🪷 Mahābhārata · Śānti-Parva · Chapter 183

The Book of Peace · the great dharma-śāstra · Parva 12 · 16 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 16 Shlokas

MBh 12.183.1
भृगुरुवाच सत्यं ब्रह्म तपः सत्यं सत्यं सृजति च प्रजाः सत्येन धार्यते लोकः स्वर्गं सत्येन गच्छति
MBh 12.183.2
अनृतं तमसो रूपं तमसा नीयते ह्यधः तमोग्रस्ता न पश्यन्ति प्रकाशं तमसावृतम्
MBh 12.183.3
स्वर्गः प्रकाश इत्याहुर्नरकं तम एव च सत्यानृतात्तदुभयं प्राप्यते जगतीचरैः
MBh 12.183.4
तत्र त्वेवंविधा वृत्तिर्लोके सत्यानृता भवेत् धर्माधर्मौ प्रकाशश्च तमो दुःखं सुखं तथा
MBh 12.183.5
तत्र यत्सत्यं स धर्मो यो धर्मः स प्रकाशो यः प्रकाशस्तत्सुखमिति तत्र यदनृतं सोऽधर्मो योऽधर्मस्तत्तमो यत्तमस्तद्दुःखमिति
MBh 12.183.6
अत्रोच्यते शारीरैर्मानसैर्दुःखैः सुखैश्चाप्यसुखोदयैः लोकसृष्टिं प्रपश्यन्तो न मुह्यन्ति विचक्षणाः
MBh 12.183.7
तत्र दुःखविमोक्षार्थं प्रयतेत विचक्षणः सुखं ह्यनित्यं भूतानामिह लोके परत्र च
MBh 12.183.8
राहुग्रस्तस्य सोमस्य यथा ज्योत्स्ना न भासते तथा तमोभिभूतानां भूतानां भ्रश्यते सुखम्
MBh 12.183.9
तत्खलु द्विविधं सुखमुच्यते शारीरं मानसं च इह खल्वमुष्मिंश्च लोके सर्वारम्भप्रवृत्तयः सुखार्था अभिधीयन्ते न ह्यतस्त्रिवर्गफलं विशिष्टतरमस्ति स एष काम्यो गुणविशेषो धर्मार्थयोरारम्भस्तद्धेतुरस्योत्पत्तिः सुखप्रयोजना
MBh 12.183.10
भरद्वाज उवाच यदेतद्भवताभिहितं सुखानां परमाः स्त्रिय इति तन्न गृह्णीमः न ह्येषामृषीणां महति स्थितानामप्राप्य एष गुणविशेषो न चैनमभिलषन्ति श्रूयते च भगवांस्त्रिलोककृद्ब्रह्मा प्रभुरेकाकी तिष्ठति ब्रह्मचारी न कामसुखेष्वात्मानमवदधाति अपि च भगवान्विश्वेश्वर उमापतिः काममभिवर्तमानमनङ्गत्वेन शममनयत् तस्माद्ब्रूमो न महात्मभिरयं प्रतिगृहीतो न त्वेष तावद्विशिष्टो गुण इति नैतद्भगवतः प्रत्येमि भगवता तूक्तं सुखानां परमाः स्त्रिय इति लोकप्रवादोऽपि च भवति द्विविधः फलोदयः सुकृतात्सुखमवाप्यते दुष्कृताद्दुःखमिति अत्रोच्यताम्
MBh 12.183.11
भृगुरुवाच अनृतात्खलु तमः प्रादुर्भूतं तमोग्रस्ता अधर्ममेवानुवर्तन्ते न धर्मम् क्रोधलोभमोहमानानृतादिभिरवच्छन्ना न खल्वस्मिँल्लोके न चामुत्र सुखमाप्नुवन्ति विविधव्याधिगणोपतापैरवकीर्यन्ते वधबन्धरोगपरिक्लेशादिभिश्च क्षुत्पिपासाश्रमकृतैरुपतापैरुपतप्यन्ते चण्डवातात्युष्णातिशीतकृतैश्च प्रतिभयैः शारीरैर्दुःखैरुपतप्यन्ते बन्धुधनविनाशविप्रयोगकृतैश्च मानसैः शोकैरभिभूयन्ते जरामृत्युकृतैश्चान्यैरिति
MBh 12.183.12
यस्त्वेतैः शारीरैर्मानसैर्दुःखैर्न स्पृश्यते स सुखं वेद न चैते दोषाः स्वर्गे प्रादुर्भवन्ति तत्र भवति खलु
MBh 12.183.13
सुसुखः पवनः स्वर्गे गन्धश्च सुरभिस्तथा क्षुत्पिपासाश्रमो नास्ति न जरा न च पापकम्
MBh 12.183.14
नित्यमेव सुखं स्वर्गे सुखं दुःखमिहोभयम् नरके दुःखमेवाहुः समं तु परमं पदम्
MBh 12.183.15
पृथिवी सर्वभूतानां जनित्री तद्विधाः स्त्रियः पुमान्प्रजापतिस्तत्र शुक्रं तेजोमयं विदुः
MBh 12.183.16
इत्येतल्लोकनिर्माणं ब्रह्मणा विहितं पुरा प्रजा विपरिवर्तन्ते स्वैः स्वैः कर्मभिरावृताः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 16 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.183local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷