🪷 Mahābhārata · Śānti-Parva · Chapter 234

The Book of Peace · the great dharma-śāstra · Parva 12 · 29 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 29 Shlokas

MBh 12.234.1
शुक उवाच क्षरात्प्रभृति यः सर्गः सगुणानीन्द्रियाणि च बुद्ध्यैश्वर्याभिसर्गार्थं यद्ध्यानं चात्मनः शुभम्
MBh 12.234.2
भूय एव तु लोकेऽस्मिन्सद्वृत्तिं वृत्तिहैतुकीम् यया सन्तः प्रवर्तन्ते तदिच्छाम्यनुवर्णितम्
MBh 12.234.3
वेदे वचनमुक्तं तु कुरु कर्म त्यजेति च कथमेतद्विजानीयां तच्च व्याख्यातुमर्हसि
MBh 12.234.4
लोकवृत्तान्ततत्त्वज्ञः पूतोऽहं गुरुशासनात् कृत्वा बुद्धिं वियुक्तात्मा त्यक्ष्याम्यात्मानमव्यथः
MBh 12.234.5
व्यास उवाच यैषा वै विहिता वृत्तिः पुरस्ताद्ब्रह्मणा स्वयम् एषा पूर्वतरैः सद्भिराचीर्णा परमर्षिभिः
MBh 12.234.6
ब्रह्मचर्येण वै लोकाञ्जयन्ति परमर्षयः आत्मनश्च हृदि श्रेयस्त्वन्विच्छ मनसात्मनि
MBh 12.234.7
वने मूलफलाशी च तप्यन्सुविपुलं तपः पुण्यायतनचारी च भूतानामविहिंसकः
MBh 12.234.8
विधूमे सन्नमुसले वानप्रस्थप्रतिश्रये काले प्राप्ते चरन्भैक्षं कल्पते ब्रह्मभूयसे
MBh 12.234.9
निःस्तुतिर्निर्नमस्कारः परित्यज्य शुभाशुभे अरण्ये विचरैकाकी येन केनचिदाशितः
MBh 12.234.10
शुक उवाच यदिदं वेदवचनं लोकवादे विरुध्यते प्रमाणे चाप्रमाणे च विरुद्धे शास्त्रता कुतः
MBh 12.234.11
इत्येतच्छ्रोतुमिच्छामि भगवान्प्रब्रवीतु मे कर्मणामविरोधेन कथमेतत्प्रवर्तते
MBh 12.234.12
भीष्म उवाच इत्युक्तः प्रत्युवाचेदं गन्धवत्याः सुतः सुतम् ऋषिस्तत्पूजयन्वाक्यं पुत्रस्यामिततेजसः
MBh 12.234.13
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः यथोक्तकारिणः सर्वे गच्छन्ति परमां गतिम्
MBh 12.234.14
एको य आश्रमानेताननुतिष्ठेद्यथाविधि अकामद्वेषसंयुक्तः स परत्र महीयते
MBh 12.234.15
चतुष्पदी हि निःश्रेणी ब्रह्मण्येषा प्रतिष्ठिता एतामाश्रित्य निःश्रेणीं ब्रह्मलोके महीयते
MBh 12.234.16
आयुषस्तु चतुर्भागं ब्रह्मचार्यनसूयकः गुरौ वा गुरुपुत्रे वा वसेद्धर्मार्थकोविदः
MBh 12.234.17
कर्मातिरेकेण गुरोरध्येतव्यं बुभूषता दक्षिणो नापवादी स्यादाहूतो गुरुमाश्रयेत्
MBh 12.234.18
जघन्यशायी पूर्वं स्यादुत्थायी गुरुवेश्मनि यच्च शिष्येण कर्तव्यं कार्यं दासेन वा पुनः
MBh 12.234.19
कृतमित्येव तत्सर्वं कृत्वा तिष्ठेत पार्श्वतः किंकरः सर्वकारी च सर्वकर्मसु कोविदः
MBh 12.234.20
शुचिर्दक्षो गुणोपेतो ब्रूयादिषुरिवात्वरः चक्षुषा गुरुमव्यग्रो निरीक्षेत जितेन्द्रियः
MBh 12.234.21
नाभुक्तवति चाश्नीयादपीतवति नो पिबेत् न तिष्ठति तथासीत नासुप्ते प्रस्वपेत च
MBh 12.234.22
उत्तानाभ्यां च पाणिभ्यां पादावस्य मृदु स्पृशेत् दक्षिणं दक्षिणेनैव सव्यं सव्येन पीडयेत्
MBh 12.234.23
अभिवाद्य गुरुं ब्रूयादधीष्व भगवन्निति इदं करिष्ये भगवन्निदं चापि कृतं मया
MBh 12.234.24
इति सर्वमनुज्ञाप्य निवेद्य गुरवे धनम् कुर्यात्कृत्वा च तत्सर्वमाख्येयं गुरवे पुनः
MBh 12.234.25
यांस्तु गन्धान्रसान्वापि ब्रह्मचारी न सेवते सेवेत तान्समावृत्त इति धर्मेषु निश्चयः
MBh 12.234.26
ये केचिद्विस्तरेणोक्ता नियमा ब्रह्मचारिणः तान्सर्वाननुगृह्णीयाद्भवेच्चानपगो गुरोः
MBh 12.234.27
स एवं गुरवे प्रीतिमुपहृत्य यथाबलम् आश्रमेष्वाश्रमेष्वेवं शिष्यो वर्तेत कर्मणा
MBh 12.234.28
वेदव्रतोपवासेन चतुर्थे चायुषो गते गुरवे दक्षिणां दत्त्वा समावर्तेद्यथाविधि
MBh 12.234.29
धर्मलब्धैर्युतो दारैरग्नीनुत्पाद्य धर्मतः द्वितीयमायुषो भागं गृहमेधिव्रती भवेत्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 29 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.234local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷