🪷 Mahābhārata · Śānti-Parva · Chapter 218

The Book of Peace · the great dharma-śāstra · Parva 12 · 38 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 38 Shlokas

MBh 12.218.1
भीष्म उवाच शतक्रतुरथापश्यद्बलेर्दीप्तां महात्मनः स्वरूपिणीं शरीराद्धि तदा निष्क्रामतीं श्रियम्
MBh 12.218.2
तां दीप्तां प्रभया दृष्ट्वा भगवान्पाकशासनः विस्मयोत्फुल्लनयनो बलिं पप्रच्छ वासवः
MBh 12.218.3
बले केयमपक्रान्ता रोचमाना शिखण्डिनी त्वत्तः स्थिता सकेयूरा दीप्यमाना स्वतेजसा
MBh 12.218.4
बलिरुवाच न हीमामासुरीं वेद्मि न दैवीं न च मानुषीम् त्वमेवैनां पृच्छ मा वा यथेष्टं कुरु वासव
MBh 12.218.5
शक्र उवाच का त्वं बलेरपक्रान्ता रोचमाना शिखण्डिनी अजानतो ममाचक्ष्व नामधेयं शुचिस्मिते
MBh 12.218.6
का त्वं तिष्ठसि मायेव दीप्यमाना स्वतेजसा हित्वा दैत्येश्वरं सुभ्रु तन्ममाचक्ष्व तत्त्वतः
MBh 12.218.7
श्रीरुवाच न मा विरोचनो वेद न मा वैरोचनो बलिः आहुर्मां दुःसहेत्येवं विधित्सेति च मां विदुः
MBh 12.218.8
भूतिर्लक्ष्मीति मामाहुः श्रीरित्येवं च वासव त्वं मां शक्र न जानीषे सर्वे देवा न मां विदुः
MBh 12.218.9
शक्र उवाच किमिदं त्वं मम कृते उताहो बलिनः कृते दुःसहे विजहास्येनं चिरसंवासिनी सती
MBh 12.218.10
श्रीरुवाच न धाता न विधाता मां विदधाति कथंचन कालस्तु शक्र पर्यायान्मैनं शक्रावमन्यथाः
MBh 12.218.11
शक्र उवाच कथं त्वया बलिस्त्यक्तः किमर्थं वा शिखण्डिनि कथं च मां न जह्यास्त्वं तन्मे ब्रूहि शुचिस्मिते
MBh 12.218.12
श्रीरुवाच सत्ये स्थितास्मि दाने च व्रते तपसि चैव हि पराक्रमे च धर्मे च पराचीनस्ततो बलिः
MBh 12.218.13
ब्रह्मण्योऽयं सदा भूत्वा सत्यवादी जितेन्द्रियः अभ्यसूयद्ब्राह्मणान्वै उच्छिष्टश्चास्पृशद्घृतम्
MBh 12.218.14
यज्ञशीलः पुरा भूत्वा मामेव यजतेत्ययम् प्रोवाच लोकान्मूढात्मा कालेनोपनिपीडितः
MBh 12.218.15
अपाकृता ततः शक्र त्वयि वत्स्यामि वासव अप्रमत्तेन धार्यास्मि तपसा विक्रमेण च
MBh 12.218.16
शक्र उवाच अस्ति देवमनुष्येषु सर्वभूतेषु वा पुमान् यस्त्वामेको विषहितुं शक्नुयात्कमलालये
MBh 12.218.17
श्रीरुवाच नैव देवो न गन्धर्वो नासुरो न च राक्षसः यो मामेको विषहितुं शक्तः कश्चित्पुरंदर
MBh 12.218.18
शक्र उवाच तिष्ठेथा मयि नित्यं त्वं यथा तद्ब्रूहि मे शुभे तत्करिष्यामि ते वाक्यमृतं त्वं वक्तुमर्हसि
MBh 12.218.19
श्रीरुवाच स्थास्यामि नित्यं देवेन्द्र यथा त्वयि निबोध तत् विधिना वेददृष्टेन चतुर्धा विभजस्व माम्
MBh 12.218.20
शक्र उवाच अहं वै त्वा निधास्यामि यथाशक्ति यथाबलम् न तु मेऽतिक्रमः स्याद्वै सदा लक्ष्मि तवान्तिके
MBh 12.218.21
भूमिरेव मनुष्येषु धारणी भूतभाविनी सा ते पादं तितिक्षेत समर्था हीति मे मतिः
MBh 12.218.22
श्रीरुवाच एष मे निहितः पादो योऽयं भूमौ प्रतिष्ठितः द्वितीयं शक्र पादं मे तस्मात्सुनिहितं कुरु
MBh 12.218.23
शक्र उवाच आप एव मनुष्येषु द्रवन्त्यः परिचारिकाः तास्ते पादं तितिक्षन्तामलमापस्तितिक्षितुम्
MBh 12.218.24
श्रीरुवाच एष मे निहितः पादो योऽयमप्सु प्रतिष्ठितः तृतीयं शक्र पादं मे तस्मात्सुनिहितं कुरु
MBh 12.218.25
शक्र उवाच यस्मिन्देवाश्च यज्ञाश्च यस्मिन्वेदाः प्रतिष्ठिताः तृतीयं पादमग्निस्ते सुधृतं धारयिष्यति
MBh 12.218.26
श्रीरुवाच एष मे निहितः पादो योऽयमग्नौ प्रतिष्ठितः चतुर्थं शक्र पादं मे तस्मात्सुनिहितं कुरु
MBh 12.218.27
शक्र उवाच ये वै सन्तो मनुष्येषु ब्रह्मण्याः सत्यवादिनः ते ते पादं तितिक्षन्तामलं सन्तस्तितिक्षितुम्
MBh 12.218.28
श्रीरुवाच एष मे निहितः पादो योऽयं सत्सु प्रतिष्ठितः एवं विनिहितां शक्र भूतेषु परिधत्स्व माम्
MBh 12.218.29
शक्र उवाच भूतानामिह वै यस्त्वा मया विनिहितां सतीम् उपहन्यात्स मे द्विष्यात्तथा शृण्वन्तु मे वचः
MBh 12.218.30
भीष्म उवाच ततस्त्यक्तः श्रिया राजा दैत्यानां बलिरब्रवीत् यावत्पुरस्तात्प्रतपेत्तावद्वै दक्षिणां दिशम्
MBh 12.218.31
पश्चिमां तावदेवापि तथोदीचीं दिवाकरः तथा मध्यंदिने सूर्यो अस्तमेति यदा तदा पुनर्देवासुरं युद्धं भावि जेतास्मि वस्तदा
MBh 12.218.32
सर्वाँल्लोकान्यदादित्य एकस्थस्तापयिष्यति तदा देवासुरे युद्धे जेताहं त्वां शतक्रतो
MBh 12.218.33
शक्र उवाच ब्रह्मणास्मि समादिष्टो न हन्तव्यो भवानिति तेन तेऽहं बले वज्रं न विमुञ्चामि मूर्धनि
MBh 12.218.34
यथेष्टं गच्छ दैत्येन्द्र स्वस्ति तेऽस्तु महासुर आदित्यो नावतपिता कदाचिन्मध्यतः स्थितः
MBh 12.218.35
स्थापितो ह्यस्य समयः पूर्वमेव स्वयंभुवा अजस्रं परियात्येष सत्येनावतपन्प्रजाः
MBh 12.218.36
अयनं तस्य षण्मासा उत्तरं दक्षिणं तथा येन संयाति लोकेषु शीतोष्णे विसृजन्रविः
MBh 12.218.37
भीष्म उवाच एवमुक्तस्तु दैत्येन्द्रो बलिरिन्द्रेण भारत जगाम दक्षिणामाशामुदीचीं तु पुरंदरः
MBh 12.218.38
इत्येतद्बलिना गीतमनहंकारसंज्ञितम् वाक्यं श्रुत्वा सहस्राक्षः खमेवारुरुहे तदा

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 38 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.218local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷