🪷 Mahābhārata · Śānti-Parva · Chapter 201

The Book of Peace · the great dharma-śāstra · Parva 12 · 35 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 35 Shlokas

MBh 12.201.1
युधिष्ठिर उवाच के पूर्वमासन्पतयः प्रजानां भरतर्षभ के चर्षयो महाभागा दिक्षु प्रत्येकशः स्मृताः
MBh 12.201.2
भीष्म उवाच श्रूयतां भरतश्रेष्ठ यन्मा त्वं परिपृच्छसि प्रजानां पतयो ये स्म दिक्षु प्रत्येकशः स्मृताः
MBh 12.201.3
एकः स्वयंभूर्भगवानाद्यो ब्रह्मा सनातनः ब्रह्मणः सप्त पुत्रा वै महात्मानः स्वयंभुवः
MBh 12.201.4
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः वसिष्ठश्च महाभागः सदृशा वै स्वयंभुवा
MBh 12.201.5
सप्त ब्रह्माण इत्येष पुराणे निश्चयो गतः अत ऊर्ध्वं प्रवक्ष्यामि सर्वानेव प्रजापतीन्
MBh 12.201.6
अत्रिवंशसमुत्पन्नो ब्रह्मयोनिः सनातनः प्राचीनबर्हिर्भगवांस्तस्मात्प्राचेतसो दश
MBh 12.201.7
दशानां तनयस्त्वेको दक्षो नाम प्रजापतिः तस्य द्वे नामनी लोके दक्षः क इति चोच्यते
MBh 12.201.8
मरीचेः कश्यपः पुत्रस्तस्य द्वे नामनी श्रुते अरिष्टनेमिरित्येकं कश्यपेत्यपरं विदुः
MBh 12.201.9
अङ्गश्चैवौरसः श्रीमान्राजा भौमश्च वीर्यवान् सहस्रं यश्च दिव्यानां युगानां पर्युपासिता
MBh 12.201.10
अर्यमा चैव भगवान्ये चान्ये तनया विभो एते प्रदेशाः कथिता भुवनानां प्रभावनाः
MBh 12.201.11
शशबिन्दोश्च भार्याणां सहस्राणि दशाच्युत एकैकस्यां सहस्रं तु तनयानामभूत्तदा
MBh 12.201.12
एवं शतसहस्राणां शतं तस्य महात्मनः पुत्राणां न च ते कंचिदिच्छन्त्यन्यं प्रजापतिम्
MBh 12.201.13
प्रजामाचक्षते विप्राः पौराणीं शाशबिन्दवीम् स वृष्णिवंशप्रभवो महान्वंशः प्रजापतेः
MBh 12.201.14
एते प्रजानां पतयः समुद्दिष्टा यशस्विनः अतः परं प्रवक्ष्यामि देवांस्त्रिभुवनेश्वरान्
MBh 12.201.15
भगोंऽशश्चार्यमा चैव मित्रोऽथ वरुणस्तथा सविता चैव धाता च विवस्वांश्च महाबलः
MBh 12.201.16
पूषा त्वष्टा तथैवेन्द्रो द्वादशो विष्णुरुच्यते त एते द्वादशादित्याः कश्यपस्यात्मसंभवाः
MBh 12.201.17
नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनावपि मार्ताण्डस्यात्मजावेतावष्टमस्य प्रजापतेः
MBh 12.201.18
त्वष्टुश्चैवात्मजः श्रीमान्विश्वरूपो महायशाः अजैकपादहिर्बुध्न्यो विरूपाक्षोऽथ रैवतः
MBh 12.201.19
हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः सावित्रश्च जयन्तश्च पिनाकी चापराजितः पूर्वमेव महाभागा वसवोऽष्टौ प्रकीर्तिताः
MBh 12.201.20
एत एवंविधा देवा मनोरेव प्रजापतेः ते च पूर्वे सुराश्चेति द्विविधाः पितरः स्मृताः
MBh 12.201.21
शीलरूपरतास्त्वन्ये तथान्ये सिद्धसाध्ययोः ऋभवो मरुतश्चैव देवानां चोदिता गणाः
MBh 12.201.22
एवमेते समाम्नाता विश्वेदेवास्तथाश्विनौ आदित्याः क्षत्रियास्तेषां विशस्तु मरुतस्तथा
MBh 12.201.23
अश्विनौ तु मतौ शूद्रौ तपस्युग्रे समाहितौ स्मृतास्त्वङ्गिरसो देवा ब्राह्मणा इति निश्चयः इत्येतत्सर्वदेवानां चातुर्वर्ण्यं प्रकीर्तितम्
MBh 12.201.24
एतान्वै प्रातरुत्थाय देवान्यस्तु प्रकीर्तयेत् स्वजादन्यकृताच्चैव सर्वपापात्प्रमुच्यते
MBh 12.201.25
यवक्रीतोऽथ रैभ्यश्च अर्वावसुपरावसू औशिजश्चैव कक्षीवान्नलश्चाङ्गिरसः सुताः
MBh 12.201.26
ऋषेर्मेधातिथेः पुत्रः कण्वो बर्हिषदस्तथा त्रैलोक्यभावनास्तात प्राच्यां सप्तर्षयस्तथा
MBh 12.201.27
उन्मुचो विमुचश्चैव स्वस्त्यात्रेयश्च वीर्यवान् प्रमुचश्चेध्मवाहश्च भगवांश्च दृढव्रतः
MBh 12.201.28
मित्रावरुणयोः पुत्रस्तथागस्त्यः प्रतापवान् एते ब्रह्मर्षयो नित्यमाश्रिता दक्षिणां दिशम्
MBh 12.201.29
रुषद्गुः कवषो धौम्यः परिव्याधश्च वीर्यवान् एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः
MBh 12.201.30
अत्रेः पुत्रश्च भगवांस्तथा सारस्वतः प्रभुः एते नव महात्मानः पश्चिमामाश्रिता दिशम्
MBh 12.201.31
आत्रेयश्च वसिष्ठश्च कश्यपश्च महानृषिः गौतमः सभरद्वाजो विश्वामित्रोऽथ कौशिकः
MBh 12.201.32
तथैव पुत्रो भगवानृचीकस्य महात्मनः जमदग्निश्च सप्तैते उदीचीं दिशमाश्रिताः
MBh 12.201.33
एते प्रतिदिशं सर्वे कीर्तितास्तिग्मतेजसः साक्षिभूता महात्मानो भुवनानां प्रभावनाः
MBh 12.201.34
एवमेते महात्मानः स्थिताः प्रत्येकशो दिशः एतेषां कीर्तनं कृत्वा सर्वपापैः प्रमुच्यते
MBh 12.201.35
यस्यां यस्यां दिशि ह्येते तां दिशं शरणं गतः मुच्यते सर्वपापेभ्यः स्वस्तिमांश्च गृहान्व्रजेत्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 35 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.201local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷