🪷 Mahābhārata · Śānti-Parva · Chapter 197

The Book of Peace · the great dharma-śāstra · Parva 12 · 20 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 20 Shlokas

MBh 12.197.1
मनुरुवाच यथा व्यक्तमिदं शेते स्वप्ने चरति चेतनम् ज्ञानमिन्द्रियसंयुक्तं तद्वत्प्रेत्य भवाभवौ
MBh 12.197.2
यथाम्भसि प्रसन्ने तु रूपं पश्यति चक्षुषा तद्वत्प्रसन्नेन्द्रियवाञ्ज्ञेयं ज्ञानेन पश्यति
MBh 12.197.3
स एव लुलिते तस्मिन्यथा रूपं न पश्यति तथेन्द्रियाकुलीभावे ज्ञेयं ज्ञाने न पश्यति
MBh 12.197.4
अबुद्धिरज्ञानकृता अबुद्ध्या दुष्यते मनः दुष्टस्य मनसः पञ्च संप्रदुष्यन्ति मानसाः
MBh 12.197.5
अज्ञानतृप्तो विषयेष्ववगाढो न दृश्यते अदृष्ट्वैव तु पूतात्मा विषयेभ्यो निवर्तते
MBh 12.197.6
तर्षच्छेदो न भवति पुरुषस्येह कल्मषात् निवर्तते तथा तर्षः पापमन्तं गतं यथा
MBh 12.197.7
विषयेषु च संसर्गाच्छाश्वतस्य नसंश्रयात् मनसा चान्यदाकाङ्क्षन्परं न प्रतिपद्यते
MBh 12.197.8
ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः अथादर्शतलप्रख्ये पश्यत्यात्मानमात्मनि
MBh 12.197.9
प्रसृतैरिन्द्रियैर्दुःखी तैरेव नियतैः सुखी तस्मादिन्द्रियरूपेभ्यो यच्छेदात्मानमात्मना
MBh 12.197.10
इन्द्रियेभ्यो मनः पूर्वं बुद्धिः परतरा ततः बुद्धेः परतरं ज्ञानं ज्ञानात्परतरं परम्
MBh 12.197.11
अव्यक्तात्प्रसृतं ज्ञानं ततो बुद्धिस्ततो मनः मनः श्रोत्रादिभिर्युक्तं शब्दादीन्साधु पश्यति
MBh 12.197.12
यस्तांस्त्यजति शब्दादीन्सर्वाश्च व्यक्तयस्तथा विमुञ्चत्याकृतिग्रामांस्तान्मुक्त्वामृतमश्नुते
MBh 12.197.13
उद्यन्हि सविता यद्वत्सृजते रश्मिमण्डलम् स एवास्तमुपागच्छंस्तदेवात्मनि यच्छति
MBh 12.197.14
अन्तरात्मा तथा देहमाविश्येन्द्रियरश्मिभिः प्राप्येन्द्रियगुणान्पञ्च सोऽस्तमावृत्य गच्छति
MBh 12.197.15
प्रणीतं कर्मणा मार्गं नीयमानः पुनः पुनः प्राप्नोत्ययं कर्मफलं प्रवृद्धं धर्ममात्मवान्
MBh 12.197.16
विषया विनिवर्तन्ते निराहारस्य देहिनः रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते
MBh 12.197.17
बुद्धिः कर्मगुणैर्हीना यदा मनसि वर्तते तदा संपद्यते ब्रह्म तत्रैव प्रलयं गतम्
MBh 12.197.18
अस्पर्शनमशृण्वानमनास्वादमदर्शनम् अघ्राणमवितर्कं च सत्त्वं प्रविशते परम्
MBh 12.197.19
मनस्याकृतयो मग्ना मनस्त्वतिगतं मतिम् मतिस्त्वतिगता ज्ञानं ज्ञानं त्वभिगतं परम्
MBh 12.197.20
इन्द्रियैर्मनसः सिद्धिर्न बुद्धिं बुध्यते मनः न बुद्धिर्बुध्यतेऽव्यक्तं सूक्ष्मस्त्वेतानि पश्यति

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 20 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.197local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷