🪷 Mahābhārata · Śānti-Parva · Chapter 275
The Book of Peace · the great dharma-śāstra · Parva 12 · 21 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 21 Shlokas
MBh 12.275.1
युधिष्ठिर उवाच
शोकाद्दुःखाच्च मृत्योश्च त्रस्यन्ति प्राणिनः सदा
उभयं मे यथा न स्यात्तन्मे ब्रूहि पितामह
MBh 12.275.2
भीष्म उवाच
अत्रैवोदाहरन्तीममितिहासं पुरातनम्
नारदस्य च संवादं समङ्गस्य च भारत
MBh 12.275.3
नारद उवाच
उरसेव प्रणमसे बाहुभ्यां तरसीव च
संप्रहृष्टमना नित्यं विशोक इव लक्ष्यसे
MBh 12.275.4
उद्वेगं नेह ते किंचित्सुसूक्ष्ममपि लक्षये
नित्यतृप्त इव स्वस्थो बालवच्च विचेष्टसे
MBh 12.275.5
समङ्ग उवाच
भूतं भव्यं भविष्यच्च सर्वं सत्त्वेषु मानद
तेषां तत्त्वानि जानामि ततो न विमना ह्यहम्
MBh 12.275.6
उपक्रमानहं वेद पुनरेव फलोदयान्
लोके फलानि चित्राणि ततो न विमना ह्यहम्
MBh 12.275.7
अगाधाश्चाप्रतिष्ठाश्च गतिमन्तश्च नारद
अन्धा जडाश्च जीवन्ति पश्यास्मानपि जीवतः
MBh 12.275.8
विहितेनैव जीवन्ति अरोगाङ्गा दिवौकसः
बलवन्तोऽबलाश्चैव तद्वदस्मान्सभाजय
MBh 12.275.9
सहस्रिणश्च जीवन्ति जीवन्ति शतिनस्तथा
शाकेन चान्ये जीवन्ति पश्यास्मानपि जीवतः
MBh 12.275.10
यदा न शोचेमहि किं नु न स्या;द्धर्मेण वा नारद कर्मणा वा
कृतान्तवश्यानि यदा सुखानि; दुःखानि वा यन्न विधर्षयन्ति
MBh 12.275.11
यस्मै प्रज्ञां कथयन्ते मनुष्याः; प्रज्ञामूलो हीन्द्रियाणां प्रसादः
मुह्यन्ति शोचन्ति यदेन्द्रियाणि; प्रज्ञालाभो नास्ति मूढेन्द्रियस्य
MBh 12.275.12
मूढस्य दर्पः स पुनर्मोह एव; मूढस्य नायं न परोऽस्ति लोकः
न ह्येव दुःखानि सदा भवन्ति; सुखस्य वा नित्यशो लाभ एव
MBh 12.275.13
भावात्मकं संपरिवर्तमानं; न मादृशः संज्वरं जातु कुर्यात्
इष्टान्भोगान्नानुरुध्येत्सुखं वा; न चिन्तयेद्दुःखमभ्यागतं वा
MBh 12.275.14
समाहितो न स्पृहयेत्परेषां; नानागतं नाभिनन्देत लाभम्
न चापि हृष्येद्विपुलेऽर्थलाभे; तथार्थनाशे च न वै विषीदेत्
MBh 12.275.15
न बान्धवा न च वित्तं न कौली; न च श्रुतं न च मन्त्रा न वीर्यम्
दुःखात्त्रातुं सर्व एवोत्सहन्ते; परत्र शीले न तु यान्ति शान्तिम्
MBh 12.275.16
नास्ति बुद्धिरयुक्तस्य नायोगाद्विद्यते सुखम्
धृतिश्च दुःखत्यागश्चाप्युभयं नः सुखोदयम्
MBh 12.275.17
प्रियं हि हर्षजननं हर्ष उत्सेकवर्धनः
उत्सेको नरकायैव तस्मात्तं संत्यजाम्यहम्
MBh 12.275.18
एताञ्शोकभयोत्सेकान्मोहनान्सुखदुःखयोः
पश्यामि साक्षिवल्लोके देहस्यास्य विचेष्टनात्
MBh 12.275.19
अर्थकामौ परित्यज्य विशोको विगतज्वरः
तृष्णामोहौ तु संत्यज्य चरामि पृथिवीमिमाम्
MBh 12.275.20
न मृत्युतो न चाधर्मान्न लोभान्न कुतश्चन
पीतामृतस्येवात्यन्तमिह चामुत्र वा भयम्
MBh 12.275.21
एतद्ब्रह्मन्विजानामि महत्कृत्वा तपोऽव्ययम्
तेन नारद संप्राप्तो न मां शोकः प्रबाधते
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 274
- Next chapter · Śānti-Parva Ch 276 →
Sources and Connected Readings
Continue from these 21 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.275local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷