🪷 Mahābhārata · Śānti-Parva · Chapter 227

The Book of Peace · the great dharma-śāstra · Parva 12 · 31 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 31 Shlokas

MBh 12.227.1
व्यास उवाच त्रयीविद्यामवेक्षेत वेदेषूक्तामथाङ्गतः ऋक्सामवर्णाक्षरतो यजुषोऽथर्वणस्तथा
MBh 12.227.2
वेदवादेषु कुशला ह्यध्यात्मकुशलाश्च ये सत्त्ववन्तो महाभागाः पश्यन्ति प्रभवाप्ययौ
MBh 12.227.3
एवं धर्मेण वर्तेत क्रियाः शिष्टवदाचरेत् असंरोधेन भूतानां वृत्तिं लिप्सेत वै द्विजः
MBh 12.227.4
सद्भ्य आगतविज्ञानः शिष्टः शास्त्रविचक्षणः स्वधर्मेण क्रिया लोके कुर्वाणः सत्यसंगरः
MBh 12.227.5
तिष्ठत्येतेषु गृहवान्षट्सु कर्मसु स द्विजः पञ्चभिः सततं यज्ञैः श्रद्दधानो यजेत च
MBh 12.227.6
धृतिमानप्रमत्तश्च दान्तो धर्मविदात्मवान् वीतहर्षभयक्रोधो ब्राह्मणो नावसीदति
MBh 12.227.7
दानमध्ययनं यज्ञस्तपो ह्रीरार्जवं दमः एतैर्वर्धयते तेजः पाप्मानं चापकर्षति
MBh 12.227.8
धूतपाप्मा तु मेधावी लघ्वाहारो जितेन्द्रियः कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम्
MBh 12.227.9
अग्नींश्च ब्राह्मणांश्चार्चेद्देवताः प्रणमेत च वर्जयेद्रुषतीं वाचं हिंसां चाधर्मसंहिताम्
MBh 12.227.10
एषा पूर्वतरा वृत्तिर्ब्राह्मणस्य विधीयते ज्ञानागमेन कर्माणि कुर्वन्कर्मसु सिध्यति
MBh 12.227.11
पञ्चेन्द्रियजलां घोरां लोभकूलां सुदुस्तराम् मन्युपङ्कामनाधृष्यां नदीं तरति बुद्धिमान्
MBh 12.227.12
काममन्यूद्धतं यत्स्यान्नित्यमत्यन्तमोहितम् महता विधिदृष्टेन बलेनाप्रतिघातिना स्वभावस्रोतसा वृत्तमुह्यते सततं जगत्
MBh 12.227.13
कालोदकेन महता वर्षावर्तेन संततम् मासोर्मिणर्तुवेगेन पक्षोलपतृणेन च
MBh 12.227.14
निमेषोन्मेषफेनेन अहोरात्रजवेन च कामग्राहेण घोरेण वेदयज्ञप्लवेन च
MBh 12.227.15
धर्मद्वीपेन भूतानां चार्थकामरवेण च ऋतसोपानतीरेण विहिंसातरुवाहिना
MBh 12.227.16
युगह्रदौघमध्येन ब्रह्मप्रायभवेन च धात्रा सृष्टानि भूतानि कृष्यन्ते यमसादनम्
MBh 12.227.17
एतत्प्रज्ञामयैर्धीरा निस्तरन्ति मनीषिणः प्लवैरप्लववन्तो हि किं करिष्यन्त्यचेतसः
MBh 12.227.18
उपपन्नं हि यत्प्राज्ञो निस्तरेन्नेतरो जनः दूरतो गुणदोषौ हि प्राज्ञः सर्वत्र पश्यति
MBh 12.227.19
संशयात्मा स कामात्मा चलचित्तोऽल्पचेतनः अप्राज्ञो न तरत्येव यो ह्यास्ते न स गच्छति
MBh 12.227.20
अप्लवो हि महादोषमुह्यमानोऽधिगच्छति कामग्राहगृहीतस्य ज्ञानमप्यस्य न प्लवः
MBh 12.227.21
तस्मादुन्मज्जनस्यार्थे प्रयतेत विचक्षणः एतदुन्मज्जनं तस्य यदयं ब्राह्मणो भवेत्
MBh 12.227.22
त्र्यवदाते कुले जातस्त्रिसंदेहस्त्रिकर्मकृत् तस्मादुन्मज्जनस्तिष्ठेन्निस्तरेत्प्रज्ञया यथा
MBh 12.227.23
संस्कृतस्य हि दान्तस्य नियतस्य कृतात्मनः प्राज्ञस्यानन्तरा सिद्धिरिह लोके परत्र च
MBh 12.227.24
वर्तते तेषु गृहवानक्रुध्यन्ननसूयकः पञ्चभिः सततं यज्ञैर्विघसाशी यजेत च
MBh 12.227.25
सतां वृत्तेन वर्तेत क्रियाः शिष्टवदाचरेत् असंरोधेन धर्मस्य वृत्तिं लिप्सेदगर्हिताम्
MBh 12.227.26
श्रुतिविज्ञानतत्त्वज्ञः शिष्टाचारो विचक्षणः स्वधर्मेण क्रियावांश्च कर्मणा सोऽप्यसंकरः
MBh 12.227.27
क्रियावाञ्श्रद्दधानश्च दाता प्राज्ञोऽनसूयकः धर्माधर्मविशेषज्ञः सर्वं तरति दुस्तरम्
MBh 12.227.28
धृतिमानप्रमत्तश्च दान्तो धर्मविदात्मवान् वीतहर्षभयक्रोधो ब्राह्मणो नावसीदति
MBh 12.227.29
एषा पूर्वतरा वृत्तिर्ब्राह्मणस्य विधीयते ज्ञानवित्त्वेन कर्माणि कुर्वन्सर्वत्र सिध्यति
MBh 12.227.30
अधर्मं धर्मकामो हि करोतीहाविचक्षणः धर्मं चाधर्मसंकाशं शोचन्निव करोति सः
MBh 12.227.31
धर्मं करोमीति करोत्यधर्म;मधर्मकामश्च करोति धर्मम् उभे बालः कर्मणी न प्रजान;न्स जायते म्रियते चापि देही

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 31 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.227local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷