🪷 Mahābhārata · Śānti-Parva · Chapter 232

The Book of Peace · the great dharma-śāstra · Parva 12 · 34 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 34 Shlokas

MBh 12.232.1
व्यास उवाच पृच्छतस्तव सत्पुत्र यथावदिह तत्त्वतः सांख्यन्यायेन संयुक्तं यदेतत्कीर्तितं मया
MBh 12.232.2
योगकृत्यं तु ते कृत्स्नं वर्तयिष्यामि तच्छृणु एकत्वं बुद्धिमनसोरिन्द्रियाणां च सर्वशः आत्मनो ध्यायिनस्तात ज्ञानमेतदनुत्तमम्
MBh 12.232.3
तदेतदुपशान्तेन दान्तेनाध्यात्मशीलिना आत्मारामेण बुद्धेन बोद्धव्यं शुचिकर्मणा
MBh 12.232.4
योगदोषान्समुच्छिद्य पञ्च यान्कवयो विदुः कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम्
MBh 12.232.5
क्रोधं शमेन जयति कामं संकल्पवर्जनात् सत्त्वसंसेवनाद्धीरो निद्रामुच्छेत्तुमर्हति
MBh 12.232.6
धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा चक्षुः श्रोत्रे च मनसा मनो वाचं च कर्मणा
MBh 12.232.7
अप्रमादाद्भयं जह्याल्लोभं प्राज्ञोपसेवनात् एवमेतान्योगदोषाञ्जयेन्नित्यमतन्द्रितः
MBh 12.232.8
अग्नींश्च ब्राह्मणांश्चार्चेद्देवताः प्रणमेत च वर्जयेद्रुषितां वाचं हिंसायुक्तां मनोनुगाम्
MBh 12.232.9
ब्रह्म तेजोमयं शुक्रं यस्य सर्वमिदं रसः एकस्य भूतं भूतस्य द्वयं स्थावरजङ्गमम्
MBh 12.232.10
ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा शौचमाहारसंशुद्धिरिन्द्रियाणां च निग्रहः
MBh 12.232.11
एतैर्विवर्धते तेजः पाप्मानं चापकर्षति सिध्यन्ति चास्य सर्वार्था विज्ञानं च प्रवर्तते
MBh 12.232.12
समः सर्वेषु भूतेषु लब्धालब्धेन वर्तयन् धुतपाप्मा तु तेजस्वी लघ्वाहारो जितेन्द्रियः कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम्
MBh 12.232.13
मनसश्चेन्द्रियाणां च कृत्वैकाग्र्यं समाहितः प्राग्रात्रापररात्रेषु धारयेन्मन आत्मना
MBh 12.232.14
जन्तोः पञ्चेन्द्रियस्यास्य यदेकं छिद्रमिन्द्रियम् ततोऽस्य स्रवति प्रज्ञा दृतेः पादादिवोदकम्
MBh 12.232.15
मनस्तु पूर्वमादद्यात्कुमीनानिव मत्स्यहा ततः श्रोत्रं ततश्चक्षुर्जिह्वां घ्राणं च योगवित्
MBh 12.232.16
तत एतानि संयम्य मनसि स्थापयेद्यतिः तथैवापोह्य संकल्पान्मनो ह्यात्मनि धारयेत्
MBh 12.232.17
पञ्च ज्ञानेन संधाय मनसि स्थापयेद्यतिः यदैतान्यवतिष्ठन्ते मनःषष्ठानि चात्मनि प्रसीदन्ति च संस्थाय तदा ब्रह्म प्रकाशते
MBh 12.232.18
विधूम इव दीप्तार्चिरादित्य इव दीप्तिमान् वैद्युतोऽग्निरिवाकाशे पश्यत्यात्मानमात्मना सर्वं च तत्र सर्वत्र व्यापकत्वाच्च दृश्यते
MBh 12.232.19
तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः धृतिमन्तो महाप्राज्ञाः सर्वभूतहिते रताः
MBh 12.232.20
एवं परिमितं कालमाचरन्संशितव्रतः आसीनो हि रहस्येको गच्छेदक्षरसात्म्यताम्
MBh 12.232.21
प्रमोहो भ्रम आवर्तो घ्राणश्रवणदर्शने अद्भुतानि रसस्पर्शे शीतोष्णे मारुताकृतिः
MBh 12.232.22
प्रतिभामुपसर्गांश्चाप्युपसंगृह्य योगतः तांस्तत्त्वविदनादृत्य स्वात्मनैव निवर्तयेत्
MBh 12.232.23
कुर्यात्परिचयं योगे त्रैकाल्यं नियतो मुनिः गिरिशृङ्गे तथा चैत्ये वृक्षाग्रेषु च योजजेत्
MBh 12.232.24
संनियम्येन्द्रियग्रामं गोष्ठे भाण्डमना इव एकाग्रश्चिन्तयेन्नित्यं योगान्नोद्वेजयेन्मनः
MBh 12.232.25
येनोपायेन शक्येत संनियन्तुं चलं मनः तं तं युक्तो निषेवेत न चैव विचलेत्ततः
MBh 12.232.26
शून्या गिरिगुहाश्चैव देवतायतनानि च शून्यागाराणि चैकाग्रो निवासार्थमुपक्रमेत्
MBh 12.232.27
नाभिष्वजेत्परं वाचा कर्मणा मनसापि वा उपेक्षको यताहारो लब्धालब्धे समो भवेत्
MBh 12.232.28
यश्चैनमभिनन्देत यश्चैनमपवादयेत् समस्तयोश्चाप्युभयोर्नाभिध्यायेच्छुभाशुभम्
MBh 12.232.29
न प्रहृष्येत लाभेषु नालाभेषु च चिन्तयेत् समः सर्वेषु भूतेषु सधर्मा मातरिश्वनः
MBh 12.232.30
एवं सर्वात्मनः साधोः सर्वत्र समदर्शिनः षण्मासान्नित्ययुक्तस्य शब्दब्रह्मातिवर्तते
MBh 12.232.31
वेदनार्ताः प्रजा दृष्ट्वा समलोष्टाश्मकाञ्चनः एतस्मिन्निरतो मार्गे विरमेन्न विमोहितः
MBh 12.232.32
अपि वर्णावकृष्टस्तु नारी वा धर्मकाङ्क्षिणी तावप्येतेन मार्गेण गच्छेतां परमां गतिम्
MBh 12.232.33
अजं पुराणमजरं सनातनं; यदिन्द्रियैरुपलभते नरोऽचलः अणोरणीयो महतो महत्तरं; तदात्मना पश्यति युक्त आत्मवान्
MBh 12.232.34
इदं महर्षेर्वचनं महात्मनो; यथावदुक्तं मनसानुदृश्य च अवेक्ष्य चेयात्परमेष्ठिसात्म्यतां; प्रयान्ति यां भूतगतिं मनीषिणः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 34 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.232local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷