🪷 Mahābhārata · Śānti-Parva · Chapter 228
The Book of Peace · the great dharma-śāstra · Parva 12 · 38 shlokas in canonical Devanāgarī Sanskrit
Mahābhārata Detail Source-Anchor Spine
This chapter page keeps the local Devanāgarī chapter tied to its Parva, the Mahābhārata master route, any exact Gītā cross-anchor, and the wider Vyāsa source spine.
MBh 12.228local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharatamaster index for all 18 Parvas and 73,821 ślokasBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
The Devanāgarī Yathārtha · 38 Shlokas
MBh 12.228.1
[वयास]
अथ चेद रॊचयेद एतद दरुह्येत मनसा तथा
उन्मज्जंश च निमज्जंश च जञानवान पलववान भवेत
MBh 12.228.2
परज्ञया निर्मितैर धीरास तारयन्त्य अबुधान पलवैः
नाबुधास तारयन्त्य अन्यान आत्मानं वा कथं चन
MBh 12.228.3
छिन्नदॊषॊ मुनिर यॊगान युक्तॊ युञ्जीत दवादश
दश कर्म सुखान अर्थान उपायापाय निर्भयः
MBh 12.228.4
चक्रुर आचारवित पराज्ञॊ मनसा दर्शनेन च
यच्छेद वान मनसी बुद्ध्या य इच्छेज जञानम उत्तमम
जञानेन यच्छेद आत्मानं य इच्छेच छान्तिम आत्मनः
MBh 12.228.5
एतेषां चेद अनुद्रस्ता पुरुषापि सुदारुणः
यदि वा सर्ववेदज्ञॊ यदि वाप्य अनृचॊ ऽजपः
MBh 12.228.6
यदि वा धार्मिकॊ यज्वा यदि वा पापकृत्तमः
यदि वा पुरुषव्याघ्रॊ यदि वा कलैव्य धारिता
MBh 12.228.7
तरत्य एव महादुर्गं जरामरणसागरम
एवं हय एतेन यॊगेन युञ्जानॊ ऽपय एकम अन्ततः
अपि जिज्ञासमानॊ हि शब्दब्रह्मातिवर्तते
MBh 12.228.8
धर्मॊपस्थॊ हरीवरूथ उपायापाय कूवरः
अपानाक्षः पराण युगः परज्ञायुर जीव बन्धनः
MBh 12.228.9
चेतना बन्धुरश चारुर आचार गरहनेमिवान
दर्शनस्पर्शन वहॊ घराणश्रवण वाहनः
MBh 12.228.10
परज्ञा नाभिः सर्वतन्त्र परतॊदॊ जञानसारथिः
कषेत्रज्ञाधिष्ठितॊ धीरः शरद्धा दमपुरःसरः
MBh 12.228.11
तयागवर्त्मानुगः कषेम्यः शौचगॊ धयानगॊचरः
जीव युक्तॊ रथॊ दिव्यॊ बरह्मलॊके विराजते
MBh 12.228.12
अथ संत्वरमाणस्य रथम एतं युयुक्षतः
अक्षरं गन्तुमनसॊ विधिं वक्ष्यामि शीघ्रगम
MBh 12.228.13
सप्त यॊ धारणाः कृत्स्ना वाग्यतः परतिपद्यते
पृष्ठतः पार्श्वतश चान्या यावत्यस ताः परधारणाः
MBh 12.228.14
करमशः पार्थिवं यच च वायव्यं खं तथा पयः
जयॊतिषॊ यत तद ऐश्वर्यम अहंकारस्य बुद्धितः
MBh 12.228.15
अव्यक्तस्य तथैश्वर्यं करमशः परतिपद्यते
विक्रमाश चापि यस्यैत तथा युङ्क्ते स यॊगतः
MBh 12.228.16
अथास्य यॊगयुक्तस्य सिद्धिम आत्मनि पश्यतः
निर्मथ्यमानः सूक्ष्मत्वाद रूपाणीमानि दर्शयेत
MBh 12.228.17
शैशिरस तु यथा धूमः सूक्ष्मः संश्रयते नभः
तथा देहाद विमुक्तस्य पूर्वरूपं भवत्य उत
MBh 12.228.18
अथ धूमस्य विरमे दवितीयं रूपदर्शनम
जलरूपम इवाकाशे तत्रैवात्मनि पश्यति
MBh 12.228.19
अपां वयतिक्रमे चापि वह्नि रूपं परकाशते
तस्मिन्न उपरते चास्य पीतवस्त्रवद इष्यते
ऊर्णा रूपसवर्णं च तस्य रूपं परकाशते
MBh 12.228.20
अथ शवेतां गतिं गत्वा वायव्यं सूक्ष्मम अप्य अजः
अशुक्लं चेतसः सौक्ष्म्यम अव्यक्तं बरह्मणॊ ऽसय वै
MBh 12.228.21
एतेष्व अपि हि जातेषु फलजातानि मे शृणु
जातस्य पार्थिवैश्वर्ये सृष्टिर इष्टा विधीयते
MBh 12.228.22
परजापतिर इवाक्षॊभ्यः शरीरात सृजति परजाः
अङ्गुल्य अङ्गुष्ठ मात्रेण हस्तपादेन वा तथा
MBh 12.228.23
पृथिवीं कम्पयत्य एकॊ गुणॊ वायॊर इति समृतः
आकाशभूतश चाकाशे सवर्णत्वात परनश्यति
MBh 12.228.24
वर्णतॊ गृह्यते चापि कामात पिबति चाशयान
न चास्य तेजसा रूपं दृश्यते शाम्यते तथा
MBh 12.228.25
अहंकारस्य विजितेर पञ्चैते सयुर वशानुगाः
सन्नाम आत्मनि बुद्धौ च जितायां परभवत्य अथ
MBh 12.228.26
निर्दॊषा परतिभा हय एनं कृत्स्ना समभिवर्तते
तथैव वयक्तम आत्मानम अव्यक्तं परतिपद्यते
MBh 12.228.27
यतॊ निःसरते लॊकॊ भवति वयक्तसंज्ञकः
तत्राव्यक्तमयीं वयाख्यां शृणु तवं विस्तरेण मे
तथा वयक्तमयीं चैव संख्यां पूर्वं निबॊध मे
MBh 12.228.28
पञ्चविंशति तत्त्वानि तुल्यान्य उभयतः समम
यॊगे सांख्ये ऽपि च तथा विशेषांस तत्र मे शृणु
MBh 12.228.29
परॊक्तं तद वयक्तम इत्य एव जायते वर्धते च यत
जीर्यते मरियते चैव चतुर्भिर लक्षणैर युतम
MBh 12.228.30
विपरीतम अतॊ यत तु तद अब्व्यक्तम उदाहृतम
दवाव आत्मानौ च वेदेषु सिधान्तेष्व अप्य उदाहृतौ
MBh 12.228.31
चतुर्लक्षणजं तव अन्यं चतु वर्गं परचक्षते
वयक्तम अव्यक्तजं चैव तथा बुद्धम अथेतरत
सत्त्वं कषेत्रज्ञ इत्य एतद दवयम अप्य अनुदर्शितम
MBh 12.228.32
दवाव आत्मनौ च वेदेषु विषयेषु च रज्यतः
विषयात परतिसंहारः सांख्यानां सिद्धिलक्षणम
MBh 12.228.33
निर्ममश चानहंकारॊ निर्द्वन्द्वश छिन्नसंशयः
नैव करुध्यति न दवेष्टि नानृता भासते गिरः
MBh 12.228.34
आक्रुष्टस तादितश चैव मित्रेण धयाति नाशुभम
वाग दन्द कर्म मनसां तरयाणां च निवर्तकः
MBh 12.228.35
समः सर्वेषु भूतेषु बरह्माणम अभिवर्तते
नैवेच्छति न चानिच्छॊ यात्रा मात्रव्यवस्थितः
MBh 12.228.36
अलॊलुपॊ ऽवयथॊ दान्तॊ न कृती न निराकृतिः
नास्येन्द्रियम अनेकाग्रं नातिक्षिप्त मनॊरथः
अहिंस्रः सर्वभूतानाम ईदृक सांख्यॊ विमुच्यते
MBh 12.228.37
अथ यॊगाद विमुच्यन्ते कारणैर यैर निबॊध मे
यॊगैश्वर्यम अतिक्रान्तॊ यॊ ऽतिक्रामति मुच्यते
MBh 12.228.38
इत्य एषा भावजा बुद्धिः कथिता ते न संशयः
एवं भवति निर्द्वन्द्वॊ बरह्माणं चाधिगच्छति
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 227
- Next chapter · Śānti-Parva Ch 229 →
🪷 जय व्यास भगवान् 🪷