🪷 Mahābhārata · Śānti-Parva · Chapter 251

The Book of Peace · the great dharma-śāstra · Parva 12 · 26 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 26 Shlokas

MBh 12.251.1
युधिष्ठिर उवाच इमे वै मानवाः सर्वे धर्मं प्रति विशङ्किताः कोऽयं धर्मः कुतो धर्मस्तन्मे ब्रूहि पितामह
MBh 12.251.2
धर्मो न्वयमिहार्थः किममुत्रार्थोऽपि वा भवेत् उभयार्थोऽपि वा धर्मस्तन्मे ब्रूहि पितामह
MBh 12.251.3
भीष्म उवाच सदाचारः स्मृतिर्वेदास्त्रिविधं धर्मलक्षणम् चतुर्थमर्थमित्याहुः कवयो धर्मलक्षणम्
MBh 12.251.4
अपि ह्युक्तानि कर्माणि व्यवस्यन्त्युत्तरावरे लोकयात्रार्थमेवेह धर्मस्य नियमः कृतः उभयत्र सुखोदर्क इह चैव परत्र च
MBh 12.251.5
अलब्ध्वा निपुणं धर्मं पापः पापे प्रसज्जति न च पापकृतः पापान्मुच्यन्ते केचिदापदि
MBh 12.251.6
अपापवादी भवति यदा भवति धर्मवित् धर्मस्य निष्ठा स्वाचारस्तमेवाश्रित्य भोत्स्यसे
MBh 12.251.7
यदाधर्मसमाविष्टो धनं गृह्णाति तस्करः रमते निर्हरन्स्तेनः परवित्तमराजके
MBh 12.251.8
यदास्य तद्धरन्त्यन्ये तदा राजानमिच्छति तदा तेषां स्पृहयते ये वै तुष्टाः स्वकैर्धनैः
MBh 12.251.9
अभीतः शुचिरभ्येति राजद्वारमशङ्कितः न हि दुश्चरितं किंचिदन्तरात्मनि पश्यति
MBh 12.251.10
सत्यस्य वचनं साधु न सत्याद्विद्यते परम् सत्येन विधृतं सर्वं सर्वं सत्ये प्रतिष्ठितम्
MBh 12.251.11
अपि पापकृतो रौद्राः सत्यं कृत्वा पृथक्पृथक् अद्रोहमविसंवादं प्रवर्तन्ते तदाश्रयाः ते चेन्मिथोऽधृतिं कुर्युर्विनश्येयुरसंशयम्
MBh 12.251.12
न हर्तव्यं परधनमिति धर्मः सनातनः मन्यन्ते बलवन्तस्तं दुर्बलैः संप्रवर्तितम् यदा नियतिदौर्बल्यमथैषामेव रोचते
MBh 12.251.13
न ह्यत्यन्तं बलयुता भवन्ति सुखिनोऽपि वा तस्मादनार्जवे बुद्धिर्न कार्या ते कथंचन
MBh 12.251.14
असाधुभ्योऽस्य न भयं न चोरेभ्यो न राजतः न किंचित्कस्यचित्कुर्वन्निर्भयः शुचिरावसेत्
MBh 12.251.15
सर्वतः शङ्कते स्तेनो मृगो ग्राममिवेयिवान् बहुधाचरितं पापमन्यत्रैवानुपश्यति
MBh 12.251.16
मुदितः शुचिरभ्येति सर्वतो निर्भयः सदा न हि दुश्चरितं किंचिदात्मनोऽन्येषु पश्यति
MBh 12.251.17
दातव्यमित्ययं धर्म उक्तो भूतहिते रतैः तं मन्यन्ते धनयुताः कृपणैः संप्रवर्तितम्
MBh 12.251.18
यदा नियतिकार्पण्यमथैषामेव रोचते न ह्यत्यन्तं धनवन्तो भवन्ति सुखिनोऽपि वा
MBh 12.251.19
यदन्यैर्विहितं नेच्छेदात्मनः कर्म पूरुषः न तत्परेषु कुर्वीत जानन्नप्रियमात्मनः
MBh 12.251.20
योऽन्यस्य स्यादुपपतिः स कं किं वक्तुमर्हति यदन्यस्तस्य तत्कुर्यान्न मृष्येदिति मे मतिः
MBh 12.251.21
जीवितुं यः स्वयं चेच्छेत्कथं सोऽन्यं प्रघातयेत् यद्यदात्मन इच्छेत तत्परस्यापि चिन्तयेत्
MBh 12.251.22
अतिरिक्तैः संविभजेद्भोगैरन्यानकिंचनान् एतस्मात्कारणाद्धात्रा कुसीदं संप्रवर्तितम्
MBh 12.251.23
यस्मिंस्तु देवाः समये संतिष्ठेरंस्तथा भवेत् अथ चेल्लाभसमये स्थितिर्धर्मेऽपि शोभना
MBh 12.251.24
सर्वं प्रियाभ्युपगतं धर्ममाहुर्मनीषिणः पश्यैतं लक्षणोद्देशं धर्माधर्मे युधिष्ठिर
MBh 12.251.25
लोकसंग्रहसंयुक्तं विधात्रा विहितं पुरा सूक्ष्मधर्मार्थनियतं सतां चरितमुत्तमम्
MBh 12.251.26
धर्मलक्षणमाख्यातमेतत्ते कुरुसत्तम तस्मादनार्जवे बुद्धिर्न कार्या ते कथंचन

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 26 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.251local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷