🪷 Mahābhārata · Śānti-Parva · Chapter 185
The Book of Peace · the great dharma-śāstra · Parva 12 · 27 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 27 Shlokas
MBh 12.185.1
भृगुरुवाच
वानप्रस्थाः खलु ऋषिधर्ममनुसरन्तः पुण्यानि तीर्थानि नदीप्रस्रवणानि सुविविक्तेष्वरण्येषु मृगमहिषवराहसृमरगजाकीर्णेषु तपस्यन्तोऽनुसंचरन्ति
त्यक्तग्राम्यवस्त्राहारोपभोगा वन्यौषधिमूलफलपर्णपरिमितविचित्रनियताहाराः स्थानासनिनो भूमिपाषाणसिकताशर्करावालुकाभस्मशायिनः काशकुशचर्मवल्कलसंवृताङ्गाः केशश्मश्रुनखरोमधारिणो नियतकालोपस्पर्शना अस्कन्नहोमबलिकालानुष्ठायिनः समित्कुशकुसुमोपहारहोमार्जनलब्धविश्रामाः शीतोष्णपवननिष्टप्तविभिन्नसर्वत्वचो विविधनियमयोगचर्याविहितधर्मानुष्ठानहृतमांसशोणितास्त्वगस्थिभूता धृतिपराः सत्त्वयोगाच्छरीराण्युद्वहन्ति
MBh 12.185.2
यस्त्वेतां नियतश्चर्यां ब्रह्मर्षिविहितां चरेत्
स दहेदग्निवद्दोषाञ्जयेल्लोकांश्च दुर्जयान्
MBh 12.185.3
परिव्राजकानां पुनराचारस्तद्यथा
विमुच्याग्निधनकलत्रपरिबर्हसङ्गानात्मनः स्नेहपाशानवधूय परिव्रजन्ति समलोष्टाश्मकाञ्चनास्त्रिवर्गप्रवृत्तेष्वारम्भेष्वसक्तबुद्धयोऽरिमित्रोदासीनेषु तुल्यवृत्तयः स्थावरजरायुजाण्डजस्वेदजोद्भिज्जानां भूतानां वाङ्मनःकर्मभिरनभिद्रोहिणोऽनिकेताः पर्वतपुलिनवृक्षमूलदेवतायतनान्यनुचरन्तो वासार्थमुपेयुर्नगरं ग्रामं वा नगरे पञ्चरात्रिका ग्रामैकरात्रिकाः
प्रविश्य च प्राणधारणमात्रार्थं द्विजातीनां भवनान्यसंकीर्णकर्मणामुपतिष्ठेयुः पात्रपतितायाचितभैक्षाः कामक्रोधदर्पमोहलोभकार्पण्यदम्भपरिवादाभिमानहिंसानिवृत्ता इति
MBh 12.185.4
भवति चात्र श्लोकः
अभयं सर्वभूतेभ्यो दत्त्वा चरति यो मुनिः
न तस्य सर्वभूतेभ्यो भयमुत्पद्यते क्वचित्
MBh 12.185.5
कृत्वाग्निहोत्रं स्वशरीरसंस्थं; शारीरमग्निं स्वमुखे जुहोति
यो भैक्षचर्योपगतैर्हविर्भि;श्चिताग्निनां स व्यतियाति लोकान्
MBh 12.185.6
मोक्षाश्रमं यः कुरुते यथोक्तं; शुचिः सुसंकल्पितबुद्धियुक्तः
अनिन्धनं ज्योतिरिव प्रशान्तं; स ब्रह्मलोकं श्रयते द्विजातिः
MBh 12.185.7
भरद्वाज उवाच
अस्माल्लोकात्परो लोकः श्रूयते नोपलभ्यते
तमहं ज्ञातुमिच्छामि तद्भवान्वक्तुमर्हति
MBh 12.185.8
भृगुरुवाच
उत्तरे हिमवत्पार्श्वे पुण्ये सर्वगुणान्विते
पुण्यः क्षेम्यश्च काम्यश्च स वरो लोक उच्यते
MBh 12.185.9
तत्र ह्यपापकर्माणः शुचयोऽत्यन्तनिर्मलाः
लोभमोहपरित्यक्ता मानवा निरुपद्रवाः
MBh 12.185.10
स स्वर्गसदृशो देशस्तत्र ह्युक्ताः शुभा गुणाः
काले मृत्युः प्रभवति स्पृशन्ति व्याधयो न च
MBh 12.185.11
न लोभः परदारेषु स्वदारनिरतो जनः
न चान्योन्यवधस्तत्र द्रव्येषु न च विस्मयः
परोक्षधर्मो नैवास्ति संदेहो नापि जायते
MBh 12.185.12
कृतस्य तु फलं तत्र प्रत्यक्षमुपलभ्यते
शय्यायानासनोपेताः प्रासादभवनाश्रयाः
सर्वकामैर्वृताः केचिद्धेमाभरणभूषिताः
MBh 12.185.13
प्राणधारणमात्रं तु केषांचिदुपपद्यते
श्रमेण महता केचित्कुर्वन्ति प्राणधारणम्
MBh 12.185.14
इह धर्मपराः केचित्केचिन्नैकृतिका नराः
सुखिता दुःखिताः केचिन्निर्धना धनिनोऽपरे
MBh 12.185.15
इह श्रमो भयं मोहः क्षुधा तीव्रा च जायते
लोभश्चार्थकृतो नॄणां येन मुह्यन्ति पण्डिताः
MBh 12.185.16
इह चिन्ता बहुविधा धर्माधर्मस्य कर्मणः
यस्तद्वेदोभयं प्राज्ञः पाप्मना न स लिप्यते
MBh 12.185.17
सोपधं निकृतिः स्तेयं परिवादोऽभ्यसूयता
परोपघातो हिंसा च पैशुन्यमनृतं तथा
MBh 12.185.18
एतानासेवते यस्तु तपस्तस्य प्रहीयते
यस्त्वेतान्नाचरेद्विद्वांस्तपस्तस्याभिवर्धते
MBh 12.185.19
कर्मभूमिरियं लोक इह कृत्वा शुभाशुभम्
शुभैः शुभमवाप्नोति कृत्वाशुभमतोऽन्यथा
MBh 12.185.20
इह प्रजापतिः पूर्वं देवाः सर्षिगणास्तथा
इष्ट्वेष्टतपसः पूता ब्रह्मलोकमुपाश्रिताः
MBh 12.185.21
उत्तरः पृथिवीभागः सर्वपुण्यतमः शुभः
इहत्यास्तत्र जायन्ते ये वै पुण्यकृतो जनाः
MBh 12.185.22
असत्कर्माणि कुर्वन्तस्तिर्यग्योनिषु चापरे
क्षीणायुषस्तथैवान्ये नश्यन्ति पृथिवीतले
MBh 12.185.23
अन्योन्यभक्षणे सक्ता लोभमोहसमन्विताः
इहैव परिवर्तन्ते न ते यान्त्युत्तरां दिशम्
MBh 12.185.24
ये गुरूनुपसेवन्ते नियता ब्रह्मचारिणः
पन्थानं सर्वलोकानां ते जानन्ति मनीषिणः
MBh 12.185.25
इत्युक्तोऽयं मया धर्मः संक्षेपाद्ब्रह्मनिर्मितः
धर्माधर्मौ हि लोकस्य यो वै वेत्ति स बुद्धिमान्
MBh 12.185.26
भीष्म उवाच
इत्युक्तो भृगुणा राजन्भरद्वाजः प्रतापवान्
भृगुं परमधर्मात्मा विस्मितः प्रत्यपूजयत्
MBh 12.185.27
एष ते प्रभवो राजञ्जगतः संप्रकीर्तितः
निखिलेन महाप्राज्ञ किं भूयः श्रोतुमिच्छसि
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 184
- Next chapter · Śānti-Parva Ch 186 →
Sources and Connected Readings
Continue from these 27 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.185local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷