🪷 Mahābhārata · Śānti-Parva · Chapter 252

The Book of Peace · the great dharma-śāstra · Parva 12 · 20 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 20 Shlokas

MBh 12.252.1
युधिष्ठिर उवाच सूक्ष्मं साधु समादिष्टं भवता धर्मलक्षणम् प्रतिभा त्वस्ति मे काचित्तां ब्रूयामनुमानतः
MBh 12.252.2
भूयांसो हृदये ये मे प्रश्नास्ते व्याहृतास्त्वया इममन्यं प्रवक्ष्यामि न राजन्विग्रहादिव
MBh 12.252.3
इमानि हि प्रापयन्ति सृजन्त्युत्तारयन्ति च न धर्मः परिपाठेन शक्यो भारत वेदितुम्
MBh 12.252.4
अन्यो धर्मः समस्थस्य विषमस्थस्य चापरः आपदस्तु कथं शक्याः परिपाठेन वेदितुम्
MBh 12.252.5
सदाचारो मतो धर्मः सन्तस्त्वाचारलक्षणाः साध्यासाध्यं कथं शक्यं सदाचारो ह्यलक्षणम्
MBh 12.252.6
दृश्यते धर्मरूपेण अधर्मं प्राकृतश्चरन् धर्मं चाधर्मरूपेण कश्चिदप्राकृतश्चरन्
MBh 12.252.7
पुनरस्य प्रमाणं हि निर्दिष्टं शास्त्रकोविदैः वेदवादाश्चानुयुगं ह्रसन्तीति ह नः श्रुतम्
MBh 12.252.8
अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे अन्ये कलियुगे धर्मा यथाशक्तिकृता इव
MBh 12.252.9
आम्नायवचनं सत्यमित्ययं लोकसंग्रहः आम्नायेभ्यः परं वेदाः प्रसृता विश्वतोमुखाः
MBh 12.252.10
ते चेत्सर्वे प्रमाणं वै प्रमाणं तन्न विद्यते प्रमाणे चाप्रमाणे च विरुद्धे शास्त्रता कुतः
MBh 12.252.11
धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः या या विक्रियते संस्था ततः सापि प्रणश्यति
MBh 12.252.12
विद्म चैवं न वा विद्म शक्यं वा वेदितुं न वा अणीयान्क्षुरधाराया गरीयान्पर्वतादपि
MBh 12.252.13
गन्धर्वनगराकारः प्रथमं संप्रदृश्यते अन्वीक्ष्यमाणः कविभिः पुनर्गच्छत्यदर्शनम्
MBh 12.252.14
निपानानीव गोभ्याशे क्षेत्रे कुल्येव भारत स्मृतोऽपि शाश्वतो धर्मो विप्रहीणो न दृश्यते
MBh 12.252.15
कामादन्ये क्षयादन्ये कारणैरपरैस्तथा असन्तो हि वृथाचारं भजन्ते बहवोऽपरे
MBh 12.252.16
धर्मो भवति स क्षिप्रं विलीनस्त्वेव साधुषु अन्ये तानाहुरुन्मत्तानपि चावहसन्त्युत
MBh 12.252.17
महाजना ह्युपावृत्ता राजधर्मं समाश्रिताः न हि सर्वहितः कश्चिदाचारः संप्रदृश्यते
MBh 12.252.18
तेनैवान्यः प्रभवति सोऽपरं बाधते पुनः दृश्यते चैव स पुनस्तुल्यरूपो यदृच्छया
MBh 12.252.19
येनैवान्यः प्रभवति सोऽपरानपि बाधते आचाराणामनैकाग्र्यं सर्वेषामेव लक्षयेत्
MBh 12.252.20
चिराभिपन्नः कविभिः पूर्वं धर्म उदाहृतः तेनाचारेण पूर्वेण संस्था भवति शाश्वती

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 20 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.252local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷