🪷 Mahābhārata · Śānti-Parva · Chapter 182

The Book of Peace · the great dharma-śāstra · Parva 12 · 17 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 17 Shlokas

MBh 12.182.1
भरद्वाज उवाच ब्राह्मणः केन भवति क्षत्रियो वा द्विजोत्तम वैश्यः शूद्रश्च विप्रर्षे तद्ब्रूहि वदतां वर
MBh 12.182.2
भृगुरुवाच जातकर्मादिभिर्यस्तु संस्कारैः संस्कृतः शुचिः वेदाध्ययनसंपन्नः षट्सु कर्मस्ववस्थितः
MBh 12.182.3
शौचाचारस्थितः सम्यग्विघसाशी गुरुप्रियः नित्यव्रती सत्यपरः स वै ब्राह्मण उच्यते
MBh 12.182.4
सत्यं दानं दमोऽद्रोह आनृशंस्यं क्षमा घृणा तपश्च दृश्यते यत्र स ब्राह्मण इति स्मृतः
MBh 12.182.5
क्षत्रजं सेवते कर्म वेदाध्ययनसंमतः दानादानरतिर्यश्च स वै क्षत्रिय उच्यते
MBh 12.182.6
कृषिगोरक्ष्यवाणिज्यं यो विशत्यनिशं शुचिः वेदाध्ययनसंपन्नः स वैश्य इति संज्ञितः
MBh 12.182.7
सर्वभक्षरतिर्नित्यं सर्वकर्मकरोऽशुचिः त्यक्तवेदस्त्वनाचारः स वै शूद्र इति स्मृतः
MBh 12.182.8
शूद्रे चैतद्भवेल्लक्ष्यं द्विजे चैतन्न विद्यते न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः
MBh 12.182.9
सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः एतत्पवित्रं ज्ञातव्यं तथा चैवात्मसंयमः
MBh 12.182.10
नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेत मत्सरात् विद्यां मानावमानाभ्यामात्मानं तु प्रमादतः
MBh 12.182.11
यस्य सर्वे समारम्भा निराशीर्बन्धनास्त्विह त्यागे यस्य हुतं सर्वं स त्यागी स च बुद्धिमान्
MBh 12.182.12
अहिंस्रः सर्वभूतानां मैत्रायणगतश्चरेत् अविस्रम्भे न गन्तव्यं विस्रम्भे धारयेन्मनः
MBh 12.182.13
परिग्रहान्परित्यज्य भवेद्बुद्ध्या जितेन्द्रियः अशोकं स्थानमातिष्ठेदिह चामुत्र चाभयम्
MBh 12.182.14
तपोनित्येन दान्तेन मुनिना संयतात्मना अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना
MBh 12.182.15
इन्द्रियैर्गृह्यते यद्यत्तत्तद्व्यक्तमिति स्थितिः अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम्
MBh 12.182.16
मनः प्राणे निगृह्णीयात्प्राणं ब्रह्मणि धारयेत् निर्वाणादेव निर्वाणो न च किंचिद्विचिन्तयेत् सुखं वै ब्राह्मणो ब्रह्म स वै तेनाधिगच्छति
MBh 12.182.17
शौचेन सततं युक्तस्तथाचारसमन्वितः सानुक्रोशश्च भूतेषु तद्द्विजातिषु लक्षणम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 17 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.182local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷