🪷 Mahābhārata · Śānti-Parva · Chapter 184
The Book of Peace · the great dharma-śāstra · Parva 12 · 18 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 18 Shlokas
MBh 12.184.1
भरद्वाज उवाच
दानस्य किं फलं प्राहुर्धर्मस्य चरितस्य च
तपसश्च सुतप्तस्य स्वाध्यायस्य हुतस्य च
MBh 12.184.2
भृगुरुवाच
हुतेन शाम्यते पापं स्वाध्याये शान्तिरुत्तमा
दानेन भोग इत्याहुस्तपसा सर्वमाप्नुयात्
MBh 12.184.3
दानं तु द्विविधं प्राहुः परत्रार्थमिहैव च
सद्भ्यो यद्दीयते किंचित्तत्परत्रोपतिष्ठति
MBh 12.184.4
असत्सु दीयते यत्तु तद्दानमिह भुज्यते
यादृशं दीयते दानं तादृशं फलमाप्यते
MBh 12.184.5
भरद्वाज उवाच
किं कस्य धर्मचरणं किं वा धर्मस्य लक्षणम्
धर्मः कतिविधो वापि तद्भवान्वक्तुमर्हति
MBh 12.184.6
भृगुरुवाच
स्वधर्मचरणे युक्ता ये भवन्ति मनीषिणः
तेषां धर्मफलावाप्तिर्योऽन्यथा स विमुह्यति
MBh 12.184.7
भरद्वाज उवाच
यदेतच्चातुराश्रम्यं ब्रह्मर्षिविहितं पुरा
तेषां स्वे स्वे य आचारास्तान्मे वक्तुमिहार्हसि
MBh 12.184.8
भृगुरुवाच
पूर्वमेव भगवता लोकहितमनुतिष्ठता धर्मसंरक्षणार्थमाश्रमाश्चत्वारोऽभिनिर्दिष्टाः
तत्र गुरुकुलवासमेव तावत्प्रथममाश्रममुदाहरन्ति
सम्यगत्र शौचसंस्कारविनयनियमप्रणीतो विनीतात्मा उभे संध्ये भास्कराग्निदैवतान्युपस्थाय विहाय तन्द्रालस्ये गुरोरभिवादनवेदाभ्यासश्रवणपवित्रीकृतान्तरात्मा त्रिषवणमुपस्पृश्य ब्रह्मचर्याग्निपरिचरणगुरुशुश्रूषानित्यो भैक्षादिसर्वनिवेदितान्तरात्मा गुरुवचननिर्देशानुष्ठानाप्रतिकूलो गुरुप्रसादलब्धस्वाध्यायतत्परः स्यात्
MBh 12.184.9
भवति चात्र श्लोकः
गुरुं यस्तु समाराध्य द्विजो वेदमवाप्नुयात्
तस्य स्वर्गफलावाप्तिः सिध्यते चास्य मानसम्
MBh 12.184.10
गार्हस्थ्यं खलु द्वितीयमाश्रमं वदन्ति
तस्य समुदाचारलक्षणं सर्वमनुव्याख्यास्यामः
समावृत्तानां सदाराणां सहधर्मचर्याफलार्थिनां गृहाश्रमो विधीयते
धर्मार्थकामावाप्तिर्ह्यत्र त्रिवर्गसाधनमवेक्ष्यागर्हितेन कर्मणा धनान्यादाय स्वाध्यायप्रकर्षोपलब्धेन ब्रह्मर्षिनिर्मितेन वा अद्रिसारगतेन वा हव्यनियमाभ्यासदैवतप्रसादोपलब्धेन वा धनेन गृहस्थो गार्हस्थ्यं प्रवर्तयेत्
तद्धि सर्वाश्रमाणां मूलमुदाहरन्ति
गुरुकुलवासिनः परिव्राजका ये चान्ये संकल्पितव्रतनियमधर्मानुष्ठायिनस्तेषामप्यत एव भिक्षाबलिसंविभागाः प्रवर्तन्ते
MBh 12.184.11
वानप्रस्थानां द्रव्योपस्कार इति प्रायशः खल्वेते साधवः साधुपथ्यदर्शनाः स्वाध्यायप्रसङ्गिनस्तीर्थाभिगमनदेशदर्शनार्थं पृथिवीं पर्यटन्ति
तेषां प्रत्युत्थानाभिवादनानसूयावाक्प्रदानसौमुख्यशक्त्यासनशयनाभ्यवहारसत्क्रियाश्चेति
MBh 12.184.12
भवति चात्र श्लोकः
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते
स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति
MBh 12.184.13
अपि चात्र यज्ञक्रियाभिर्देवताः प्रीयन्ते निवापेन पितरो वेदाभ्यासश्रवणधारणेन ऋषयः
अपत्योत्पादनेन प्रजापतिरिति
MBh 12.184.14
श्लोकौ चात्र भवतः
वत्सलाः सर्वभूतानां वाच्याः श्रोत्रसुखा गिरः
परिवादोपघातौ च पारुष्यं चात्र गर्हितम्
MBh 12.184.15
अवज्ञानमहंकारो दम्भश्चैव विगर्हितः
अहिंसा सत्यमक्रोधः सर्वाश्रमगतं तपः
MBh 12.184.16
अपि चात्र माल्याभरणवस्त्राभ्यङ्गगन्धोपभोगनृत्तगीतवादित्रश्रुतिसुखनयनाभिरामसंदर्शनानां प्राप्तिर्भक्ष्यभोज्यपेयलेह्यचोष्याणामभ्यवहार्याणां विविधानामुपभोगः स्वदारविहारसंतोषः कामसुखावाप्तिरिति
MBh 12.184.17
त्रिवर्गगुणनिर्वृत्तिर्यस्य नित्यं गृहाश्रमे
स सुखान्यनुभूयेह शिष्टानां गतिमाप्नुयात्
MBh 12.184.18
उञ्छवृत्तिर्गृहस्थो यः स्वधर्मचरणे रतः
त्यक्तकामसुखारम्भस्तस्य स्वर्गो न दुर्लभः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 183
- Next chapter · Śānti-Parva Ch 185 →
Sources and Connected Readings
Continue from these 18 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.184local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷