वेषु मम न भाग उपकल्पितः
MBh 12.274.26
पूर्वोपायोपपन्नेन मार्गेण वरवर्णिनि
न मे सुराः प्रयच्छन्ति भागं यज्ञस्य धर्मतः
MBh 12.274.27
उमा उवाच
भगवन्सर्वभूतेषु प्रभवाभ्यधिको गुणैः
अजेयश्चाप्रधृष्यश्च तेजसा यशसा श्रिया
MBh 12.274.28
अनेन ते महाभाग प्रतिषेधेन भागतः
अतीव दुःखमुत्पन्नं वेपथुश्च ममानघ
MBh 12.274.29
भीष्म उवाच
एवमुक्त्वा तु सा देवी देवं पशुपतिं पतिम्
तूष्णींभूताभवद्राजन्दह्यमानेन चेतसा
MBh 12.274.30
अथ देव्या मतं ज्ञात्वा हृद्गतं यच्चिकीर्षितम्
स समाज्ञापयामास तिष्ठ त्वमिति नन्दिनम्
MBh 12.274.31
ततो योगबलं कृत्वा सर्वयोगेश्वरेश्वरः
तं यज्ञं सुमहातेजा भीमैरनुचरैस्तदा
सहसा घातयामास देवदेवः पिनाकधृक्
MBh 12.274.32
केचिन्नादानमुञ्चन्त केचिद्धासांश्च चक्रिरे
रुधिरेणापरे राजंस्तत्राग्निं समवाकिरन्
MBh 12.274.33
केचिद्यूपान्समुत्पाट्य बभ्रमुर्विकृताननाः
आस्यैरन्ये चाग्रसन्त तथैव परिचारकान्
MBh 12.274.34
ततः स यज्ञो नृपते वध्यमानः समन्ततः
आस्थाय मृगरूपं वै खमेवाभ्यपतत्तदा
MBh 12.274.35
तं तु यज्ञं तथारूपं गच्छन्तमुपलभ्य सः
धनुरादाय बाणं च तदान्वसरत प्रभुः
MBh 12.274.36
ततस्तस्य सुरेशस्य क्रोधादमिततेजसः
ललाटात्प्रसृतो घोरः स्वेदबिन्दुर्बभूव ह
MBh 12.274.37
तस्मिन्पतितमात्रे तु स्वेदबिन्दौ तथा भुवि
प्रादुर्बभूव सुमहानग्निः कालानलोपमः
MBh 12.274.38
तत्र चाजायत तदा पुरुषः पुरुषर्षभ
ह्रस्वोऽतिमात्ररक्ताक्षो हरिश्मश्रुर्विभीषणः
MBh 12.274.39
ऊर्ध्वकेशोऽतिलोमाङ्गः श्येनोलूकस्तथैव च
करालः कृष्णवर्णश्च रक्तवासास्तथैव च
MBh 12.274.40
तं यज्ञं स महासत्त्वोऽदहत्कक्षमिवानलः
देवाश्चाप्यद्रवन्सर्वे ततो भीता दिशो दश
MBh 12.274.41
तेन तस्मिन्विचरता पुरुषेण विशां पते
पृथिवी व्यचलद्राजन्नतीव भरतर्षभ
MBh 12.274.42
हाहाभूते प्रवृत्ते तु नादे लोकभयंकरे
पितामहो महादेवं दर्शयन्प्रत्यभाषत
MBh 12.274.43
भवतोऽपि सुराः सर्वे भागं दास्यन्ति वै प्रभो
क्रियतां प्रतिसंहारः सर्वदेवेश्वर त्वया
MBh 12.274.44
इमा हि देवताः सर्वा ऋषयश्च परंतप
तव क्रोधान्महादेव न शान्तिमुपलेभिरे
MBh 12.274.45
यश्चैष पुरुषो जातः स्वेदात्ते विबुधोत्तम
ज्वरो नामैष धर्मज्ञ लोकेषु प्रचरिष्यति
MBh 12.274.46
एकीभूतस्य न ह्यस्य धारणे तेजसः प्रभो
समर्था सकला पृथ्वी बहुधा सृज्यतामयम्
MBh 12.274.47
इत्युक्तो ब्रह्मणा देवो भागे चापि प्रकल्पिते
भगवन्तं तथेत्याह ब्रह्माणममितौजसम्
MBh 12.274.48
परां च प्रीतिमगमदुत्स्मयंश्च पिनाकधृक्
अवाप च तदा भागं यथोक्तं ब्रह्मणा भवः
MBh 12.274.49
ज्वरं च सर्वधर्मज्ञो बहुधा व्यसृजत्तदा
शान्त्यर्थं सर्वभूतानां शृणु तच्चापि पुत्रक
MBh 12.274.50
शीर्षाभितापो नागानां पर्वतानां शिलाजतुः
अपां तु नीलिकां विद्यान्निर्मोकं भुजगेषु च
MBh 12.274.51
खोरकः सौरभेयाणामूषरं पृथिवीतले
पशूनामपि धर्मज्ञ दृष्टिप्रत्यवरोधनम्
MBh 12.274.52
रन्ध्रागतमथाश्वानां शिखोद्भेदश्च बर्हिणाम्
नेत्ररोगः कोकिलानां ज्वरः प्रोक्तो महात्मना
MBh 12.274.53
अब्जानां पित्तभेदश्च सर्वेषामिति नः श्रुतम्
शुकानामपि सर्वेषां हिक्किका प्रोच्यते ज्वरः
MBh 12.274.54
शार्दूलेष्वथ धर्मज्ञ श्रमो ज्वर इहोच्यते
मानुषेषु तु धर्मज्ञ ज्वरो नामैष विश्रुतः
मरणे जन्मनि तथा मध्ये चाविशते नरम्
MBh 12.274.55
एतन्माहेश्वरं तेजो ज्वरो नाम सुदारुणः
नमस्यश्चैव मान्यश्च सर्वप्राणिभिरीश्वरः
MBh 12.274.56
अनेन हि समाविष्टो वृत्रो धर्मभृतां वरः
व्यजृम्भत ततः शक्रस्तस्मै वज्रमवासृजत्
MBh 12.274.57
प्रविश्य वज्रो वृत्रं तु दारयामास भारत
दारितश्च स वज्रेण महायोगी महासुरः
जगाम परमं स्थानं विष्णोरमिततेजसः
MBh 12.274.58
विष्णुभक्त्या हि तेनेदं जगद्व्याप्तमभूत्पुरा
तस्माच्च निहतो युद्धे विष्णोः स्थानमवाप्तवान्
MBh 12.274.59
इत्येष वृत्रमाश्रित्य ज्वरस्य महतो मया
विस्तरः कथितः पुत्र किमन्यत्प्रब्रवीमि ते
MBh 12.274.60
इमां ज्वरोत्पत्तिमदीनमानसः; पठेत्सदा यः सुसमाहितो नरः
विमुक्तरोगः स सुखी मुदा युतो; लभेत कामान्स यथामनीषितान्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 273
- Next chapter · Śānti-Parva Ch 275 →
Sources and Connected Readings
Continue from these 60 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.274local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷