🪷 Mahābhārata · Śānti-Parva · Chapter 231

The Book of Peace · the great dharma-śāstra · Parva 12 · 34 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 34 Shlokas

MBh 12.231.1
भीष्म उवाच इत्युक्तोऽभिप्रशस्यैतत्परमर्षेस्तु शासनम् मोक्षधर्मार्थसंयुक्तमिदं प्रष्टुं प्रचक्रमे
MBh 12.231.2
शुक उवाच प्रजावाञ्श्रोत्रियो यज्वा वृद्धः प्रज्ञोऽनसूयकः अनागतमनैतिह्यं कथं ब्रह्माधिगच्छति
MBh 12.231.3
तपसा ब्रह्मचर्येण सर्वत्यागेन मेधया सांख्ये वा यदि वा योगे एतत्पृष्टोऽभिधत्स्व मे
MBh 12.231.4
मनसश्चेन्द्रियाणां चाप्यैकाग्र्यं समवाप्यते येनोपायेन पुरुषैस्तच्च व्याख्यातुमर्हसि
MBh 12.231.5
व्यास उवाच नान्यत्र विद्यातपसोर्नान्यत्रेन्द्रियनिग्रहात् नान्यत्र सर्वसंत्यागात्सिद्धिं विन्दति कश्चन
MBh 12.231.6
महाभूतानि सर्वाणि पूर्वसृष्टिः स्वयंभुवः भूयिष्ठं प्राणभृद्ग्रामे निविष्टानि शरीरिषु
MBh 12.231.7
भूमेर्देहो जलात्सारो ज्योतिषश्चक्षुषी स्मृते प्राणापानाश्रयो वायुः खेष्वाकाशं शरीरिणाम्
MBh 12.231.8
क्रान्ते विष्णुर्बले शक्रः कोष्ठेऽग्निर्भुक्तमर्छति कर्णयोः प्रदिशः श्रोत्रे जिह्वायां वाक्सरस्वती
MBh 12.231.9
कर्णौ त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी दर्शनानीन्द्रियोक्तानि द्वाराण्याहारसिद्धये
MBh 12.231.10
शब्दं स्पर्शं तथा रूपं रसं गन्धं च पञ्चमम् इन्द्रियाणि पृथक्त्वर्थान्मनसो दर्शयन्त्युत
MBh 12.231.11
इन्द्रियाणि मनो युङ्क्ते वश्यान्यन्तेव वाजिनः मनश्चापि सदा युङ्क्ते भूतात्मा हृदयाश्रितः
MBh 12.231.12
इन्द्रियाणां तथैवेषां सर्वेषामीश्वरं मनः नियमे च विसर्गे च भूतात्मा मनसस्तथा
MBh 12.231.13
इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना मनः प्राणापानौ च जीवश्च नित्यं देहेषु देहिनाम्
MBh 12.231.14
आश्रयो नास्ति सत्त्वस्य गुणशब्दो न चेतना सत्त्वं हि तेजः सृजति न गुणान्वै कदाचन
MBh 12.231.15
एवं सप्तदशं देहे वृतं षोडशभिर्गुणैः मनीषी मनसा विप्रः पश्यत्यात्मानमात्मनि
MBh 12.231.16
न ह्ययं चक्षुषा दृश्यो न च सर्वैरपीन्द्रियैः मनसा संप्रदीप्तेन महानात्मा प्रकाशते
MBh 12.231.17
अशब्दस्पर्शरूपं तदरसागन्धमव्ययम् अशरीरं शरीरे स्वे निरीक्षेत निरिन्द्रियम्
MBh 12.231.18
अव्यक्तं व्यक्तदेहेषु मर्त्येष्वमरमाश्रितम् योऽनुपश्यति स प्रेत्य कल्पते ब्रह्मभूयसे
MBh 12.231.19
विद्याभिजनसंपन्ने ब्राह्मणे गवि हस्तिनि शुनि चैव श्वपाके च पण्डिताः समदर्शिनः
MBh 12.231.20
स हि सर्वेषु भूतेषु जङ्गमेषु ध्रुवेषु च वसत्येको महानात्मा येन सर्वमिदं ततम्
MBh 12.231.21
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि यदा पश्यति भूतात्मा ब्रह्म संपद्यते तदा
MBh 12.231.22
यावानात्मनि वेदात्मा तावानात्मा परात्मनि य एवं सततं वेद सोऽमृतत्वाय कल्पते
MBh 12.231.23
सर्वभूतात्मभूतस्य सर्वभूतहितस्य च देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः
MBh 12.231.24
शकुनीनामिवाकाशे जले वारिचरस्य वा यथा गतिर्न दृश्येत तथैव सुमहात्मनः
MBh 12.231.25
कालः पचति भूतानि सर्वाण्येवात्मनात्मनि यस्मिंस्तु पच्यते कालस्तं न वेदेह कश्चन
MBh 12.231.26
न तदूर्ध्वं न तिर्यक्च नाधो न च तिरः पुनः न मध्ये प्रतिगृह्णीते नैव कश्चित्कुतश्चन
MBh 12.231.27
सर्वेऽन्तःस्था इमे लोका बाह्यमेषां न किंचन यः सहस्रं समागच्छेद्यथा बाणो गुणच्युतः
MBh 12.231.28
नैवान्तं कारणस्येयाद्यद्यपि स्यान्मनोजवः तस्मात्सूक्ष्मात्सूक्ष्मतरं नास्ति स्थूलतरं ततः
MBh 12.231.29
सर्वतःपाणिपादान्तं सर्वतोक्षिशिरोमुखम् सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति
MBh 12.231.30
तदेवाणोरणुतरं तन्महद्भ्यो महत्तरम् तदन्तः सर्वभूतानां ध्रुवं तिष्ठन्न दृश्यते
MBh 12.231.31
अक्षरं च क्षरं चैव द्वैधीभावोऽयमात्मनः क्षरः सर्वेषु भूतेषु दिव्यं ह्यमृतमक्षरम्
MBh 12.231.32
नवद्वारं पुरं गत्वा हंसो हि नियतो वशी ईशः सर्वस्य भूतस्य स्थावरस्य चरस्य च
MBh 12.231.33
हानिभङ्गविकल्पानां नवानां संश्रयेण च शरीराणामजस्याहुर्हंसत्वं पारदर्शिनः
MBh 12.231.34
हंसोक्तं चाक्षरं चैव कूटस्थं यत्तदक्षरम् तद्विद्वानक्षरं प्राप्य जहाति प्राणजन्मनी

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 34 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.231local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷