🪷 Mahābhārata · Śānti-Parva · Chapter 181
The Book of Peace · the great dharma-śāstra · Parva 12 · 20 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 20 Shlokas
MBh 12.181.1
भृगुरुवाच
असृजद्ब्राह्मणानेव पूर्वं ब्रह्मा प्रजापतिः
आत्मतेजोभिनिर्वृत्तान्भास्कराग्निसमप्रभान्
MBh 12.181.2
ततः सत्यं च धर्मं च तपो ब्रह्म च शाश्वतम्
आचारं चैव शौचं च स्वर्गाय विदधे प्रभुः
MBh 12.181.3
देवदानवगन्धर्वदैत्यासुरमहोरगाः
यक्षराक्षसनागाश्च पिशाचा मनुजास्तथा
MBh 12.181.4
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च द्विजसत्तम
ये चान्ये भूतसंघानां संघास्तांश्चापि निर्ममे
MBh 12.181.5
ब्राह्मणानां सितो वर्णः क्षत्रियाणां तु लोहितः
वैश्यानां पीतको वर्णः शूद्राणामसितस्तथा
MBh 12.181.6
भरद्वाज उवाच
चातुर्वर्ण्यस्य वर्णेन यदि वर्णो विभज्यते
सर्वेषां खलु वर्णानां दृश्यते वर्णसंकरः
MBh 12.181.7
कामः क्रोधो भयं लोभः शोकश्चिन्ता क्षुधा श्रमः
सर्वेषां नः प्रभवति कस्माद्वर्णो विभज्यते
MBh 12.181.8
स्वेदमूत्रपुरीषाणि श्लेष्मा पित्तं सशोणितम्
तनुः क्षरति सर्वेषां कस्माद्वर्णो विभज्यते
MBh 12.181.9
जङ्गमानामसंख्येयाः स्थावराणां च जातयः
तेषां विविधवर्णानां कुतो वर्णविनिश्चयः
MBh 12.181.10
भृगुरुवाच
न विशेषोऽस्ति वर्णानां सर्वं ब्राह्ममिदं जगत्
ब्रह्मणा पूर्वसृष्टं हि कर्मभिर्वर्णतां गतम्
MBh 12.181.11
कामभोगप्रियास्तीक्ष्णाः क्रोधनाः प्रियसाहसाः
त्यक्तस्वधर्मा रक्ताङ्गास्ते द्विजाः क्षत्रतां गताः
MBh 12.181.12
गोषु वृत्तिं समाधाय पीताः कृष्युपजीविनः
स्वधर्मं नानुतिष्ठन्ति ते द्विजा वैश्यतां गताः
MBh 12.181.13
हिंसानृतप्रिया लुब्धाः सर्वकर्मोपजीविनः
कृष्णाः शौचपरिभ्रष्टास्ते द्विजाः शूद्रतां गताः
MBh 12.181.14
इत्येतैः कर्मभिर्व्यस्ता द्विजा वर्णान्तरं गताः
धर्मो यज्ञक्रिया चैषां नित्यं न प्रतिषिध्यते
MBh 12.181.15
वर्णाश्चत्वार एते हि येषां ब्राह्मी सरस्वती
विहिता ब्रह्मणा पूर्वं लोभात्त्वज्ञानतां गताः
MBh 12.181.16
ब्राह्मणा धर्मतन्त्रस्थास्तपस्तेषां न नश्यति
ब्रह्म धारयतां नित्यं व्रतानि नियमांस्तथा
MBh 12.181.17
ब्रह्म चैतत्पुरा सृष्टं ये न जानन्त्यतद्विदः
तेषां बहुविधास्त्वन्यास्तत्र तत्र हि जातयः
MBh 12.181.18
पिशाचा राक्षसाः प्रेता बहुधा म्लेच्छजातयः
प्रनष्टज्ञानविज्ञानाः स्वच्छन्दाचारचेष्टिताः
MBh 12.181.19
प्रजा ब्राह्मणसंस्काराः स्वधर्मकृतनिश्चयाः
ऋषिभिः स्वेन तपसा सृज्यन्ते चापरे परैः
MBh 12.181.20
आदिदेवसमुद्भूता ब्रह्ममूलाक्षयाव्यया
सा सृष्टिर्मानसी नाम धर्मतन्त्रपरायणा
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 180
- Next chapter · Śānti-Parva Ch 182 →
Sources and Connected Readings
Continue from these 20 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.181local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷