🪷 Mahābhārata · Śānti-Parva · Chapter 273

The Book of Peace · the great dharma-śāstra · Parva 12 · 63 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 63 Shlokas

MBh 12.273.1
भीष्म उवाच वृत्रस्य तु महाराज ज्वराविष्टस्य सर्वशः अभवन्यानि लिङ्गानि शरीरे तानि मे शृणु
MBh 12.273.2
ज्वलितास्योऽभवद्घोरो वैवर्ण्यं चागमत्परम् गात्रकम्पश्च सुमहाञ्श्वासश्चाप्यभवन्महान् रोमहर्षश्च तीव्रोऽभून्निःश्वासश्च महान्नृप
MBh 12.273.3
शिवा चाशिवसंकाशा तस्य वक्त्रात्सुदारुणा निष्पपात महाघोरा स्मृतिः सा तस्य भारत उल्काश्च ज्वलितास्तस्य दीप्ताः पार्श्वे प्रपेदिरे
MBh 12.273.4
गृध्रकङ्कवडाश्चैव वाचोऽमुञ्चन्सुदारुणाः वृत्रस्योपरि संहृष्टाश्चक्रवत्परिबभ्रमुः
MBh 12.273.5
ततस्तं रथमास्थाय देवाप्यायितमाहवे वज्रोद्यतकरः शक्रस्तं दैत्यं प्रत्यवैक्षत
MBh 12.273.6
अमानुषमथो नादं स मुमोच महासुरः व्यजृम्भत च राजेन्द्र तीव्रज्वरसमन्वितः अथास्य जृम्भतः शक्रस्ततो वज्रमवासृजत्
MBh 12.273.7
स वज्रः सुमहातेजाः कालाग्निसदृशोपमः क्षिप्रमेव महाकायं वृत्रं दैत्यमपातयत्
MBh 12.273.8
ततो नादः समभवत्पुनरेव समन्ततः वृत्रं विनिहतं दृष्ट्वा देवानां भरतर्षभ
MBh 12.273.9
वृत्रं तु हत्वा भगवान्दानवारिर्महायशाः वज्रेण विष्णुयुक्तेन दिवमेव समाविशत्
MBh 12.273.10
अथ वृत्रस्य कौरव्य शरीरादभिनिःसृता ब्रह्महत्या महाघोरा रौद्रा लोकभयावहा
MBh 12.273.11
करालदशना भीमा विकृता कृष्णपिङ्गला प्रकीर्णमूर्धजा चैव घोरनेत्रा च भारत
MBh 12.273.12
कपालमालिनी चैव कृशा च भरतर्षभ रुधिरार्द्रा च धर्मज्ञ चीरवस्त्रनिवासिनी
MBh 12.273.13
साभिनिष्क्रम्य राजेन्द्र तादृग्रूपा भयावहा वज्रिणं मृगयामास तदा भरतसत्तम
MBh 12.273.14
कस्यचित्त्वथ कालस्य वृत्रहा कुरुनन्दन स्वर्गायाभिमुखः प्रायाल्लोकानां हितकाम्यया
MBh 12.273.15
बिसान्निःसरमाणं तु दृष्ट्वा शक्रं महौजसम् कण्ठे जग्राह देवेन्द्रं सुलग्ना चाभवत्तदा
MBh 12.273.16
स हि तस्मिन्समुत्पन्ने ब्रह्महत्याकृते भये नलिन्यां बिसमध्यस्थो बभूवाब्दगणान्बहून्
MBh 12.273.17
अनुसृत्य तु यत्नात्स तया वै ब्रह्महत्यया तदा गृहीतः कौरव्य निश्चेष्टः समपद्यत
MBh 12.273.18
तस्या व्यपोहने शक्रः परं यत्नं चकार ह न चाशकत्तां देवेन्द्रो ब्रह्महत्यां व्यपोहितुम्
MBh 12.273.19
गृहीत एव तु तया देवेन्द्रो भरतर्षभ पितामहमुपागम्य शिरसा प्रत्यपूजयत्
MBh 12.273.20
ज्ञात्वा गृहीतं शक्रं तु द्विजप्रवरहत्यया ब्रह्मा संचिन्तयामास तदा भरतसत्तम
MBh 12.273.21
तामुवाच महाबाहो ब्रह्महत्यां पितामहः स्वरेण मधुरेणाथ सान्त्वयन्निव भारत
MBh 12.273.22
मुच्यतां त्रिदशेन्द्रोऽयं मत्प्रियं कुरु भामिनि ब्रूहि किं ते करोम्यद्य कामं कं त्वमिहेच्छसि
MBh 12.273.23
ब्रह्महत्योवाच त्रिलोकपूजिते देवे प्रीते त्रैलोक्यकर्तरि कृतमेवेह मन्येऽहं निवासं तु विधत्स्व मे
MBh 12.273.24
त्वया कृतेयं मर्यादा लोकसंरक्षणार्थिना स्थापना वै सुमहती त्वया देव प्रवर्तिता
MBh 12.273.25
प्रीते तु त्वयि धर्मज्ञ सर्वलोकेश्वरे प्रभो शक्रादपगमिष्यामि निवासं तु विधत्स्व मे
MBh 12.273.26
भीष्म उवाच तथेति तां प्राह तदा ब्रह्महत्यां पितामहः उपायतः स शक्रस्य ब्रह्महत्यां व्यपोहत
MBh 12.273.27
ततः स्वयंभुवा ध्यातस्तत्र वह्निर्महात्मना ब्रह्माणमुपसंगम्य ततो वचनमब्रवीत्
MBh 12.273.28
प्राप्तोऽस्मि भगवन्देव त्वत्सकाशमरिंदम यत्कर्तव्यं मया देव तद्भवान्वक्तुमर्हति
MBh 12.273.29
ब्रह्मोवाच बहुधा विभजिष्यामि ब्रह्महत्यामिमामहम् शक्रस्याद्य विमोक्षार्थं चतुर्भागं प्रतीच्छ मे
MBh 12.273.30
अग्निरुवाच मम मोक्षस्य कोऽन्तो वै ब्रह्मन्ध्यायस्व वै प्रभो एतदिच्छामि विज्ञातुं तत्त्वतो लोकपूजित
MBh 12.273.31
ब्रह्मोवाच यस्त्वां ज्वलन्तमासाद्य स्वयं वै मानवः क्वचित् बीजौषधिरसैर्वह्ने न यक्ष्यति तमोवृतः
MBh 12.273.32
तमेषा यास्यति क्षिप्रं तत्रैव च निवत्स्यति ब्रह्महत्या हव्यवाह व्येतु ते मानसो ज्वरः
MBh 12.273.33
भीष्म उवाच इत्युक्तः प्रतिजग्राह तद्वचो हव्यकव्यभुक् पितामहस्य भगवांस्तथा च तदभूत्प्रभो
MBh 12.273.34
ततो वृक्षौषधितृणं समाहूय पितामहः इममर्थं महाराज वक्तुं समुपचक्रमे
MBh 12.273.35
ततो वृक्षौषधितृणं तथैवोक्तं यथातथम् व्यथितं वह्निवद्राजन्ब्रह्माणमिदमब्रवीत्
MBh 12.273.36
अस्माकं ब्रह्महत्यातो कोऽन्तो लोकपितामह स्वभावनिहतानस्मान्न पुनर्हन्तुमर्हसि
MBh 12.273.37
वयमग्निं तथा शीतं वर्षं च पवनेरितम् सहामः सततं देव तथा छेदनभेदनम्
MBh 12.273.38
ब्रह्महत्यामिमामद्य भवतः शासनाद्वयम् ग्रहीष्यामस्त्रिलोकेश मोक्षं चिन्तयतां भवान्
MBh 12.273.39
ब्रह्मोवाच पर्वकाले तु संप्राप्ते यो वै छेदनभेदनम् करिष्यति नरो मोहात्तमेषानुगमिष्यति
MBh 12.273.40
भीष्म उवाच ततो वृक्षौषधितृणमेवमुक्तं महात्मना ब्रह्माणमभिसंपूज्य जगामाशु यथागतम्
MBh 12.273.41
आहूयाप्सरसो देवस्ततो लोकपितामहः वाचा मधुरया प्राह सान्त्वयन्निव भारत
MBh 12.273.42
इयमिन्द्रादनुप्राप्ता ब्रह्महत्या वराङ्गनाः चतुर्थमस्या भागं हि मयोक्ताः संप्रतीच्छत
MBh 12.273.43
अप्सरस ऊचुः ग्रहणे कृतबुद्धीनां देवेश तव शासनात् मोक्षं समयतोऽस्माकं चिन्तयस्व पितामह
MBh 12.273.44
ब्रह्मोवाच रजस्वलासु नारीषु यो वै मैथुनमाचरेत् तमेषा यास्यति क्षिप्रं व्येतु वो मानसो ज्वरः
MBh 12.273.45
भीष्म उवाच तथेति हृष्टमनस उक्त्वाथाप्सरसां गणाः स्वानि स्थानानि संप्राप्य रेमिरे भरतर्षभ
MBh 12.273.46
ततस्त्रिलोककृद्देवः पुनरेव महातपाः अपः संचिन्तयामास ध्यातास्ताश्चाप्यथागमन्
MBh 12.273.47
तास्तु सर्वाः समागम्य ब्रह्माणममितौजसम् इदमूचुर्वचो राजन्प्रणिपत्य पितामहम्
MBh 12.273.48
इमाः स्म देव संप्राप्तास्त्वत्सकाशमरिंदम शासनात्तव देवेश समाज्ञापय नो विभो
MBh 12.273.49
ब्रह्मोवाच इयं वृत्रादनुप्राप्ता पुरुहूतं महाभया ब्रह्महत्या चतुर्थांशमस्या यूयं प्रतीच्छत
MBh 12.273.50
आप ऊचुः एवं भवतु लोकेश यथा वदसि नः प्रभो मोक्षं समयतोऽस्माकं संचिन्तयितुमर्हसि
MBh 12.273.51
त्वं हि देवेश सर्वस्य जगतः परमो गुरुः कोऽन्यः प्रसादो हि भवेद्यः कृच्छ्रान्नः समुद्धरेत्
MBh 12.273.52
ब्रह्मोवाच अल्पा इति मतिं कृत्वा यो नरो बुद्धिमोहितः श्लेष्ममूत्रपुरीषाणि युष्मासु प्रतिमोक्ष्यति
MBh 12.273.53
तमेषा यास्यति क्षिप्रं तत्रैव च निवत्स्यति तथा वो भविता मोक्ष इति सत्यं ब्रवीमि वः
MBh 12.273.54
भीष्म उवाच ततो विमुच्य देवेन्द्रं ब्रह्महत्या युधिष्ठिर यथानिसृष्टं तं देशमगच्छद्देवशासनात्
MBh 12.273.55
एवं शक्रेण संप्राप्ता ब्रह्महत्या जनाधिप पितामहमनुज्ञाप्य सोऽश्वमेधमकल्पयत्
MBh 12.273.56
श्रूयते हि महाराज संप्राप्ता वासवेन वै ब्रह्महत्या ततः शुद्धिं हयमेधेन लब्धवान्
MBh 12.273.57
समवाप्य श्रियं देवो हत्वारींश्च सहस्रशः प्रहर्षमतुलं लेभे वासवः पृथिवीपते
MBh 12.273.58
वृत्रस्य रुधिराच्चैव खुखुण्डाः पार्थ जज्ञिरे द्विजातिभिरभक्ष्यास्ते दीक्षितैश्च तपोधनैः
MBh 12.273.59
सर्वावस्थं त्वमप्येषां द्विजातीनां प्रियं कुरु इमे हि भूतले देवाः प्रथिताः कुरुनन्दन
MBh 12.273.60
एवं शक्रेण कौरव्य बुद्धिसौक्ष्म्यान्महासुरः उपायपूर्वं निहतो वृत्रोऽथामिततेजसा
MBh 12.273.61
एवं त्वमपि कौरव्य पृथिव्यामपराजितः भविष्यसि यथा देवः शतक्रतुरमित्रहा
MBh 12.273.62
ये तु शक्रकथां दिव्यामिमां पर्वसु पर्वसु विप्रमध्ये पठिष्यन्ति न ते प्राप्स्यन्ति किल्बिषम्
MBh 12.273.63
इत्येतद्वृत्रमाश्रित्य शक्रस्यात्यद्भुतं महत् कथितं कर्म ते तात किं भूयः श्रोतुमिच्छसि

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 63 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.273local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷