🪷 Mahābhārata · Śānti-Parva · Chapter 198

The Book of Peace · the great dharma-śāstra · Parva 12 · 18 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 18 Shlokas

MBh 12.198.1
मनुरुवाच ज्ञानं ज्ञेयाभिनिर्वृत्तं विद्धि ज्ञानगुणं मनः प्रज्ञाकरणसंयुक्तं ततो बुद्धिः प्रवर्तते
MBh 12.198.2
यदा कर्मगुणोपेता बुद्धिर्मनसि वर्तते तदा प्रज्ञायते ब्रह्म ध्यानयोगसमाधिना
MBh 12.198.3
सेयं गुणवती बुद्धिर्गुणेष्वेवाभिवर्तते अवताराभिनिःस्रोतं गिरेः शृङ्गादिवोदकम्
MBh 12.198.4
यदा निर्गुणमाप्नोति ध्यानं मनसि पूर्वजम् तदा प्रज्ञायते ब्रह्म निकष्यं निकषे यथा
MBh 12.198.5
मनस्त्वपहृतं बुद्धिमिन्द्रियार्थनिदर्शनम् न समक्षं गुणावेक्षि निर्गुणस्य निदर्शनम्
MBh 12.198.6
सर्वाण्येतानि संवार्य द्वाराणि मनसि स्थितः मनस्येकाग्रतां कृत्वा तत्परं प्रतिपद्यते
MBh 12.198.7
यथा महान्ति भूतानि निवर्तन्ते गुणक्षये तथेन्द्रियाण्युपादाय बुद्धिर्मनसि वर्तते
MBh 12.198.8
यदा मनसि सा बुद्धिर्वर्ततेऽन्तरचारिणी व्यवसायगुणोपेता तदा संपद्यते मनः
MBh 12.198.9
गुणवद्भिर्गुणोपेतं यदा ध्यानगुणं मनः तदा सर्वगुणान्हित्वा निर्गुणं प्रतिपद्यते
MBh 12.198.10
अव्यक्तस्येह विज्ञाने नास्ति तुल्यं निदर्शनम् यत्र नास्ति पदन्यासः कस्तं विषयमाप्नुयात्
MBh 12.198.11
तपसा चानुमानेन गुणैर्जात्या श्रुतेन च निनीषेत्तत्परं ब्रह्म विशुद्धेनान्तरात्मना
MBh 12.198.12
गुणहीनो हि तं मार्गं बहिः समनुवर्तते गुणाभावात्प्रकृत्या च निस्तर्क्यं ज्ञेयसंमितम्
MBh 12.198.13
नैर्गुण्याद्ब्रह्म चाप्नोति सगुणत्वान्निवर्तते गुणप्रसारिणी बुद्धिर्हुताशन इवेन्धने
MBh 12.198.14
यथा पञ्च विमुक्तानि इन्द्रियाणि स्वकर्मभिः तथा तत्परमं ब्रह्म विमुक्तं प्रकृतेः परम्
MBh 12.198.15
एवं प्रकृतितः सर्वे प्रभवन्ति शरीरिणः निवर्तन्ते निवृत्तौ च सर्गं नैवोपयान्ति च
MBh 12.198.16
पुरुषः प्रकृतिर्बुद्धिर्विशेषाश्चेन्द्रियाणि च अहंकारोऽभिमानश्च संभूतो भूतसंज्ञकः
MBh 12.198.17
एकस्याद्या प्रवृत्तिस्तु प्रधानात्संप्रवर्तते द्वितीया मिथुनव्यक्तिमविशेषान्नियच्छति
MBh 12.198.18
धर्मादुत्कृष्यते श्रेयस्तथाश्रेयोऽप्यधर्मतः रागवान्प्रकृतिं ह्येति विरक्तो ज्ञानवान्भवेत्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 18 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.198local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷