🪷 Mahābhārata · Śānti-Parva · Chapter 200
The Book of Peace · the great dharma-śāstra · Parva 12 · 46 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 46 Shlokas
MBh 12.200.1
युधिष्ठिर उवाच
पितामह महाप्राज्ञ पुण्डरीकाक्षमच्युतम्
कर्तारमकृतं विष्णुं भूतानां प्रभवाप्ययम्
MBh 12.200.2
नारायणं हृषीकेशं गोविन्दमपराजितम्
तत्त्वेन भरतश्रेष्ठ श्रोतुमिच्छामि केशवम्
MBh 12.200.3
भीष्म उवाच
श्रुतोऽयमर्थो रामस्य जामदग्न्यस्य जल्पतः
नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च
MBh 12.200.4
असितो देवलस्तात वाल्मीकिश्च महातपाः
मार्कण्डेयश्च गोविन्दे कथयत्यद्भुतं महत्
MBh 12.200.5
केशवो भरतश्रेष्ठ भगवानीश्वरः प्रभुः
पुरुषः सर्वमित्येव श्रूयते बहुधा विभुः
MBh 12.200.6
किं तु यानि विदुर्लोके ब्राह्मणाः शार्ङ्गधन्वनः
माहात्म्यानि महाबाहो शृणु तानि युधिष्ठिर
MBh 12.200.7
यानि चाहुर्मनुष्येन्द्र ये पुराणविदो जनाः
अशेषेण हि गोविन्दे कीर्तयिष्यामि तान्यहम्
MBh 12.200.8
महाभूतानि भूतात्मा महात्मा पुरुषोत्तमः
वायुर्ज्योतिस्तथा चापः खं गां चैवान्वकल्पयत्
MBh 12.200.9
स दृष्ट्वा पृथिवीं चैव सर्वभूतेश्वरः प्रभुः
अप्स्वेव शयनं चक्रे महात्मा पुरुषोत्तमः
MBh 12.200.10
सर्वतेजोमयस्तस्मिञ्शयानः शयने शुभे
सोऽग्रजं सर्वभूतानां संकर्षणमचिन्तयत्
MBh 12.200.11
आश्रयं सर्वभूतानां मनसेति विशुश्रुम
स धारयति भूतात्मा उभे भूतभविष्यती
MBh 12.200.12
ततस्तस्मिन्महाबाहो प्रादुर्भूते महात्मनि
भास्करप्रतिमं दिव्यं नाभ्यां पद्ममजायत
MBh 12.200.13
स तत्र भगवान्देवः पुष्करे भासयन्दिशः
ब्रह्मा समभवत्तात सर्वभूतपितामहः
MBh 12.200.14
तस्मिन्नपि महाबाहो प्रादुर्भूते महात्मनि
तमसः पूर्वजो जज्ञे मधुर्नाम महासुरः
MBh 12.200.15
तमुग्रमुग्रकर्माणमुग्रां बुद्धिं समास्थितम्
ब्रह्मणोपचितिं कुर्वञ्जघान पुरुषोत्तमः
MBh 12.200.16
तस्य तात वधात्सर्वे देवदानवमानवाः
मधुसूदनमित्याहुर्वृषभं सर्वसात्वताम्
MBh 12.200.17
ब्रह्मा तु ससृजे पुत्रान्मानसान्दक्षसप्तमान्
मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम्
MBh 12.200.18
मरीचिः कश्यपं तात पुत्रं चासृजदग्रजम्
मानसं जनयामास तैजसं ब्रह्मसत्तमम्
MBh 12.200.19
अङ्गुष्ठादसृजद्ब्रह्मा मरीचेरपि पूर्वजम्
सोऽभवद्भरतश्रेष्ठ दक्षो नाम प्रजापतिः
MBh 12.200.20
तस्य पूर्वमजायन्त दश तिस्रश्च भारत
प्रजापतेर्दुहितरस्तासां ज्येष्ठाभवद्दितिः
MBh 12.200.21
सर्वधर्मविशेषज्ञः पुण्यकीर्तिर्महायशाः
मारीचः कश्यपस्तात सर्वासामभवत्पतिः
MBh 12.200.22
उत्पाद्य तु महाभागस्तासामवरजा दश
ददौ धर्माय धर्मज्ञो दक्ष एव प्रजापतिः
MBh 12.200.23
धर्मस्य वसवः पुत्रा रुद्राश्चामिततेजसः
विश्वेदेवाश्च साध्याश्च मरुत्वन्तश्च भारत
MBh 12.200.24
अपरास्तु यवीयस्यस्ताभ्योऽन्याः सप्तविंशतिः
सोमस्तासां महाभागः सर्वासामभवत्पतिः
MBh 12.200.25
इतरास्तु व्यजायन्त गन्धर्वांस्तुरगान्द्विजान्
गाश्च किंपुरुषान्मत्स्यानौद्भिदांश्च वनस्पतीन्
MBh 12.200.26
आदित्यानदितिर्जज्ञे देवश्रेष्ठान्महाबलान्
तेषां विष्णुर्वामनोऽभूद्गोविन्दश्चाभवत्प्रभुः
MBh 12.200.27
तस्य विक्रमणादेव देवानां श्रीर्व्यवर्धत
दानवाश्च पराभूता दैतेयी चासुरी प्रजा
MBh 12.200.28
विप्रचित्तिप्रधानांश्च दानवानसृजद्दनुः
दितिस्तु सर्वानसुरान्महासत्त्वान्व्यजायत
MBh 12.200.29
अहोरात्रं च कालं च यथर्तु मधुसूदनः
पूर्वाह्णं चापराह्णं च सर्वमेवान्वकल्पयत्
MBh 12.200.30
बुद्ध्यापः सोऽसृजन्मेघांस्तथा स्थावरजङ्गमान्
पृथिवीं सोऽसृजद्विश्वां सहितां भूरितेजसा
MBh 12.200.31
ततः कृष्णो महाबाहुः पुनरेव युधिष्ठिर
ब्राह्मणानां शतं श्रेष्ठं मुखादसृजत प्रभुः
MBh 12.200.32
बाहुभ्यां क्षत्रियशतं वैश्यानामूरुतः शतम्
पद्भ्यां शूद्रशतं चैव केशवो भरतर्षभ
MBh 12.200.33
स एवं चतुरो वर्णान्समुत्पाद्य महायशाः
अध्यक्षं सर्वभूतानां धातारमकरोत्प्रभुः
MBh 12.200.34
यावद्यावदभूच्छ्रद्धा देहं धारयितुं नृणाम्
तावत्तावदजीवंस्ते नासीद्यमकृतं भयम्
MBh 12.200.35
न चैषां मैथुनो धर्मो बभूव भरतर्षभ
संकल्पादेव चैतेषामपत्यमुदपद्यत
MBh 12.200.36
तत्र त्रेतायुगे काले संकल्पाज्जायते प्रजा
न ह्यभून्मैथुनो धर्मस्तेषामपि जनाधिप
MBh 12.200.37
द्वापरे मैथुनो धर्मः प्रजानामभवन्नृप
तथा कलियुगे राजन्द्वंद्वमापेदिरे जनाः
MBh 12.200.38
एष भूतपतिस्तात स्वध्यक्षश्च प्रकीर्तितः
निरध्यक्षांस्तु कौन्तेय कीर्तयिष्यामि तानपि
MBh 12.200.39
दक्षिणापथजन्मानः सर्वे तलवरान्ध्रकाः
उत्साः पुलिन्दाः शबराश्चूचुपा मण्डपैः सह
MBh 12.200.40
उत्तरापथजन्मानः कीर्तयिष्यामि तानपि
यौनकाम्बोजगान्धाराः किराता बर्बरैः सह
MBh 12.200.41
एते पापकृतस्तात चरन्ति पृथिवीमिमाम्
श्वकाकबलगृध्राणां सधर्माणो नराधिप
MBh 12.200.42
नैते कृतयुगे तात चरन्ति पृथिवीमिमाम्
त्रेताप्रभृति वर्तन्ते ते जना भरतर्षभ
MBh 12.200.43
ततस्तस्मिन्महाघोरे संध्याकाले युगान्तिके
राजानः समसज्जन्त समासाद्येतरेतरम्
MBh 12.200.44
एवमेष कुरुश्रेष्ठ प्रादुर्भावो महात्मनः
देवदेवर्षिराचष्ट नारदः सर्वलोकदृक्
MBh 12.200.45
नारदोऽप्यथ कृष्णस्य परं मेने नराधिप
शाश्वतत्वं महाबाहो यथावद्भरतर्षभ
MBh 12.200.46
एवमेष महाबाहुः केशवः सत्यविक्रमः
अचिन्त्यः पुण्डरीकाक्षो नैष केवलमानुषः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 199
- Next chapter · Śānti-Parva Ch 201 →
Sources and Connected Readings
Continue from these 46 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.200local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷