🪷 Mahābhārata · Śānti-Parva · Chapter 199

The Book of Peace · the great dharma-śāstra · Parva 12 · 32 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 32 Shlokas

MBh 12.199.1
मनुरुवाच यदा ते पञ्चभिः पञ्च विमुक्ता मनसा सह अथ तद्द्रक्ष्यसे ब्रह्म मणौ सूत्रमिवार्पितम्
MBh 12.199.2
तदेव च यथा सूत्रं सुवर्णे वर्तते पुनः मुक्तास्वथ प्रवालेषु मृन्मये राजते तथा
MBh 12.199.3
तद्वद्गोषु मनुष्येषु तद्वद्धस्तिमृगादिषु तद्वत्कीटपतंगेषु प्रसक्तात्मा स्वकर्मभिः
MBh 12.199.4
येन येन शरीरेण यद्यत्कर्म करोत्ययम् तेन तेन शरीरेण तत्तत्फलमुपाश्नुते
MBh 12.199.5
यथा ह्येकरसा भूमिरोषध्यात्मानुसारिणी तथा कर्मानुगा बुद्धिरन्तरात्मानुदर्शिनी
MBh 12.199.6
ज्ञानपूर्वोद्भवा लिप्सा लिप्सापूर्वाभिसंधिता अभिसंधिपूर्वकं कर्म कर्ममूलं ततः फलम्
MBh 12.199.7
फलं कर्मात्मकं विद्यात्कर्म ज्ञेयात्मकं तथा ज्ञेयं ज्ञानात्मकं विद्याज्ज्ञानं सदसदात्मकम्
MBh 12.199.8
ज्ञानानां च फलानां च ज्ञेयानां कर्मणां तथा क्षयान्ते तत्फलं दिव्यं ज्ञानं ज्ञेयप्रतिष्ठितम्
MBh 12.199.9
महद्धि परमं भूतं युक्ताः पश्यन्ति योगिनः अबुधास्तं न पश्यन्ति ह्यात्मस्था गुणबुद्धयः
MBh 12.199.10
पृथिवीरूपतो रूपमपामिह महत्तरम् अद्भ्यो महत्तरं तेजस्तेजसः पवनो महान्
MBh 12.199.11
पवनाच्च महद्व्योम तस्मात्परतरं मनः मनसो महती बुद्धिर्बुद्धेः कालो महान्स्मृतः
MBh 12.199.12
कालात्स भगवान्विष्णुर्यस्य सर्वमिदं जगत् नादिर्न मध्यं नैवान्तस्तस्य देवस्य विद्यते
MBh 12.199.13
अनादित्वादमध्यत्वादनन्तत्वाच्च सोऽव्ययः अत्येति सर्वदुःखानि दुःखं ह्यन्तवदुच्यते
MBh 12.199.14
तद्ब्रह्म परमं प्रोक्तं तद्धाम परमं स्मृतम् तद्गत्वा कालविषयाद्विमुक्ता मोक्षमाश्रिताः
MBh 12.199.15
गुणैस्त्वेतैः प्रकाशन्ते निर्गुणत्वात्ततः परम् निवृत्तिलक्षणो धर्मस्तथानन्त्याय कल्पते
MBh 12.199.16
ऋचो यजूंषि सामानि शरीराणि व्यपाश्रिताः जिह्वाग्रेषु प्रवर्तन्ते यत्नसाध्या विनाशिनः
MBh 12.199.17
न चैवमिष्यते ब्रह्म शरीराश्रयसंभवम् न यत्नसाध्यं तद्ब्रह्म नादिमध्यं न चान्तवत्
MBh 12.199.18
ऋचामादिस्तथा साम्नां यजुषामादिरुच्यते अन्तश्चादिमतां दृष्टो न चादिर्ब्रह्मणः स्मृतः
MBh 12.199.19
अनादित्वादनन्तत्वात्तदनन्तमथाव्ययम् अव्ययत्वाच्च निर्द्वंद्वं द्वंद्वाभावात्ततः परम्
MBh 12.199.20
अदृष्टतोऽनुपायाच्चाप्यभिसंधेश्च कर्मणः न तेन मर्त्याः पश्यन्ति येन गच्छन्ति तत्परम्
MBh 12.199.21
विषयेषु च संसर्गाच्छाश्वतस्य च दर्शनात् मनसा चान्यदाकाङ्क्षन्परं न प्रतिपद्यते
MBh 12.199.22
गुणान्यदिह पश्यन्ति तदिच्छन्त्यपरे जनाः परं नैवाभिकाङ्क्षन्ति निर्गुणत्वाद्गुणार्थिनः
MBh 12.199.23
गुणैर्यस्त्ववरैर्युक्तः कथं विद्याद्गुणानिमान् अनुमानाद्धि गन्तव्यं गुणैरवयवैः सह
MBh 12.199.24
सूक्ष्मेण मनसा विद्मो वाचा वक्तुं न शक्नुमः मनो हि मनसा ग्राह्यं दर्शनेन च दर्शनम्
MBh 12.199.25
ज्ञानेन निर्मलीकृत्य बुद्धिं बुद्ध्या तथा मनः मनसा चेन्द्रियग्राममनन्तं प्रतिपद्यते
MBh 12.199.26
बुद्धिप्रहीणो मनसासमृद्ध;स्तथा निराशीर्गुणतामुपैति परं त्यजन्तीह विलोभ्यमाना; हुताशनं वायुरिवेन्धनस्थम्
MBh 12.199.27
गुणादाने विप्रयोगे च तेषां; मनः सदा बुद्धिपरावराभ्याम् अनेनैव विधिना संप्रवृत्तो; गुणादाने ब्रह्मशरीरमेति
MBh 12.199.28
अव्यक्तात्मा पुरुषोऽव्यक्तकर्मा; सोऽव्यक्तत्वं गच्छति ह्यन्तकाले तैरेवायं चेन्द्रियैर्वर्धमानै;र्ग्लायद्भिर्वा वर्तते कर्मरूपः
MBh 12.199.29
सर्वैरयं चेन्द्रियैः संप्रयुक्तो; देहः प्राप्तः पञ्चभूताश्रयः स्यात् नासामर्थ्याद्गच्छति कर्मणेह; हीनस्तेन परमेणाव्ययेन
MBh 12.199.30
पृथ्व्या नरः पश्यति नान्तमस्या; ह्यन्तश्चास्या भविता चेति विद्धि परं नयन्तीह विलोभ्यमानं; यथा प्लवं वायुरिवार्णवस्थम्
MBh 12.199.31
दिवाकरो गुणमुपलभ्य निर्गुणो; यथा भवेद्व्यपगतरश्मिमण्डलः तथा ह्यसौ मुनिरिह निर्विशेषवा;न्स निर्गुणं प्रविशति ब्रह्म चाव्ययम्
MBh 12.199.32
अनागतिं सुकृतिमतां परां गतिं; स्वयंभुवं प्रभवनिधानमव्ययम् सनातनं यदमृतमव्ययं पदं; विचार्य तं शमममृतत्वमश्नुते

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 32 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.199local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷