🪷 Mahābhārata · Śānti-Parva · Chapter 250

The Book of Peace · the great dharma-śāstra · Parva 12 · 41 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 41 Shlokas

MBh 12.250.1
नारद उवाच विनीय दुःखमबला सा त्वतीवायतेक्षणा उवाच प्राञ्जलिर्भूत्वा लतेवावर्जिता तदा
MBh 12.250.2
त्वया सृष्टा कथं नारी मादृशी वदतां वर रौद्रकर्माभिजायेत सर्वप्राणिभयंकरी
MBh 12.250.3
बिभेम्यहमधर्मस्य धर्म्यमादिश कर्म मे त्वं मां भीतामवेक्षस्व शिवेनेश्वर चक्षुषा
MBh 12.250.4
बालान्वृद्धान्वयःस्थांश्च न हरेयमनागसः प्राणिनः प्राणिनामीश नमस्तेऽभिप्रसीद मे
MBh 12.250.5
प्रियान्पुत्रान्वयस्यांश्च भ्रातॄन्मातॄः पितॄनपि अपध्यास्यन्ति यद्देव मृतांस्तेषां बिभेम्यहम्
MBh 12.250.6
कृपणाश्रुपरिक्लेदो दहेन्मां शाश्वतीः समाः तेभ्योऽहं बलवद्भीता शरणं त्वामुपागता
MBh 12.250.7
यमस्य भवने देव यात्यन्ते पापकर्मिणः प्रसादये त्वा वरद प्रसादं कुरु मे प्रभो
MBh 12.250.8
एतमिच्छाम्यहं कामं त्वत्तो लोकपितामह इच्छेयं त्वत्प्रसादाच्च तपस्तप्तुं सुरेश्वर
MBh 12.250.9
पितामह उवाच मृत्यो संकल्पिता मे त्वं प्रजासंहारहेतुना गच्छ संहर सर्वास्त्वं प्रजा मा च विचारय
MBh 12.250.10
एतदेवमवश्यं हि भविता नैतदन्यथा क्रियतामनवद्याङ्गि यथोक्तं मद्वचोऽनघे
MBh 12.250.11
नारद उवाच एवमुक्ता महाबाहो मृत्युः परपुरंजय न व्याजहार तस्थौ च प्रह्वा भगवदुन्मुखी
MBh 12.250.12
पुनः पुनरथोक्ता सा गतसत्त्वेव भामिनी तूष्णीमासीत्ततो देवो देवानामीश्वरेश्वरः
MBh 12.250.13
प्रससाद किल ब्रह्मा स्वयमेवात्मनात्मवान् स्मयमानश्च लोकेशो लोकान्सर्वानवैक्षत
MBh 12.250.14
निवृत्तरोषे तस्मिंस्तु भगवत्यपराजिते सा कन्यापजगामास्य समीपादिति नः श्रुतम्
MBh 12.250.15
अपसृत्याप्रतिश्रुत्य प्रजासंहरणं तदा त्वरमाणेव राजेन्द्र मृत्युर्धेनुकमभ्ययात्
MBh 12.250.16
सा तत्र परमं देवी तपोऽचरत दुश्चरम् समा ह्येकपदे तस्थौ दश पद्मानि पञ्च च
MBh 12.250.17
तां तथा कुर्वतीं तत्र तपः परमदुश्चरम् पुनरेव महातेजा ब्रह्मा वचनमब्रवीत्
MBh 12.250.18
कुरुष्व मे वचो मृत्यो तदनादृत्य सत्वरा तथैवैकपदे तात पुनरन्यानि सप्त सा
MBh 12.250.19
तस्थौ पद्मानि षट्चैव पञ्च द्वे चैव मानद भूयः पद्मायुतं तात मृगैः सह चचार सा
MBh 12.250.20
पुनर्गत्वा ततो राजन्मौनमातिष्ठदुत्तमम् अप्सु वर्षसहस्राणि सप्त चैकं च पार्थिव
MBh 12.250.21
ततो जगाम सा कन्या कौशिकीं भरतर्षभ तत्र वायुजलाहारा चचार नियमं पुनः
MBh 12.250.22
ततो ययौ महाभागा गङ्गां मेरुं च केवलम् तस्थौ दार्विव निश्चेष्टा भूतानां हितकाम्यया
MBh 12.250.23
ततो हिमवतो मूर्ध्नि यत्र देवाः समीजिरे तत्राङ्गुष्ठेन राजेन्द्र निखर्वमपरं ततः तस्थौ पितामहं चैव तोषयामास यत्नतः
MBh 12.250.24
ततस्तामब्रवीत्तत्र लोकानां प्रभवाप्ययः किमिदं वर्तते पुत्रि क्रियतां तद्वचो मम
MBh 12.250.25
ततोऽब्रवीत्पुनर्मृत्युर्भगवन्तं पितामहम् न हरेयं प्रजा देव पुनस्त्वाहं प्रसादये
MBh 12.250.26
तामधर्मभयत्रस्तां पुनरेव च याचतीम् तदाब्रवीद्देवदेवो निगृह्येदं वचस्ततः
MBh 12.250.27
अधर्मो नास्ति ते मृत्यो संयच्छेमाः प्रजाः शुभे मया ह्युक्तं मृषा भद्रे भविता नेह किंचन
MBh 12.250.28
धर्मः सनातनश्च त्वामिहैवानुप्रवेक्ष्यते अहं च विबुधाश्चैव त्वद्धिते निरताः सदा
MBh 12.250.29
इममन्यं च ते कामं ददामि मनसेप्सितम् न त्वा दोषेण यास्यन्ति व्याधिसंपीडिताः प्रजाः
MBh 12.250.30
पुरुषेषु च रूपेण पुरुषस्त्वं भविष्यसि स्त्रीषु स्त्रीरूपिणी चैव तृतीयेषु नपुंसकम्
MBh 12.250.31
सैवमुक्ता महाराज कृताञ्जलिरुवाच ह पुनरेव महात्मानं नेति देवेशमव्ययम्
MBh 12.250.32
तामब्रवीत्तदा देवो मृत्यो संहर मानवान् अधर्मस्ते न भविता तथा ध्यास्याम्यहं शुभे
MBh 12.250.33
यानश्रुबिन्दून्पतितानपश्यं; ये पाणिभ्यां धारितास्ते पुरस्तात् ते व्याधयो मानवान्घोररूपाः; प्राप्ते काले पीडयिष्यन्ति मृत्यो
MBh 12.250.34
सर्वेषां त्वं प्राणिनामन्तकाले; कामक्रोधौ सहितौ योजयेथाः एवं धर्मस्त्वामुपैष्यत्यमेयो; न चाधर्मं लप्स्यसे तुल्यवृत्तिः
MBh 12.250.35
एवं धर्मं पालयिष्यस्यथोक्तं; न चात्मानं मज्जयिष्यस्यधर्मे तस्मात्कामं रोचयाभ्यागतं त्वं; संयोज्याथो संहरस्वेह जन्तून्
MBh 12.250.36
सा वै तदा मृत्युसंज्ञापदेशा;च्छापाद्भीता बाढमित्यब्रवीत्तम् अथो प्राणान्प्राणिनामन्तकाले; कामक्रोधौ प्राप्य निर्मोह्य हन्ति
MBh 12.250.37
मृत्योर्ये ते व्याधयश्चाश्रुपाता; मनुष्याणां रुज्यते यैः शरीरम् सर्वेषां वै प्राणिनां प्राणनान्ते; तस्माच्छोकं मा कृथा बुध्य बुद्ध्या
MBh 12.250.38
सर्वे देवाः प्राणिनां प्राणनान्ते; गत्वा वृत्ताः संनिवृत्तास्तथैव एवं सर्वे मानवाः प्राणनान्ते; गत्वावृत्ता देववद्राजसिंह
MBh 12.250.39
वायुर्भीमो भीमनादो महौजाः; सर्वेषां च प्राणिनां प्राणभूतः नानावृत्तिर्देहिनां देहभेदे; तस्माद्वायुर्देवदेवो विशिष्टः
MBh 12.250.40
सर्वे देवा मर्त्यसंज्ञाविशिष्टाः; सर्वे मर्त्या देवसंज्ञाविशिष्टाः तस्मात्पुत्रं मा शुचो राजसिंह; पुत्रः स्वर्गं प्राप्य ते मोदते ह
MBh 12.250.41
एवं मृत्युर्देवसृष्टा प्रजानां; प्राप्ते काले संहरन्ती यथावत् तस्याश्चैव व्याधयस्तेऽश्रुपाताः; प्राप्ते काले संहरन्तीह जन्तून्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 41 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.250local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷