🪷 Mahābhārata · Śānti-Parva · Chapter 217

The Book of Peace · the great dharma-śāstra · Parva 12 · 59 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 59 Shlokas

MBh 12.217.1
भीष्म उवाच पुनरेव तु तं शक्रः प्रहसन्निदमब्रवीत् निःश्वसन्तं यथा नागं प्रव्याहाराय भारत
MBh 12.217.2
यत्तद्यानसहस्रेण ज्ञातिभिः परिवारितः लोकान्प्रतापयन्सर्वान्यास्यस्मानवितर्कयन्
MBh 12.217.3
दृष्ट्वा सुकृपणां चेमामवस्थामात्मनो बले ज्ञातिमित्रपरित्यक्तः शोचस्याहो न शोचसि
MBh 12.217.4
प्रीतिं प्राप्यातुलां पूर्वं लोकांश्चात्मवशे स्थितान् विनिपातमिमं चाद्य शोचस्याहो न शोचसि
MBh 12.217.5
बलिरुवाच अनित्यमुपलक्ष्येदं कालपर्यायमात्मनः तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत्
MBh 12.217.6
अन्तवन्त इमे देहा भूतानाममराधिप तेन शक्र न शोचामि नापराधादिदं मम
MBh 12.217.7
जीवितं च शरीरं च प्रेत्य वै सह जायते उभे सह विवर्धेते उभे सह विनश्यतः
MBh 12.217.8
तदीदृशमिदं भावमवशः प्राप्य केवलम् यद्येवमभिजानामि का व्यथा मे विजानतः
MBh 12.217.9
भूतानां निधनं निष्ठा स्रोतसामिव सागरः नैतत्सम्यग्विजानन्तो नरा मुह्यन्ति वज्रभृत्
MBh 12.217.10
ये त्वेवं नाभिजानन्ति रजोमोहपरायणाः ते कृच्छ्रं प्राप्य सीदन्ति बुद्धिर्येषां प्रणश्यति
MBh 12.217.11
बुद्धिलाभे हि पुरुषः सर्वं नुदति किल्बिषम् विपाप्मा लभते सत्त्वं सत्त्वस्थः संप्रसीदति
MBh 12.217.12
ततस्तु ये निवर्तन्ते जायन्ते वा पुनः पुनः कृपणाः परितप्यन्ते तेऽनर्थैः परिचोदिताः
MBh 12.217.13
अर्थसिद्धिमनर्थं च जीवितं मरणं तथा सुखदुःखफलं चैव न द्वेष्मि न च कामये
MBh 12.217.14
हतं हन्ति हतो ह्येव यो नरो हन्ति कंचन उभौ तौ न विजानीतो यश्च हन्ति हतश्च यः
MBh 12.217.15
हत्वा जित्वा च मघवन्यः कश्चित्पुरुषायते अकर्ता ह्येव भवति कर्ता त्वेव करोति तत्
MBh 12.217.16
को हि लोकस्य कुरुते विनाशप्रभवावुभौ कृतं हि तत्कृतेनैव कर्ता तस्यापि चापरः
MBh 12.217.17
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् एतद्योनीनि भूतानि तत्र का परिदेवना
MBh 12.217.18
महाविद्योऽल्पविद्यश्च बलवान्दुर्बलश्च यः दर्शनीयो विरूपश्च सुभगो दुर्भगश्च यः
MBh 12.217.19
सर्वं कालः समादत्ते गम्भीरः स्वेन तेजसा तस्मिन्कालवशं प्राप्ते का व्यथा मे विजानतः
MBh 12.217.20
दग्धमेवानुदहति हतमेवानुहन्ति च नश्यते नष्टमेवाग्रे लब्धव्यं लभते नरः
MBh 12.217.21
नास्य द्वीपः कुतः पारं नावारः संप्रदृश्यते नान्तमस्य प्रपश्यामि विधेर्दिव्यस्य चिन्तयन्
MBh 12.217.22
यदि मे पश्यतः कालो भूतानि न विनाशयेत् स्यान्मे हर्षश्च दर्पश्च क्रोधश्चैव शचीपते
MBh 12.217.23
तुषभक्षं तु मां ज्ञात्वा प्रविविक्तजने गृहे बिभ्रतं गार्दभं रूपमादिश्य परिगर्हसे
MBh 12.217.24
इच्छन्नहं विकुर्यां हि रूपाणि बहुधात्मनः विभीषणानि यानीक्ष्य पलायेथास्त्वमेव मे
MBh 12.217.25
कालः सर्वं समादत्ते कालः सर्वं प्रयच्छति कालेन विधृतं सर्वं मा कृथाः शक्र पौरुषम्
MBh 12.217.26
पुरा सर्वं प्रव्यथते मयि क्रुद्धे पुरंदर अवैमि त्वस्य लोकस्य धर्मं शक्र सनातनम्
MBh 12.217.27
त्वमप्येवमपेक्षस्व मात्मना विस्मयं गमः प्रभवश्च प्रभावश्च नात्मसंस्थः कदाचन
MBh 12.217.28
कौमारमेव ते चित्तं तथैवाद्य यथा पुरा समवेक्षस्व मघवन्बुद्धिं विन्दस्व नैष्ठिकीम्
MBh 12.217.29
देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः आसन्सर्वे मम वशे तत्सर्वं वेत्थ वासव
MBh 12.217.30
नमस्तस्यै दिशेऽप्यस्तु यस्यां वैरोचनो बलिः इति मामभ्यपद्यन्त बुद्धिमात्सर्यमोहिताः
MBh 12.217.31
नाहं तदनुशोचामि नात्मभ्रंशं शचीपते एवं मे निश्चिता बुद्धिः शास्तुस्तिष्ठाम्यहं वशे
MBh 12.217.32
दृश्यते हि कुले जातो दर्शनीयः प्रतापवान् दुःखं जीवन्सहामात्यो भवितव्यं हि तत्तथा
MBh 12.217.33
दौष्कुलेयस्तथा मूढो दुर्जातः शक्र दृश्यते सुखं जीवन्सहामात्यो भवितव्यं हि तत्तथा
MBh 12.217.34
कल्याणी रूपसंपन्ना दुर्भगा शक्र दृश्यते अलक्षणा विरूपा च सुभगा शक्र दृश्यते
MBh 12.217.35
नैतदस्मत्कृतं शक्र नैतच्छक्र त्वया कृतम् यत्त्वमेवंगतो वज्रिन्यद्वाप्येवंगता वयम्
MBh 12.217.36
न कर्म तव नान्येषां कुतो मम शतक्रतो ऋद्धिर्वाप्यथ वा नर्द्धिः पर्यायकृतमेव तत्
MBh 12.217.37
पश्यामि त्वा विराजन्तं देवराजमवस्थितम् श्रीमन्तं द्युतिमन्तं च गर्जन्तं च ममोपरि
MBh 12.217.38
एतच्चैवं न चेत्कालो मामाक्रम्य स्थितो भवेत् पातयेयमहं त्वाद्य सवज्रमपि मुष्टिना
MBh 12.217.39
न तु विक्रमकालोऽयं क्षमाकालोऽयमागतः कालः स्थापयते सर्वं कालः पचति वै तथा
MBh 12.217.40
मां चेदभ्यागतः कालो दानवेश्वरमूर्जितम् गर्जन्तं प्रतपन्तं च कमन्यं नागमिष्यति
MBh 12.217.41
द्वादशानां हि भवतामादित्यानां महात्मनाम् तेजांस्येकेन सर्वेषां देवराज हृतानि मे
MBh 12.217.42
अहमेवोद्वहाम्यापो विसृजामि च वासव तपामि चैव त्रैलोक्यं विद्योताम्यहमेव च
MBh 12.217.43
संरक्षामि विलुम्पामि ददाम्यहमथाददे संयच्छामि नियच्छामि लोकेषु प्रभुरीश्वरः
MBh 12.217.44
तदद्य विनिवृत्तं मे प्रभुत्वममराधिप कालसैन्यावगाढस्य सर्वं न प्रतिभाति मे
MBh 12.217.45
नाहं कर्ता न चैव त्वं नान्यः कर्ता शचीपते पर्यायेण हि भुज्यन्ते लोकाः शक्र यदृच्छया
MBh 12.217.46
मासार्धमासवेश्मानमहोरात्राभिसंवृतम् ऋतुद्वारं वर्षमुखमाहुर्वेदविदो जनाः
MBh 12.217.47
आहुः सर्वमिदं चिन्त्यं जनाः केचिन्मनीषया अस्याः पञ्चैव चिन्तायाः पर्येष्यामि च पञ्चधा
MBh 12.217.48
गम्भीरं गहनं ब्रह्म महत्तोयार्णवं यथा अनादिनिधनं चाहुरक्षरं परमेव च
MBh 12.217.49
सत्त्वेषु लिङ्गमावेश्य नलिङ्गमपि तत्स्वयम् मन्यन्ते ध्रुवमेवैनं ये नरास्तत्त्वदर्शिनः
MBh 12.217.50
भूतानां तु विपर्यासं मन्यते गतवानिति न ह्येतावद्भवेद्गम्यं न यस्मात्प्रकृतेः परः
MBh 12.217.51
गतिं हि सर्वभूतानामगत्वा क्व गमिष्यसि यो धावता न हातव्यस्तिष्ठन्नपि न हीयते तमिन्द्रियाणि सर्वाणि नानुपश्यन्ति पञ्चधा
MBh 12.217.52
आहुश्चैनं केचिदग्निं केचिदाहुः प्रजापतिम् ऋतुमासार्धमासांश्च दिवसांस्तु क्षणांस्तथा
MBh 12.217.53
पूर्वाह्णमपराह्णं च मध्याह्नमपि चापरे मुहूर्तमपि चैवाहुरेकं सन्तमनेकधा तं कालमवजानीहि यस्य सर्वमिदं वशे
MBh 12.217.54
बहूनीन्द्रसहस्राणि समतीतानि वासव बलवीर्योपपन्नानि यथैव त्वं शचीपते
MBh 12.217.55
त्वामप्यतिबलं शक्रं देवराजं बलोत्कटम् प्राप्ते काले महावीर्यः कालः संशमयिष्यति
MBh 12.217.56
य इदं सर्वमादत्ते तस्माच्छक्र स्थिरो भव मया त्वया च पूर्वैश्च न स शक्योऽतिवर्तितुम्
MBh 12.217.57
यामेतां प्राप्य जानीषे राजश्रियमनुत्तमाम् स्थिता मयीति तन्मिथ्या नैषा ह्येकत्र तिष्ठति
MBh 12.217.58
स्थिता हीन्द्रसहस्रेषु त्वद्विशिष्टतमेष्वियम् मां च लोला परित्यज्य त्वामगाद्विबुधाधिप
MBh 12.217.59
मैवं शक्र पुनः कार्षीः शान्तो भवितुमर्हसि त्वामप्येवंगतं त्यक्त्वा क्षिप्रमन्यं गमिष्यति

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 59 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.217local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷