🪷 Mahābhārata · Śānti-Parva · Chapter 180

The Book of Peace · the great dharma-śāstra · Parva 12 · 30 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 30 Shlokas

MBh 12.180.1
भृगुरुवाच न प्रणाशोऽस्ति जीवानां दत्तस्य च कृतस्य च याति देहान्तरं प्राणी शरीरं तु विशीर्यते
MBh 12.180.2
न शरीराश्रितो जीवस्तस्मिन्नष्टे प्रणश्यति यथा समित्सु दग्धासु न प्रणश्यति पावकः
MBh 12.180.3
भरद्वाज उवाच अग्नेर्यथा तथा तस्य यदि नाशो न विद्यते इन्धनस्योपयोगान्ते स चाग्निर्नोपलभ्यते
MBh 12.180.4
नश्यतीत्येव जानामि शान्तमग्निमनिन्धनम् गतिर्यस्य प्रमाणं वा संस्थानं वा न दृश्यते
MBh 12.180.5
भृगुरुवाच समिधामुपयोगान्ते सन्नेवाग्निर्न दृश्यते आकाशानुगतत्वाद्धि दुर्ग्रहः स निराश्रयः
MBh 12.180.6
तथा शरीरसंत्यागे जीवो ह्याकाशवत्स्थितः न गृह्यते सुसूक्ष्मत्वाद्यथा ज्योतिर्न संशयः
MBh 12.180.7
प्राणान्धारयते ह्यग्निः स जीव उपधार्यताम् वायुसंधारणो ह्यग्निर्नश्यत्युच्छ्वासनिग्रहात्
MBh 12.180.8
तस्मिन्नष्टे शरीराग्नौ शरीरं तदचेतनम् पतितं याति भूमित्वमयनं तस्य हि क्षितिः
MBh 12.180.9
जङ्गमानां हि सर्वेषां स्थावराणां तथैव च आकाशं पवनोऽभ्येति ज्योतिस्तमनुगच्छति तत्र त्रयाणामेकत्वं द्वयं भूमौ प्रतिष्ठितम्
MBh 12.180.10
यत्र खं तत्र पवनस्तत्राग्निर्यत्र मारुतः अमूर्तयस्ते विज्ञेया आपो मूर्तास्तथा क्षितिः
MBh 12.180.11
भरद्वाज उवाच यद्यग्निमारुतौ भूमिः खमापश्च शरीरिषु जीवः किंलक्षणस्तत्रेत्येतदाचक्ष्व मेऽनघ
MBh 12.180.12
पञ्चात्मके पञ्चरतौ पञ्चविज्ञानसंयुते शरीरे प्राणिनां जीवं ज्ञातुमिच्छामि यादृशम्
MBh 12.180.13
मांसशोणितसंघाते मेदःस्नाय्वस्थिसंचये भिद्यमाने शरीरे तु जीवो नैवोपलभ्यते
MBh 12.180.14
यद्यजीवं शरीरं तु पञ्चभूतसमन्वितम् शारीरे मानसे दुःखे कस्तां वेदयते रुजम्
MBh 12.180.15
शृणोति कथितं जीवः कर्णाभ्यां न शृणोति तत् महर्षे मनसि व्यग्रे तस्माज्जीवो निरर्थकः
MBh 12.180.16
सर्वं पश्यति यद्दृश्यं मनोयुक्तेन चक्षुषा मनसि व्याकुले तद्धि पश्यन्नपि न पश्यति
MBh 12.180.17
न पश्यति न च ब्रूते न शृणोति न जिघ्रति न च स्पर्शरसौ वेत्ति निद्रावशगतः पुनः
MBh 12.180.18
हृष्यति क्रुध्यति च कः शोचत्युद्विजते च कः इच्छति ध्यायति द्वेष्टि वाचमीरयते च कः
MBh 12.180.19
भृगुरुवाच न पञ्चसाधारणमत्र किंचि;च्छरीरमेको वहतेऽन्तरात्मा स वेत्ति गन्धांश्च रसाञ्श्रुतिं च; स्पर्शं च रूपं च गुणाश्च येऽन्ये
MBh 12.180.20
पञ्चात्मके पञ्चगुणप्रदर्शी; स सर्वगात्रानुगतोऽन्तरात्मा स वेत्ति दुःखानि सुखानि चात्र; तद्विप्रयोगात्तु न वेत्ति देहः
MBh 12.180.21
यदा न रूपं न स्पर्शो नोष्मभावश्च पावके तदा शान्ते शरीराग्नौ देहं त्यक्त्वा स नश्यति
MBh 12.180.22
अम्मयं सर्वमेवेदमापो मूर्तिः शरीरिणाम् तत्रात्मा मानसो ब्रह्मा सर्वभूतेषु लोककृत्
MBh 12.180.23
आत्मानं तं विजानीहि सर्वलोकहितात्मकम् तस्मिन्यः संश्रितो देहे ह्यब्बिन्दुरिव पुष्करे
MBh 12.180.24
क्षेत्रज्ञं तं विजानीहि नित्यं लोकहितात्मकम् तमो रजश्च सत्त्वं च विद्धि जीवगुणानिमान्
MBh 12.180.25
सचेतनं जीवगुणं वदन्ति; स चेष्टते चेष्टयते च सर्वम् ततः परं क्षेत्रविदं वदन्ति; प्रावर्तयद्यो भुवनानि सप्त
MBh 12.180.26
न जीवनाशोऽस्ति हि देहभेदे; मिथ्यैतदाहुर्मृत इत्यबुद्धाः जीवस्तु देहान्तरितः प्रयाति; दशार्धतैवास्य शरीरभेदः
MBh 12.180.27
एवं सर्वेषु भूतेषु गूढश्चरति संवृतः दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया तत्त्वदर्शिभिः
MBh 12.180.28
तं पूर्वापररात्रेषु युञ्जानः सततं बुधः लघ्वाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि
MBh 12.180.29
चित्तस्य हि प्रसादेन हित्वा कर्म शुभाशुभम् प्रसन्नात्मात्मनि स्थित्वा सुखमक्षयमश्नुते
MBh 12.180.30
मानसोऽग्निः शरीरेषु जीव इत्यभिधीयते सृष्टिः प्रजापतेरेषा भूताध्यात्मविनिश्चये

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 30 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.180local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷