🪷 Mahābhārata · Śānti-Parva · Chapter 211

The Book of Peace · the great dharma-śāstra · Parva 12 · 48 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 48 Shlokas

MBh 12.211.1
युधिष्ठिर उवाच केन वृत्तेन वृत्तज्ञो जनको मिथिलाधिपः जगाम मोक्षं धर्मज्ञो भोगानुत्सृज्य मानुषान्
MBh 12.211.2
भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम् येन वृत्तेन वृत्तज्ञः स जगाम महत्सुखम्
MBh 12.211.3
जनको जनदेवस्तु मिथिलायां जनाधिपः और्ध्वदेहिकधर्माणामासीद्युक्तो विचिन्तने
MBh 12.211.4
तस्य स्म शतमाचार्या वसन्ति सततं गृहे दर्शयन्तः पृथग्धर्मान्नानापाषण्डवादिनः
MBh 12.211.5
स तेषां प्रेत्यभावे च प्रेत्यजातौ विनिश्चये आगमस्थः स भूयिष्ठमात्मतत्त्वे न तुष्यति
MBh 12.211.6
तत्र पञ्चशिखो नाम कापिलेयो महामुनिः परिधावन्महीं कृत्स्नां जगाम मिथिलामपि
MBh 12.211.7
सर्वसंन्यासधर्माणां तत्त्वज्ञानविनिश्चये सुपर्यवसितार्थश्च निर्द्वंद्वो नष्टसंशयः
MBh 12.211.8
ऋषीणामाहुरेकं यं कामादवसितं नृषु शाश्वतं सुखमत्यन्तमन्विच्छन्स सुदुर्लभम्
MBh 12.211.9
यमाहुः कपिलं सांख्याः परमर्षिं प्रजापतिम् स मन्ये तेन रूपेण विस्मापयति हि स्वयम्
MBh 12.211.10
आसुरेः प्रथमं शिष्यं यमाहुश्चिरजीविनम् पञ्चस्रोतसि यः सत्रमास्ते वर्षसहस्रिकम्
MBh 12.211.11
तं समासीनमागम्य मण्डलं कापिलं महत् पुरुषावस्थमव्यक्तं परमार्थं निबोधयत्
MBh 12.211.12
इष्टिसत्रेण संसिद्धो भूयश्च तपसा मुनिः क्षेत्रक्षेत्रज्ञयोर्व्यक्तिं बुबुधे देवदर्शनः
MBh 12.211.13
यत्तदेकाक्षरं ब्रह्म नानारूपं प्रदृश्यते आसुरिर्मण्डले तस्मिन्प्रतिपेदे तदव्ययम्
MBh 12.211.14
तस्य पञ्चशिखः शिष्यो मानुष्या पयसा भृतः ब्राह्मणी कपिला नाम काचिदासीत्कुटुम्बिनी
MBh 12.211.15
तस्याः पुत्रत्वमागम्य स्त्रियाः स पिबति स्तनौ ततः स कापिलेयत्वं लेभे बुद्धिं च नैष्ठिकीम्
MBh 12.211.16
एतन्मे भगवानाह कापिलेयाय संभवम् तस्य तत्कापिलेयत्वं सर्ववित्त्वमनुत्तमम्
MBh 12.211.17
सामान्यं कपिलो ज्ञात्वा धर्मज्ञानामनुत्तमम् उपेत्य शतमाचार्यान्मोहयामास हेतुभिः
MBh 12.211.18
जनकस्त्वभिसंरक्तः कापिलेयानुदर्शनात् उत्सृज्य शतमाचार्यान्पृष्ठतोऽनुजगाम तम्
MBh 12.211.19
तस्मै परमकल्याय प्रणताय च धर्मतः अब्रवीत्परमं मोक्षं यत्तत्सांख्यं विधीयते
MBh 12.211.20
जातिनिर्वेदमुक्त्वा हि कर्मनिर्वेदमब्रवीत् कर्मनिर्वेदमुक्त्वा च सर्वनिर्वेदमब्रवीत्
MBh 12.211.21
यदर्थं कर्मसंसर्गः कर्मणां च फलोदयः तदनाश्वासिकं मोघं विनाशि चलमध्रुवम्
MBh 12.211.22
दृश्यमाने विनाशे च प्रत्यक्षे लोकसाक्षिके आगमात्परमस्तीति ब्रुवन्नपि पराजितः
MBh 12.211.23
अनात्मा ह्यात्मनो मृत्युः क्लेशो मृत्युर्जरामयः आत्मानं मन्यते मोहात्तदसम्यक्परं मतम्
MBh 12.211.24
अथ चेदेवमप्यस्ति यल्लोके नोपपद्यते अजरोऽयममृत्युश्च राजासौ मन्यते तथा
MBh 12.211.25
अस्ति नास्तीति चाप्येतत्तस्मिन्नसति लक्षणे किमधिष्ठाय तद्ब्रूयाल्लोकयात्राविनिश्चयम्
MBh 12.211.26
प्रत्यक्षं ह्येतयोर्मूलं कृतान्तैतिह्ययोरपि प्रत्यक्षो ह्यागमोऽभिन्नः कृतान्तो वा न किंचन
MBh 12.211.27
यत्र तत्रानुमानेऽस्ति कृतं भावयतेऽपि वा अन्यो जीवः शरीरस्य नास्तिकानां मते स्मृतः
MBh 12.211.28
रेतो वटकणीकायां घृतपाकाधिवासनम् जातिस्मृतिरयस्कान्तः सूर्यकान्तोऽम्बुभक्षणम्
MBh 12.211.29
प्रेत्य भूतात्ययश्चैव देवताभ्युपयाचनम् मृते कर्मनिवृत्तिश्च प्रमाणमिति निश्चयः
MBh 12.211.30
न त्वेते हेतवः सन्ति ये केचिन्मूर्तिसंस्थिताः अमर्त्यस्य हि मर्त्येन सामान्यं नोपपद्यते
MBh 12.211.31
अविद्याकर्मचेष्टानां केचिदाहुः पुनर्भवम् कारणं लोभमोहौ तु दोषाणां च निषेवणम्
MBh 12.211.32
अविद्यां क्षेत्रमाहुर्हि कर्म बीजं तथा कृतम् तृष्णासंजननं स्नेह एष तेषां पुनर्भवः
MBh 12.211.33
तस्मिन्व्यूढे च दग्धे च चित्ते मरणधर्मिणि अन्योऽन्याज्जायते देहस्तमाहुः सत्त्वसंक्षयम्
MBh 12.211.34
यदा स रूपतश्चान्यो जातितः श्रुतितोऽर्थतः कथमस्मिन्स इत्येव संबन्धः स्यादसंहितः
MBh 12.211.35
एवं सति च का प्रीतिर्दानविद्यातपोबलैः यदन्याचरितं कर्म सर्वमन्यः प्रपद्यते
MBh 12.211.36
यदा ह्ययमिहैवान्यैः प्राकृतैर्दुःखितो भवेत् सुखितैर्दुःखितैर्वापि दृश्योऽप्यस्य विनिर्णयः
MBh 12.211.37
तथा हि मुसलैर्हन्युः शरीरं तत्पुनर्भवेत् पृथग्ज्ञानं यदन्यच्च येनैतन्नोपलभ्यते
MBh 12.211.38
ऋतुः संवत्सरस्तिथ्यः शीतोष्णे च प्रियाप्रिये यथातीतानि पश्यन्ति तादृशः सत्त्वसंक्षयः
MBh 12.211.39
जरया हि परीतस्य मृत्युना वा विनाशिना दुर्बलं दुर्बलं पूर्वं गृहस्येव विनश्यति
MBh 12.211.40
इन्द्रियाणि मनो वायुः शोणितं मांसमस्थि च आनुपूर्व्या विनश्यन्ति स्वं धातुमुपयान्ति च
MBh 12.211.41
लोकयात्राविधानं च दानधर्मफलागमः यदर्थं वेदशब्दाश्च व्यवहाराश्च लौकिकाः
MBh 12.211.42
इति सम्यङ्मनस्येते बहवः सन्ति हेतवः एतदस्तीदमस्तीति न किंचित्प्रतिपद्यते
MBh 12.211.43
तेषां विमृशतामेवं तत्तत्समभिधावताम् क्वचिन्निविशते बुद्धिस्तत्र जीर्यति वृक्षवत्
MBh 12.211.44
एवमर्थैरनर्थैश्च दुःखिताः सर्वजन्तवः आगमैरपकृष्यन्ते हस्तिपैर्हस्तिनो यथा
MBh 12.211.45
अर्थांस्तथात्यन्तसुखावहांश्च; लिप्सन्त एते बहवो विशुल्काः महत्तरं दुःखमभिप्रपन्ना; हित्वामिषं मृत्युवशं प्रयान्ति
MBh 12.211.46
विनाशिनो ह्यध्रुवजीवितस्य; किं बन्धुभिर्मित्रपरिग्रहैश्च विहाय यो गच्छति सर्वमेव; क्षणेन गत्वा न निवर्तते च
MBh 12.211.47
भूव्योमतोयानलवायवो हि; सदा शरीरं परिपालयन्ति इतीदमालक्ष्य कुतो रतिर्भवे;द्विनाशिनो ह्यस्य न शर्म विद्यते
MBh 12.211.48
इदमनुपधि वाक्यमच्छलं; परमनिरामयमात्मसाक्षिकम् नरपतिरभिवीक्ष्य विस्मितः; पुनरनुयोक्तुमिदं प्रचक्रमे

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 48 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.211local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷