🪷 Mahābhārata · Śānti-Parva · Chapter 173

The Book of Peace · the great dharma-śāstra · Parva 12 · 52 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 52 Shlokas

MBh 12.173.1
युधिष्ठिर उवाच बान्धवाः कर्म वित्तं वा प्रज्ञा वेह पितामह नरस्य का प्रतिष्ठा स्यादेतत्पृष्टो वदस्व मे
MBh 12.173.2
भीष्म उवाच प्रज्ञा प्रतिष्ठा भूतानां प्रज्ञा लाभः परो मतः प्रज्ञा नैःश्रेयसी लोके प्रज्ञा स्वर्गो मतः सताम्
MBh 12.173.3
प्रज्ञया प्रापितार्थो हि बलिरैश्वर्यसंक्षये प्रह्रादो नमुचिर्मङ्किस्तस्याः किं विद्यते परम्
MBh 12.173.4
अत्राप्युदाहरन्तीममितिहासं पुरातनम् इन्द्रकाश्यपसंवादं तन्निबोध युधिष्ठिर
MBh 12.173.5
वैश्यः कश्चिदृषिं तात काश्यपं संशितव्रतम् रथेन पातयामास श्रीमान्दृप्तस्तपस्विनम्
MBh 12.173.6
आर्तः स पतितः क्रुद्धस्त्यक्त्वात्मानमथाब्रवीत् मरिष्याम्यधनस्येह जीवितार्थो न विद्यते
MBh 12.173.7
तथा मुमूर्षुमासीनमकूजन्तमचेतसम् इन्द्रः सृगालरूपेण बभाषे क्रुद्धमानसम्
MBh 12.173.8
मनुष्ययोनिमिच्छन्ति सर्वभूतानि सर्वशः मनुष्यत्वे च विप्रत्वं सर्व एवाभिनन्दति
MBh 12.173.9
मनुष्यो ब्राह्मणश्चासि श्रोत्रियश्चासि काश्यप सुदुर्लभमवाप्यैतददोषान्मर्तुमिच्छसि
MBh 12.173.10
सर्वे लाभाः साभिमाना इति सत्या बत श्रुतिः संतोषणीयरूपोऽसि लोभाद्यदभिमन्यसे
MBh 12.173.11
अहो सिद्धार्थता तेषां येषां सन्तीह पाणयः पाणिमद्भ्यः स्पृहास्माकं यथा तव धनस्य वै
MBh 12.173.12
न पाणिलाभादधिको लाभः कश्चन विद्यते अपाणित्वाद्वयं ब्रह्मन्कण्टकान्नोद्धरामहे
MBh 12.173.13
अथ येषां पुनः पाणी देवदत्तौ दशाङ्गुली उद्धरन्ति कृमीनङ्गाद्दशमानान्कषन्ति च
MBh 12.173.14
हिमवर्षातपानां च परित्राणानि कुर्वते चेलमन्नं सुखं शय्यां निवातं चोपभुञ्जते
MBh 12.173.15
अधिष्ठाय च गां लोके भुञ्जते वाहयन्ति च उपायैर्बहुभिश्चैव वश्यानात्मनि कुर्वते
MBh 12.173.16
ये खल्वजिह्वाः कृपणा अल्पप्राणा अपाणयः सहन्ते तानि दुःखानि दिष्ट्या त्वं न तथा मुने
MBh 12.173.17
दिष्ट्या त्वं न सृगालो वै न कृमिर्न च मूषकः न सर्पो न च मण्डूको न चान्यः पापयोनिजः
MBh 12.173.18
एतावतापि लाभेन तोष्टुमर्हसि काश्यप किं पुनर्योऽसि सत्त्वानां सर्वेषां ब्राह्मणोत्तमः
MBh 12.173.19
इमे मां कृमयोऽदन्ति तेषामुद्धरणाय मे नास्ति शक्तिरपाणित्वात्पश्यावस्थामिमां मम
MBh 12.173.20
अकार्यमिति चैवेमं नात्मानं संत्यजाम्यहम् नेतः पापीयसीं योनिं पतेयमपरामिति
MBh 12.173.21
मध्ये वै पापयोनीनां सार्गाली यामहं गतः पापीयस्यो बहुतरा इतोऽन्याः पापयोनयः
MBh 12.173.22
जात्यैवैके सुखतराः सन्त्यन्ये भृशदुःखिताः नैकान्तसुखमेवेह क्वचित्पश्यामि कस्यचित्
MBh 12.173.23
मनुष्या ह्याढ्यतां प्राप्य राज्यमिच्छन्त्यनन्तरम् राज्याद्देवत्वमिच्छन्ति देवत्वादिन्द्रतामपि
MBh 12.173.24
भवेस्त्वं यद्यपि त्वाढ्यो न राजा न च दैवतम् देवत्वं प्राप्य चेन्द्रत्वं नैव तुष्येस्तथा सति
MBh 12.173.25
न तृप्तिः प्रियलाभेऽस्ति तृष्णा नाद्भिः प्रशाम्यति संप्रज्वलति सा भूयः समिद्भिरिव पावकः
MBh 12.173.26
अस्त्येव त्वयि शोको वै हर्षश्चास्ति तथा त्वयि सुखदुःखे तथा चोभे तत्र का परिदेवना
MBh 12.173.27
परिच्छिद्यैव कामानां सर्वेषां चैव कर्मणाम् मूलं रुन्धीन्द्रियग्रामं शकुन्तानिव पञ्जरे
MBh 12.173.28
न खल्वप्यरसज्ञस्य कामः क्वचन जायते संस्पर्शाद्दर्शनाद्वापि श्रवणाद्वापि जायते
MBh 12.173.29
न त्वं स्मरसि वारुण्या लट्वाकानां च पक्षिणाम् ताभ्यां चाभ्यधिको भक्ष्यो न कश्चिद्विद्यते क्वचित्
MBh 12.173.30
यानि चान्यानि दूरेषु भक्ष्यभोज्यानि काश्यप येषामभुक्तपूर्वं ते तेषामस्मृतिरेव च
MBh 12.173.31
अप्राशनमसंस्पर्शमसंदर्शनमेव च पुरुषस्यैष नियमो मन्ये श्रेयो न संशयः
MBh 12.173.32
पाणिमन्तो धनैर्युक्ता बलवन्तो न संशयः मनुष्या मानुषैरेव दासत्वमुपपादिताः
MBh 12.173.33
वधबन्धपरिक्लेशैः क्लिश्यन्ते च पुनः पुनः ते खल्वपि रमन्ते च मोदन्ते च हसन्ति च
MBh 12.173.34
अपरे बाहुबलिनः कृतविद्या मनस्विनः जुगुप्सितां सुकृपणां पापां वृत्तिमुपासते
MBh 12.173.35
उत्सहन्ते च ते वृत्तिमन्यामप्युपसेवितुम् स्वकर्मणा तु नियतं भवितव्यं तु तत्तथा
MBh 12.173.36
न पुल्कसो न चण्डाल आत्मानं त्यक्तुमिच्छति असंतुष्टः स्वया योन्या मायां पश्यस्व यादृशीम्
MBh 12.173.37
दृष्ट्वा कुणीन्पक्षहतान्मनुष्यानामयाविनः सुसंपूर्णः स्वया योन्या लब्धलाभोऽसि काश्यप
MBh 12.173.38
यदि ब्राह्मण देहस्ते निरातङ्को निरामयः अङ्गानि च समग्राणि न च लोकेषु धिक्कृतः
MBh 12.173.39
न केनचित्प्रवादेन सत्येनैवापहारिणा धर्मायोत्तिष्ठ विप्रर्षे नात्मानं त्यक्तुमर्हसि
MBh 12.173.40
यदि ब्रह्मञ्शृणोष्येतच्छ्रद्दधासि च मे वचः वेदोक्तस्य च धर्मस्य फलं मुख्यमवाप्स्यसि
MBh 12.173.41
स्वाध्यायमग्निसंस्कारमप्रमत्तोऽनुपालय सत्यं दमं च दानं च स्पर्धिष्ठा मा च केनचित्
MBh 12.173.42
ये केचन स्वध्ययनाः प्राप्ता यजनयाजनम् कथं ते जातु शोचेयुर्ध्यायेयुर्वाप्यशोभनम्
MBh 12.173.43
इच्छन्तस्ते विहाराय सुखं महदवाप्नुयुः उत जाताः सुनक्षत्रे सुतीर्थाः सुमुहूर्तजाः
MBh 12.173.44
नक्षत्रेष्वासुरेष्वन्ये दुस्तीर्था दुर्मुहूर्तजाः संपतन्त्यासुरीं योनिं यज्ञप्रसववर्जिताम्
MBh 12.173.45
अहमासं पण्डितको हैतुको वेदनिन्दकः आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकाम्
MBh 12.173.46
हेतुवादान्प्रवदिता वक्ता संसत्सु हेतुमत् आक्रोष्टा चाभिवक्ता च ब्रह्मयज्ञेषु वै द्विजान्
MBh 12.173.47
नास्तिकः सर्वशङ्की च मूर्खः पण्डितमानिकः तस्येयं फलनिर्वृत्तिः सृगालत्वं मम द्विज
MBh 12.173.48
अपि जातु तथा तत्स्यादहोरात्रशतैरपि यदहं मानुषीं योनिं सृगालः प्राप्नुयां पुनः
MBh 12.173.49
संतुष्टश्चाप्रमत्तश्च यज्ञदानतपोरतिः ज्ञेयज्ञाता भवेयं वै वर्ज्यवर्जयिता तथा
MBh 12.173.50
ततः स मुनिरुत्थाय काश्यपस्तमुवाच ह अहो बतासि कुशलो बुद्धिमानिति विस्मितः
MBh 12.173.51
समवैक्षत तं विप्रो ज्ञानदीर्घेण चक्षुषा ददर्श चैनं देवानामिन्द्रं देवं शचीपतिम्
MBh 12.173.52
ततः संपूजयामास काश्यपो हरिवाहनम् अनुज्ञातश्च तेनाथ प्रविवेश स्वमाश्रमम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 52 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.173local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷