🪷 Mahābhārata · Śānti-Parva · Chapter 272

The Book of Peace · the great dharma-śāstra · Parva 12 · 44 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 44 Shlokas

MBh 12.272.1
युधिष्ठिर उवाच अहो धर्मिष्ठता तात वृत्रस्यामिततेजसः यस्य विज्ञानमतुलं विष्णोर्भक्तिश्च तादृशी
MBh 12.272.2
दुर्विज्ञेयमिदं तात विष्णोरमिततेजसः कथं वा राजशार्दूल पदं तज्ज्ञातवानसौ
MBh 12.272.3
भवता कथितं ह्येतच्छ्रद्दधे चाहमच्युत भूयस्तु मे समुत्पन्ना बुद्धिरव्यक्तदर्शनात्
MBh 12.272.4
कथं विनिहतो वृत्रः शक्रेण भरतर्षभ धर्मिष्ठो विष्णुभक्तश्च तत्त्वज्ञश्च पदान्वये
MBh 12.272.5
एतन्मे संशयं ब्रूहि पृच्छतो भरतर्षभ वृत्रस्तु राजशार्दूल यथा शक्रेण निर्जितः
MBh 12.272.6
यथा चैवाभवद्युद्धं तच्चाचक्ष्व पितामह विस्तरेण महाबाहो परं कौतूहलं हि मे
MBh 12.272.7
भीष्म उवाच रथेनेन्द्रः प्रयातो वै सार्धं सुरगणैः पुरा ददर्शाथाग्रतो वृत्रं विष्ठितं पर्वतोपमम्
MBh 12.272.8
योजनानां शतान्यूर्ध्वं पञ्चोच्छ्रितमरिंदम शतानि विस्तरेणाथ त्रीण्येवाभ्यधिकानि तु
MBh 12.272.9
तत्प्रेक्ष्य तादृशं रूपं त्रैलोक्येनापि दुर्जयम् वृत्रस्य देवाः संत्रस्ता न शान्तिमुपलेभिरे
MBh 12.272.10
शक्रस्य तु तदा राजन्नूरुस्तम्भो व्यजायत भयाद्वृत्रस्य सहसा दृष्ट्वा तद्रूपमुत्तमम्
MBh 12.272.11
ततो नादः समभवद्वादित्राणां च निस्वनः देवासुराणां सर्वेषां तस्मिन्युद्ध उपस्थिते
MBh 12.272.12
अथ वृत्रस्य कौरव्य दृष्ट्वा शक्रमुपस्थितम् न संभ्रमो न भीः काचिदास्था वा समजायत
MBh 12.272.13
ततः समभवद्युद्धं त्रैलोक्यस्य भयंकरम् शक्रस्य च सुरेन्द्रस्य वृत्रस्य च महात्मनः
MBh 12.272.14
असिभिः पट्टिशैः शूलैः शक्तितोमरमुद्गरैः शिलाभिर्विविधाभिश्च कार्मुकैश्च महास्वनैः
MBh 12.272.15
अस्त्रैश्च विविधैर्दिव्यैः पावकोल्काभिरेव च देवासुरैस्ततः सैन्यैः सर्वमासीत्समाकुलम्
MBh 12.272.16
पितामहपुरोगाश्च सर्वे देवगणास्तथा ऋषयश्च महाभागास्तद्युद्धं द्रष्टुमागमन्
MBh 12.272.17
विमानाग्र्यैर्महाराज सिद्धाश्च भरतर्षभ गन्धर्वाश्च विमानाग्र्यैरप्सरोभिः समागमन्
MBh 12.272.18
ततोऽन्तरिक्षमावृत्य वृत्रो धर्मभृतां वरः अश्मवर्षेण देवेन्द्रं पर्वतात्समवाकिरत्
MBh 12.272.19
ततो देवगणाः क्रुद्धाः सर्वतः शस्त्रवृष्टिभिः अश्मवर्षमपोहन्त वृत्रप्रेरितमाहवे
MBh 12.272.20
वृत्रश्च कुरुशार्दूल महामायो महाबलः मोहयामास देवेन्द्रं मायायुद्धेन सर्वतः
MBh 12.272.21
तस्य वृत्रार्दितस्याथ मोह आसीच्छतक्रतोः रथंतरेण तं तत्र वसिष्ठः समबोधयत्
MBh 12.272.22
वसिष्ठ उवाच देवश्रेष्ठोऽसि देवेन्द्र सुरारिविनिबर्हण त्रैलोक्यबलसंयुक्तः कस्माच्छक्र विषीदसि
MBh 12.272.23
एष ब्रह्मा च विष्णुश्च शिवश्चैव जगत्प्रभुः सोमश्च भगवान्देवः सर्वे च परमर्षयः
MBh 12.272.24
मा कार्षीः कश्मलं शक्र कश्चिदेवेतरो यथा आर्यां युद्धे मतिं कृत्वा जहि शत्रुं सुरेश्वर
MBh 12.272.25
एष लोकगुरुस्त्र्यक्षः सर्वलोकनमस्कृतः निरीक्षते त्वां भगवांस्त्यज मोहं सुरेश्वर
MBh 12.272.26
एते ब्रह्मर्षयश्चैव बृहस्पतिपुरोगमाः स्तवेन शक्र दिव्येन स्तुवन्ति त्वां जयाय वै
MBh 12.272.27
भीष्म उवाच एवं संबोध्यमानस्य वसिष्ठेन महात्मना अतीव वासवस्यासीद्बलमुत्तमतेजसः
MBh 12.272.28
ततो बुद्धिमुपागम्य भगवान्पाकशासनः योगेन महता युक्तस्तां मायां व्यपकर्षत
MBh 12.272.29
ततोऽङ्गिरःसुतः श्रीमांस्ते चैव परमर्षयः दृष्ट्वा वृत्रस्य विक्रान्तमुपगम्य महेश्वरम् ऊचुर्वृत्रविनाशार्थं लोकानां हितकाम्यया
MBh 12.272.30
ततो भगवतस्तेजो ज्वरो भूत्वा जगत्पतेः समाविशन्महारौद्रं वृत्रं दैत्यवरं तदा
MBh 12.272.31
विष्णुश्च भगवान्देवः सर्वलोकाभिपूजितः ऐन्द्रं समाविशद्वज्रं लोकसंरक्षणे रतः
MBh 12.272.32
ततो बृहस्पतिर्धीमानुपागम्य शतक्रतुम् वसिष्ठश्च महातेजाः सर्वे च परमर्षयः
MBh 12.272.33
ते समासाद्य वरदं वासवं लोकपूजितम् ऊचुरेकाग्रमनसो जहि वृत्रमिति प्रभो
MBh 12.272.34
महेश्वर उवाच एष वृत्रो महाञ्शक्र बलेन महता वृतः विश्वात्मा सर्वगश्चैव बहुमायश्च विश्रुतः
MBh 12.272.35
तदेनमसुरश्रेष्ठं त्रैलोक्येनापि दुर्जयम् जहि त्वं योगमास्थाय मावमंस्थाः सुरेश्वर
MBh 12.272.36
अनेन हि तपस्तप्तं बलार्थममराधिप षष्टिं वर्षसहस्राणि ब्रह्मा चास्मै वरं ददौ
MBh 12.272.37
महत्त्वं योगिनां चैव महामायत्वमेव च महाबलत्वं च तथा तेजश्चाग्र्यं सुरेश्वर
MBh 12.272.38
एतद्वै मामकं तेजः समाविशति वासव वृत्रमेनं त्वमप्येवं जहि वज्रेण दानवम्
MBh 12.272.39
शक्र उवाच भगवंस्त्वत्प्रसादेन दितिजं सुदुरासदम् वज्रेण निहनिष्यामि पश्यतस्ते सुरर्षभ
MBh 12.272.40
भीष्म उवाच आविश्यमाने दैत्ये तु ज्वरेणाथ महासुरे देवतानामृषीणां च हर्षान्नादो महानभूत्
MBh 12.272.41
ततो दुन्दुभयश्चैव शङ्खाश्च सुमहास्वनाः मुरजा डिण्डिमाश्चैव प्रावाद्यन्त सहस्रशः
MBh 12.272.42
असुराणां तु सर्वेषां स्मृतिलोपोऽभवन्महान् प्रज्ञानाशश्च बलवान्क्षणेन समपद्यत
MBh 12.272.43
तमाविष्टमथो ज्ञात्वा ऋषयो देवतास्तथा स्तुवन्तः शक्रमीशानं तथा प्राचोदयन्नपि
MBh 12.272.44
रथस्थस्य हि शक्रस्य युद्धकाले महात्मनः ऋषिभिः स्तूयमानस्य रूपमासीत्सुदुर्दृशम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 44 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.272local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷