🪷 Mahābhārata · Śānti-Parva · Chapter 212
The Book of Peace · the great dharma-śāstra · Parva 12 · 52 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 52 Shlokas
MBh 12.212.1
भीष्म उवाच
जनको जनदेवस्तु ज्ञापितः परमर्षिणा
पुनरेवानुपप्रच्छ सांपराये भवाभवौ
MBh 12.212.2
भगवन्यदिदं प्रेत्य संज्ञा भवति कस्यचित्
एवं सति किमज्ञानं ज्ञानं वा किं करिष्यति
MBh 12.212.3
सर्वमुच्छेदनिष्ठं स्यात्पश्य चैतद्द्विजोत्तम
अप्रमत्तः प्रमत्तो वा किं विशेषं करिष्यति
MBh 12.212.4
असंसर्गो हि भूतेषु संसर्गो वा विनाशिषु
कस्मै क्रियेत कल्पेन निश्चयः कोऽत्र तत्त्वतः
MBh 12.212.5
तमसा हि प्रतिच्छन्नं विभ्रान्तमिव चातुरम्
पुनः प्रशमयन्वाक्यैः कविः पञ्चशिखोऽब्रवीत्
MBh 12.212.6
उच्छेदनिष्ठा नेहास्ति भावनिष्ठा न विद्यते
अयं ह्यपि समाहारः शरीरेन्द्रियचेतसाम्
वर्तते पृथगन्योन्यमप्यपाश्रित्य कर्मसु
MBh 12.212.7
धातवः पञ्चशाखोऽयं खं वायुर्ज्योतिरम्बु भूः
ते स्वभावेन तिष्ठन्ति वियुज्यन्ते स्वभावतः
MBh 12.212.8
आकाशं वायुरूष्मा च स्नेहो यच्चापि पार्थिवम्
एष पञ्चसमाहारः शरीरमिति नैकधा
ज्ञानमूष्मा च वायुश्च त्रिविधः कर्मसंग्रहः
MBh 12.212.9
इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना मनः
प्राणापानौ विकारश्च धातवश्चात्र निःसृताः
MBh 12.212.10
श्रवणं स्पर्शनं जिह्वा दृष्टिर्नासा तथैव च
इन्द्रियाणीति पञ्चैते चित्तपूर्वंगमा गुणाः
MBh 12.212.11
तत्र विज्ञानसंयुक्ता त्रिविधा वेदना ध्रुवा
सुखदुःखेति यामाहुरदुःखेत्यसुखेति च
MBh 12.212.12
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च मूर्त्यथ
एते ह्यामरणात्पञ्च षड्गुणा ज्ञानसिद्धये
MBh 12.212.13
तेषु कर्मनिसर्गश्च सर्वतत्त्वार्थनिश्चयः
तमाहुः परमं शुक्रं बुद्धिरित्यव्ययं महत्
MBh 12.212.14
इमं गुणसमाहारमात्मभावेन पश्यतः
असम्यग्दर्शनैर्दुःखमनन्तं नोपशाम्यति
MBh 12.212.15
अनात्मेति च यद्दृष्टं तेनाहं न ममेत्यपि
वर्तते किमधिष्ठाना प्रसक्ता दुःखसंततिः
MBh 12.212.16
तत्र सम्यङ्मनो नाम त्यागशास्त्रमनुत्तमम्
शृणु यत्तव मोक्षाय भाष्यमाणं भविष्यति
MBh 12.212.17
त्याग एव हि सर्वेषामुक्तानामपि कर्मणाम्
नित्यं मिथ्याविनीतानां क्लेशो दुःखावहो मतः
MBh 12.212.18
द्रव्यत्यागे तु कर्माणि भोगत्यागे व्रतान्यपि
सुखत्यागे तपोयोगः सर्वत्यागे समापना
MBh 12.212.19
तस्य मार्गोऽयमद्वैधः सर्वत्यागस्य दर्शितः
विप्रहाणाय दुःखस्य दुर्गतिर्ह्यन्यथा भवेत्
MBh 12.212.20
पञ्च ज्ञानेन्द्रियाण्युक्त्वा मनःषष्ठानि चेतसि
मनःषष्ठानि वक्ष्यामि पञ्च कर्मेन्द्रियाणि तु
MBh 12.212.21
हस्तौ कर्मेन्द्रियं ज्ञेयमथ पादौ गतीन्द्रियम्
प्रजनानन्दयोः शेफो विसर्गे पायुरिन्द्रियम्
MBh 12.212.22
वाक्तु शब्दविशेषार्थं गतिं पञ्चान्वितां विदुः
एवमेकादशैतानि बुद्ध्या त्ववसृजेन्मनः
MBh 12.212.23
कर्णौ शब्दश्च चित्तं च त्रयः श्रवणसंग्रहे
तथा स्पर्शे तथा रूपे तथैव रसगन्धयोः
MBh 12.212.24
एवं पञ्चत्रिका ह्येते गुणास्तदुपलब्धये
येन यस्त्रिविधो भावः पर्यायात्समुपस्थितः
MBh 12.212.25
सात्त्विको राजसश्चैव तामसश्चैव ते त्रयः
त्रिविधा वेदना येषु प्रसूता सर्वसाधना
MBh 12.212.26
प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता
अकुतश्चित्कुतश्चिद्वा चित्ततः सात्त्विको गुणः
MBh 12.212.27
अतुष्टिः परितापश्च शोको लोभस्तथाक्षमा
लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुतः
MBh 12.212.28
अविवेकस्तथा मोहः प्रमादः स्वप्नतन्द्रिता
कथंचिदपि वर्तन्ते विविधास्तामसा गुणाः
MBh 12.212.29
तत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत्
वर्तते सात्त्विको भाव इत्यपेक्षेत तत्तथा
MBh 12.212.30
यत्तु संतापसंयुक्तमप्रीतिकरमात्मनः
प्रवृत्तं रज इत्येव ततस्तदभिचिन्तयेत्
MBh 12.212.31
अथ यन्मोहसंयुक्तं काये मनसि वा भवेत्
अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत्
MBh 12.212.32
तद्धि श्रोत्राश्रयं भूतं शब्दः श्रोत्रं समाश्रितः
नोभयं शब्दविज्ञाने विज्ञानस्येतरस्य वा
MBh 12.212.33
एवं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी
स्पर्शे रूपे रसे गन्धे तानि चेतो मनश्च तत्
MBh 12.212.34
स्वकर्मयुगपद्भावो दशस्वेतेषु तिष्ठति
चित्तमेकादशं विद्धि बुद्धिर्द्वादशमी भवेत्
MBh 12.212.35
तेषामयुगपद्भाव उच्छेदो नास्ति तामसः
आस्थितो युगपद्भावे व्यवहारः स लौकिकः
MBh 12.212.36
इन्द्रियाण्यवसृज्यापि दृष्ट्वा पूर्वं श्रुतागमम्
चिन्तयन्नानुपर्येति त्रिभिरेवान्वितो गुणैः
MBh 12.212.37
यत्तमोपहतं चित्तमाशु संचारमध्रुवम्
करोत्युपरमं काले तदाहुस्तामसं सुखम्
MBh 12.212.38
यद्यदागमसंयुक्तं न कृत्स्नमुपशाम्यति
अथ तत्राप्युपादत्ते तमो व्यक्तमिवानृतम्
MBh 12.212.39
एवमेष प्रसंख्यातः स्वकर्मप्रत्ययी गुणः
कथंचिद्वर्तते सम्यक्केषांचिद्वा न वर्तते
MBh 12.212.40
एवमाहुः समाहारं क्षेत्रमध्यात्मचिन्तकाः
स्थितो मनसि यो भावः स वै क्षेत्रज्ञ उच्यते
MBh 12.212.41
एवं सति क उच्छेदः शाश्वतो वा कथं भवेत्
स्वभावाद्वर्तमानेषु सर्वभूतेषु हेतुतः
MBh 12.212.42
यथार्णवगता नद्यो व्यक्तीर्जहति नाम च
न च स्वतां नियच्छन्ति तादृशः सत्त्वसंक्षयः
MBh 12.212.43
एवं सति कुतः संज्ञा प्रेत्यभावे पुनर्भवेत्
प्रतिसंमिश्रिते जीवे गृह्यमाणे च मध्यतः
MBh 12.212.44
इमां तु यो वेद विमोक्षबुद्धि;मात्मानमन्विच्छति चाप्रमत्तः
न लिप्यते कर्मफलैरनिष्टैः; पत्रं बिसस्येव जलेन सिक्तम्
MBh 12.212.45
दृढैश्च पाशैर्बहुभिर्विमुक्तः; प्रजानिमित्तैरपि दैवतैश्च
यदा ह्यसौ सुखदुःखे जहाति; मुक्तस्तदाग्र्यां गतिमेत्यलिङ्गः
श्रुतिप्रमाणागममङ्गलैश्च; शेते जरामृत्युभयादतीतः
MBh 12.212.46
क्षीणे च पुण्ये विगते च पापे; ततोनिमित्ते च फले विनष्टे
अलेपमाकाशमलिङ्गमेव;मास्थाय पश्यन्ति महद्ध्यसक्ताः
MBh 12.212.47
यथोर्णनाभिः परिवर्तमान;स्तन्तुक्षये तिष्ठति पात्यमानः
तथा विमुक्तः प्रजहाति दुःखं; विध्वंसते लोष्ट इवाद्रिमर्च्छन्
MBh 12.212.48
यथा रुरुः शृङ्गमथो पुराणं; हित्वा त्वचं वाप्युरगो यथावत्
विहाय गच्छत्यनवेक्षमाण;स्तथा विमुक्तो विजहाति दुःखम्
MBh 12.212.49
द्रुमं यथा वाप्युदके पतन्त;मुत्सृज्य पक्षी प्रपतत्यसक्तः
तथा ह्यसौ सुखदुःखे विहाय; मुक्तः परार्ध्यां गतिमेत्यलिङ्गः
MBh 12.212.50
अपि च भवति मैथिलेन गीतं; नगरमुपाहितमग्निनाभिवीक्ष्य
न खलु मम तुषोऽपि दह्यतेऽत्र; स्वयमिदमाह किल स्म भूमिपालः
MBh 12.212.51
इदममृतपदं विदेहराजः; स्वयमिह पञ्चशिखेन भाष्यमाणः
निखिलमभिसमीक्ष्य निश्चितार्थं; परमसुखी विजहार वीतशोकः
MBh 12.212.52
इमं हि यः पठति विमोक्षनिश्चयं; न हीयते सततमवेक्षते तथा
उपद्रवान्नानुभवत्यदुःखितः; प्रमुच्यते कपिलमिवैत्य मैथिलः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 211
- Next chapter · Śānti-Parva Ch 213 →
Sources and Connected Readings
Continue from these 52 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.212local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷