🪷 Mahābhārata · Śānti-Parva · Chapter 174

The Book of Peace · the great dharma-śāstra · Parva 12 · 20 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 20 Shlokas

MBh 12.174.1
युधिष्ठिर उवाच यद्यस्ति दत्तमिष्टं वा तपस्तप्तं तथैव च गुरूणां चापि शुश्रूषा तन्मे ब्रूहि पितामह
MBh 12.174.2
भीष्म उवाच आत्मनानर्थयुक्तेन पापे निविशते मनः स कर्म कलुषं कृत्वा क्लेशे महति धीयते
MBh 12.174.3
दुर्भिक्षादेव दुर्भिक्षं क्लेशात्क्लेशं भयाद्भयम् मृतेभ्यः प्रमृतं यान्ति दरिद्राः पापकारिणः
MBh 12.174.4
उत्सवादुत्सवं यान्ति स्वर्गात्स्वर्गं सुखात्सुखम् श्रद्दधानाश्च दान्ताश्च धनाढ्याः शुभकारिणः
MBh 12.174.5
व्यालकुञ्जरदुर्गेषु सर्पचोरभयेषु च हस्तावापेन गच्छन्ति नास्तिकाः किमतः परम्
MBh 12.174.6
प्रियदेवातिथेयाश्च वदान्याः प्रियसाधवः क्षेम्यमात्मवतां मार्गमास्थिता हस्तदक्षिणम्
MBh 12.174.7
पुलाका इव धान्येषु पुत्तिका इव पक्षिषु तद्विधास्ते मनुष्येषु येषां धर्मो न कारणम्
MBh 12.174.8
सुशीघ्रमपि धावन्तं विधानमनुधावति शेते सह शयानेन येन येन यथा कृतम्
MBh 12.174.9
उपतिष्ठति तिष्ठन्तं गच्छन्तमनुगच्छति करोति कुर्वतः कर्म छायेवानुविधीयते
MBh 12.174.10
येन येन यथा यद्यत्पुरा कर्म समाचितम् तत्तदेव नरो भुङ्क्ते नित्यं विहितमात्मना
MBh 12.174.11
स्वकर्मफलविक्षिप्तं विधानपरिरक्षितम् भूतग्राममिमं कालः समन्तात्परिकर्षति
MBh 12.174.12
अचोद्यमानानि यथा पुष्पाणि च फलानि च स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम्
MBh 12.174.13
संमानश्चावमानश्च लाभालाभौ क्षयोदयौ प्रवृत्ता विनिवर्तन्ते विधानान्ते पुनः पुनः
MBh 12.174.14
आत्मना विहितं दुःखमात्मना विहितं सुखम् गर्भशय्यामुपादाय भुज्यते पौर्वदेहिकम्
MBh 12.174.15
बालो युवा च वृद्धश्च यत्करोति शुभाशुभम् तस्यां तस्यामवस्थायां भुङ्क्ते जन्मनि जन्मनि
MBh 12.174.16
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् तथा पूर्वकृतं कर्म कर्तारमनुगच्छति
MBh 12.174.17
समुन्नमग्रतो वस्त्रं पश्चाच्छुध्यति कर्मणा उपवासैः प्रतप्तानां दीर्घं सुखमनन्तकम्
MBh 12.174.18
दीर्घकालेन तपसा सेवितेन तपोवने धर्मनिर्धूतपापानां संसिध्यन्ते मनोरथाः
MBh 12.174.19
शकुनीनामिवाकाशे मत्स्यानामिव चोदके पदं यथा न दृश्येत तथा ज्ञानविदां गतिः
MBh 12.174.20
अलमन्यैरुपालम्भैः कीर्तितैश्च व्यतिक्रमैः पेशलं चानुरूपं च कर्तव्यं हितमात्मनः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 20 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.174local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷