🪷 Mahābhārata · Śānti-Parva · Chapter 253

The Book of Peace · the great dharma-śāstra · Parva 12 · 51 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 51 Shlokas

MBh 12.253.1
भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम् तुलाधारस्य वाक्यानि धर्मे जाजलिना सह
MBh 12.253.2
वने वनचरः कश्चिज्जाजलिर्नाम वै द्विजः सागरोद्देशमागम्य तपस्तेपे महातपाः
MBh 12.253.3
नियतो नियताहारश्चीराजिनजटाधरः मलपङ्कधरो धीमान्बहून्वर्षगणान्मुनिः
MBh 12.253.4
स कदाचिन्महातेजा जलवासो महीपते चचार लोकान्विप्रर्षिः प्रेक्षमाणो मनोजवः
MBh 12.253.5
स चिन्तयामास मुनिर्जलमध्ये कदाचन विप्रेक्ष्य सागरान्तां वै महीं सवनकाननाम्
MBh 12.253.6
न मया सदृशोऽस्तीह लोके स्थावरजङ्गमे अप्सु वैहायसं गच्छेन्मया योऽन्यः सहेति वै
MBh 12.253.7
स दृश्यमानो रक्षोभिर्जलमध्येऽवदत्ततः अब्रुवंश्च पिशाचास्तं नैवं त्वं वक्तुमर्हसि
MBh 12.253.8
तुलाधारो वणिग्धर्मा वाराणस्यां महायशाः सोऽप्येवं नार्हते वक्तुं यथा त्वं द्विजसत्तम
MBh 12.253.9
इत्युक्तो जाजलिर्भूतैः प्रत्युवाच महातपाः पश्येयं तमहं प्राज्ञं तुलाधारं यशस्विनम्
MBh 12.253.10
इति ब्रुवाणं तमृषिं रक्षांस्युद्धृत्य सागरात् अब्रुवन्गच्छ पन्थानमास्थायेमं द्विजोत्तम
MBh 12.253.11
इत्युक्तो जाजलिर्भूतैर्जगाम विमनास्तदा वाराणस्यां तुलाधारं समासाद्याब्रवीद्वचः
MBh 12.253.12
युधिष्ठिर उवाच किं कृतं सुकृतं कर्म तात जाजलिना पुरा येन सिद्धिं परां प्राप्तस्तन्नो व्याख्यातुमर्हसि
MBh 12.253.13
भीष्म उवाच अतीव तपसा युक्तो घोरेण स बभूव ह नद्युपस्पर्शनरतः सायं प्रातर्महातपाः
MBh 12.253.14
अग्नीन्परिचरन्सम्यक्स्वाध्यायपरमो द्विजः वानप्रस्थविधानज्ञो जाजलिर्ज्वलितः श्रिया
MBh 12.253.15
सत्ये तपसि तिष्ठन्स न च धर्ममवैक्षत वर्षास्वाकाशशायी स हेमन्ते जलसंश्रयः
MBh 12.253.16
वातातपसहो ग्रीष्मे न च धर्ममविन्दत दुःखशय्याश्च विविधा भूमौ च परिवर्तनम्
MBh 12.253.17
ततः कदाचित्स मुनिर्वर्षास्वाकाशमास्थितः अन्तरिक्षाज्जलं मूर्ध्ना प्रत्यगृह्णान्मुहुर्मुहुः
MBh 12.253.18
अथ तस्य जटाः क्लिन्ना बभूवुर्ग्रथिताः प्रभो अरण्यगमनान्नित्यं मलिनो मलसंयुताः
MBh 12.253.19
स कदाचिन्निराहारो वायुभक्षो महातपाः तस्थौ काष्ठवदव्यग्रो न चचाल च कर्हिचित्
MBh 12.253.20
तस्य स्म स्थाणुभूतस्य निर्विचेष्टस्य भारत कुलिङ्गशकुनौ राजन्नीडं शिरसि चक्रतुः
MBh 12.253.21
स तौ दयावान्विप्रर्षिरुपप्रैक्षत दम्पती कुर्वाणं नीडकं तत्र जटासु तृणतन्तुभिः
MBh 12.253.22
यदा स न चलत्येव स्थाणुभूतो महातपाः ततस्तौ परिविश्वस्तौ सुखं तत्रोषतुस्तदा
MBh 12.253.23
अतीतास्वथ वर्षासु शरत्काल उपस्थिते प्राजापत्येन विधिना विश्वासात्काममोहितौ
MBh 12.253.24
तत्रापातयतां राजञ्शिरस्यण्डानि खेचरौ तान्यबुध्यत तेजस्वी स विप्रः संशितव्रतः
MBh 12.253.25
बुद्ध्वा च स महातेजा न चचालैव जाजलिः धर्मे धृतमना नित्यं नाधर्मं स त्वरोचयत्
MBh 12.253.26
अहन्यहनि चागम्य ततस्तौ तस्य मूर्धनि आश्वासितौ वै वसतः संप्रहृष्टौ तदा विभो
MBh 12.253.27
अण्डेभ्यस्त्वथ पुष्टेभ्यः प्रजायन्त शकुन्तकाः व्यवर्धन्त च तत्रैव न चाकम्पत जाजलिः
MBh 12.253.28
स रक्षमाणस्त्वण्डानि कुलिङ्गानां यतव्रतः तथैव तस्थौ धर्मात्मा निर्विचेष्टः समाहितः
MBh 12.253.29
ततस्तु कालसमये बभूवुस्तेऽथ पक्षिणः बुबुधे तांश्च स मुनिर्जातपक्षाञ्शकुन्तकान्
MBh 12.253.30
ततः कदाचित्तांस्तत्र पश्यन्पक्षीन्यतव्रतः बभूव परमप्रीतस्तदा मतिमतां वरः
MBh 12.253.31
तथा तानभिसंवृद्धान्दृष्ट्वा चाप्नुवतां मुदम् शकुनौ निर्भयौ तत्र ऊषतुश्चात्मजैः सह
MBh 12.253.32
जातपक्षांश्च सोऽपश्यदुड्डीनान्पुनरागतान् सायं सायं द्विजान्विप्रो न चाकम्पत जाजलिः
MBh 12.253.33
कदाचित्पुनरभ्येत्य पुनर्गच्छन्ति संततम् त्यक्ता मातृपितृभ्यां ते न चाकम्पत जाजलिः
MBh 12.253.34
अथ ते दिवसं चारीं गत्वा सायं पुनर्नृप उपावर्तन्त तत्रैव निवासार्थं शकुन्तकाः
MBh 12.253.35
कदाचिद्दिवसान्पञ्च समुत्पत्य विहंगमाः षष्ठेऽहनि समाजग्मुर्न चाकम्पत जाजलिः
MBh 12.253.36
क्रमेण च पुनः सर्वे दिवसानि बहून्यपि नोपावर्तन्त शकुना जातप्राणाः स्म ते यदा
MBh 12.253.37
कदाचिन्मासमात्रेण समुत्पत्य विहंगमाः नैवागच्छंस्ततो राजन्प्रातिष्ठत स जाजलिः
MBh 12.253.38
ततस्तेषु प्रलीनेषु जाजलिर्जातविस्मयः सिद्धोऽस्मीति मतिं चक्रे ततस्तं मान आविशत्
MBh 12.253.39
स तथा निर्गतान्दृष्ट्वा शकुन्तान्नियतव्रतः संभावितात्मा संभाव्य भृशं प्रीतस्तदाभवन्
MBh 12.253.40
स नद्यां समुपस्पृश्य तर्पयित्वा हुताशनम् उदयन्तमथादित्यमभ्यगच्छन्महातपाः
MBh 12.253.41
संभाव्य चटकान्मूर्ध्नि जाजलिर्जपतां वरः आस्फोटयत्तदाकाशे धर्मः प्राप्तो मयेति वै
MBh 12.253.42
अथान्तरिक्षे वागासीत्तां स शुश्राव जाजलिः धर्मेण न समस्त्वं वै तुलाधारस्य जाजले
MBh 12.253.43
वाराणस्यां महाप्राज्ञस्तुलाधारः प्रतिष्ठितः सोऽप्येवं नार्हते वक्तुं यथा त्वं भाषसे द्विज
MBh 12.253.44
सोऽमर्षवशमापन्नस्तुलाधारदिदृक्षया पृथिवीमचरद्राजन्यत्रसायंगृहो मुनिः
MBh 12.253.45
कालेन महतागच्छत्स तु वाराणसीं पुरीम् विक्रीणन्तं च पण्यानि तुलाधारं ददर्श सः
MBh 12.253.46
सोऽपि दृष्ट्वैव तं विप्रमायान्तं भाण्डजीवनः समुत्थाय सुसंहृष्टः स्वागतेनाभ्यपूजयत्
MBh 12.253.47
तुलाधार उवाच आयानेवासि विदितो मम ब्रह्मन्न संशयः ब्रवीमि यत्तु वचनं तच्छृणुष्व द्विजोत्तम
MBh 12.253.48
सागरानूपमाश्रित्य तपस्तप्तं त्वया महत् न च धर्मस्य संज्ञां त्वं पुरा वेत्थ कथंचन
MBh 12.253.49
ततः सिद्धस्य तपसा तव विप्र शकुन्तकाः क्षिप्रं शिरस्यजायन्त ते च संभावितास्त्वया
MBh 12.253.50
जातपक्षा यदा ते च गताश्चारीमितस्ततः मन्यमानस्ततो धर्मं चटकप्रभवं द्विज खे वाचं त्वमथाश्रौषीर्मां प्रति द्विजसत्तम
MBh 12.253.51
अमर्षवशमापन्नस्ततः प्राप्तो भवानिह करवाणि प्रियं किं ते तद्ब्रूहि द्विजसत्तम

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 51 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.253local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷