🪷 Mahābhārata · Śānti-Parva · Chapter 233

The Book of Peace · the great dharma-śāstra · Parva 12 · 20 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 20 Shlokas

MBh 12.233.1
शुक उवाच यदिदं वेदवचनं कुरु कर्म त्यजेति च कां दिशं विद्यया यान्ति कां च गच्छन्ति कर्मणा
MBh 12.233.2
एतद्वै श्रोतुमिच्छामि तद्भवान्प्रब्रवीतु मे एतत्त्वन्योन्यवैरूप्ये वर्तते प्रतिकूलतः
MBh 12.233.3
भीष्म उवाच इत्युक्तः प्रत्युवाचेदं पराशरसुतः सुतम् कर्मविद्यामयावेतौ व्याख्यास्यामि क्षराक्षरौ
MBh 12.233.4
यां दिशं विद्यया यान्ति यां च गच्छन्ति कर्मणा शृणुष्वैकमनाः पुत्र गह्वरं ह्येतदन्तरम्
MBh 12.233.5
अस्ति धर्म इति प्रोक्तं नास्तीत्यत्रैव यो वदेत् तस्य पक्षस्य सदृशमिदं मम भवेदथ
MBh 12.233.6
द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः प्रवृत्तिलक्षणो धर्मो निवृत्तौ च सुभाषितः
MBh 12.233.7
कर्मणा बध्यते जन्तुर्विद्यया तु प्रमुच्यते तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः
MBh 12.233.8
कर्मणा जायते प्रेत्य मूर्तिमान्षोडशात्मकः विद्यया जायते नित्यमव्ययो ह्यव्ययात्मकः
MBh 12.233.9
कर्म त्वेके प्रशंसन्ति स्वल्पबुद्धितरा नराः तेन ते देहजालानि रमयन्त उपासते
MBh 12.233.10
ये तु बुद्धिं परां प्राप्ता धर्मनैपुण्यदर्शिनः न ते कर्म प्रशंसन्ति कूपं नद्यां पिबन्निव
MBh 12.233.11
कर्मणः फलमाप्नोति सुखदुःखे भवाभवौ विद्यया तदवाप्नोति यत्र गत्वा न शोचति
MBh 12.233.12
यत्र गत्वा न म्रियते यत्र गत्वा न जायते न जीर्यते यत्र गत्वा यत्र गत्वा न वर्धते
MBh 12.233.13
यत्र तद्ब्रह्म परममव्यक्तमजरं ध्रुवम् अव्याहतमनायासममृतं चावियोगि च
MBh 12.233.14
द्वंद्वैर्यत्र न बाध्यन्ते मानसेन च कर्मणा समाः सर्वत्र मैत्राश्च सर्वभूतहिते रताः
MBh 12.233.15
विद्यामयोऽन्यः पुरुषस्तात कर्ममयोऽपरः विद्धि चन्द्रमसं दर्शे सूक्ष्मया कलया स्थितम्
MBh 12.233.16
तदेतदृषिणा प्रोक्तं विस्तरेणानुमीयते नवजं शशिनं दृष्ट्वा वक्रं तन्तुमिवाम्बरे
MBh 12.233.17
एकादशविकारात्मा कलासंभारसंभृतः मूर्तिमानिति तं विद्धि तात कर्मगुणात्मकम्
MBh 12.233.18
देवो यः संश्रितस्तस्मिन्नब्बिन्दुरिव पुष्करे क्षेत्रज्ञं तं विजानीयान्नित्यं त्यागजितात्मकम्
MBh 12.233.19
तमो रजश्च सत्त्वं च विद्धि जीवगुणानिमान् जीवमात्मगुणं विद्यादात्मानं परमात्मनः
MBh 12.233.20
सचेतनं जीवगुणं वदन्ति; स चेष्टते चेष्टयते च सर्वम् ततः परं क्षेत्रविदो वदन्ति; प्रावर्तयद्यो भुवनानि सप्त

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 20 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.233local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷