🪷 Mahābhārata · Śānti-Parva · Chapter 172
The Book of Peace · the great dharma-śāstra · Parva 12 · 37 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 37 Shlokas
MBh 12.172.1
युधिष्ठिर उवाच
केन वृत्तेन वृत्तज्ञ वीतशोकश्चरेन्महीम्
किं च कुर्वन्नरो लोके प्राप्नोति परमां गतिम्
MBh 12.172.2
भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
प्रह्रादस्य च संवादं मुनेराजगरस्य च
MBh 12.172.3
चरन्तं ब्राह्मणं कंचित्कल्यचित्तमनामयम्
पप्रच्छ राजन्प्रह्रादो बुद्धिमान्प्राज्ञसंमतः
MBh 12.172.4
स्वस्थः शक्तो मृदुर्दान्तो निर्विवित्सोऽनसूयकः
सुवाग्बहुमतो लोके प्राज्ञश्चरसि बालवत्
MBh 12.172.5
नैव प्रार्थयसे लाभं नालाभेष्वनुशोचसि
नित्यतृप्त इव ब्रह्मन्न किंचिदवमन्यसे
MBh 12.172.6
स्रोतसा ह्रियमाणासु प्रजास्वविमना इव
धर्मकामार्थकार्येषु कूटस्थ इव लक्ष्यसे
MBh 12.172.7
नानुतिष्ठसि धर्मार्थौ न कामे चापि वर्तसे
इन्द्रियार्थाननादृत्य मुक्तश्चरसि साक्षिवत्
MBh 12.172.8
का नु प्रज्ञा श्रुतं वा किं वृत्तिर्वा का नु ते मुने
क्षिप्रमाचक्ष्व मे ब्रह्मञ्श्रेयो यदिह मन्यसे
MBh 12.172.9
अनुयुक्तः स मेधावी लोकधर्मविधानवित्
उवाच श्लक्ष्णया वाचा प्रह्रादमनपार्थया
MBh 12.172.10
पश्यन्प्रह्राद भूतानामुत्पत्तिमनिमित्ततः
ह्रासं वृद्धिं विनाशं च न प्रहृष्ये न च व्यथे
MBh 12.172.11
स्वभावादेव संदृश्य वर्तमानाः प्रवृत्तयः
स्वभावनिरताः सर्वाः परितप्ये न केनचित्
MBh 12.172.12
पश्यन्प्रह्राद संयोगान्विप्रयोगपरायणान्
संचयांश्च विनाशान्तान्न क्वचिद्विदधे मनः
MBh 12.172.13
अन्तवन्ति च भूतानि गुणयुक्तानि पश्यतः
उत्पत्तिनिधनज्ञस्य किं कार्यमवशिष्यते
MBh 12.172.14
जलजानामपि ह्यन्तं पर्यायेणोपलक्षये
महतामपि कायानां सूक्ष्माणां च महोदधौ
MBh 12.172.15
जङ्गमस्थावराणां च भूतानामसुराधिप
पार्थिवानामपि व्यक्तं मृत्युं पश्यामि सर्वशः
MBh 12.172.16
अन्तरिक्षचराणां च दानवोत्तम पक्षिणाम्
उत्तिष्ठति यथाकालं मृत्युर्बलवतामपि
MBh 12.172.17
दिवि संचरमाणानि ह्रस्वानि च महान्ति च
ज्योतींषि च यथाकालं पतमानानि लक्षये
MBh 12.172.18
इति भूतानि संपश्यन्ननुषक्तानि मृत्युना
सर्वसामान्यतो विद्वान्कृतकृत्यः सुखं स्वपे
MBh 12.172.19
सुमहान्तमपि ग्रासं ग्रसे लब्धं यदृच्छया
शये पुनरभुञ्जानो दिवसानि बहून्यपि
MBh 12.172.20
आस्रवत्यपि मामन्नं पुनर्बहुगुणं बहु
पुनरल्पगुणं स्तोकं पुनर्नैवोपपद्यते
MBh 12.172.21
कणान्कदाचित्खादामि पिण्याकमपि च ग्रसे
भक्षये शालिमांसानि भक्षांश्चोच्चावचान्पुनः
MBh 12.172.22
शये कदाचित्पर्यङ्के भूमावपि पुनः शये
प्रासादेऽपि च मे शय्या कदाचिदुपपद्यते
MBh 12.172.23
धारयामि च चीराणि शाणीं क्षौमाजिनानि च
महार्हाणि च वासांसि धारयाम्यहमेकदा
MBh 12.172.24
न संनिपतितं धर्म्यमुपभोगं यदृच्छया
प्रत्याचक्षे न चाप्येनमनुरुध्ये सुदुर्लभम्
MBh 12.172.25
अचलमनिधनं शिवं विशोकं; शुचिमतुलं विदुषां मते निविष्टम्
अनभिमतमसेवितं च मूढै;र्व्रतमिदमाजगरं शुचिश्चरामि
MBh 12.172.26
अचलितमतिरच्युतः स्वधर्मा;त्परिमितसंसरणः परावरज्ञः
विगतभयकषायलोभमोहो; व्रतमिदमाजगरं शुचिश्चरामि
MBh 12.172.27
अनियतफलभक्ष्यभोज्यपेयं; विधिपरिणामविभक्तदेशकालम्
हृदयसुखमसेवितं कदर्यै;र्व्रतमिदमाजगरं शुचिश्चरामि
MBh 12.172.28
इदमिदमिति तृष्णयाभिभूतं; जनमनवाप्तधनं विषीदमानम्
निपुणमनुनिशाम्य तत्त्वबुद्ध्या; व्रतमिदमाजगरं शुचिश्चरामि
MBh 12.172.29
बहुविधमनुदृश्य चार्थहेतोः; कृपणमिहार्यमनार्यमाश्रयन्तम्
उपशमरुचिरात्मवान्प्रशान्तो; व्रतमिदमाजगरं शुचिश्चरामि
MBh 12.172.30
सुखमसुखमनर्थमर्थलाभं; रतिमरतिं मरणं च जीवितं च
विधिनियतमवेक्ष्य तत्त्वतोऽहं; व्रतमिदमाजगरं शुचिश्चरामि
MBh 12.172.31
अपगतभयरागमोहदर्पो; धृतिमतिबुद्धिसमन्वितः प्रशान्तः
उपगतफलभोगिनो निशाम्य; व्रतमिदमाजगरं शुचिश्चरामि
MBh 12.172.32
अनियतशयनासनः प्रकृत्या; दमनियमव्रतसत्यशौचयुक्तः
अपगतफलसंचयः प्रहृष्टो; व्रतमिदमाजगरं शुचिश्चरामि
MBh 12.172.33
अभिगतमसुखार्थमीहनार्थै;रुपगतबुद्धिरवेक्ष्य चात्मसंस्थः
तृषितमनियतं मनो नियन्तुं; व्रतमिदमाजगरं शुचिश्चरामि
MBh 12.172.34
न हृदयमनुरुध्यते मनो वा; प्रियसुखदुर्लभतामनित्यतां च
तदुभयमुपलक्षयन्निवाहं; व्रतमिदमाजगरं शुचिश्चरामि
MBh 12.172.35
बहु कथितमिदं हि बुद्धिमद्भिः; कविभिरभिप्रथयद्भिरात्मकीर्तिम्
इदमिदमिति तत्र तत्र तत्त;त्स्वपरमतैर्गहनं प्रतर्कयद्भिः
MBh 12.172.36
तदहमनुनिशाम्य विप्रयातं; पृथगभिपन्नमिहाबुधैर्मनुष्यैः
अनवसितमनन्तदोषपारं; नृषु विहरामि विनीतरोषतृष्णः
MBh 12.172.37
भीष्म उवाच
अजगरचरितं व्रतं महात्मा; य इह नरोऽनुचरेद्विनीतरागः
अपगतभयमन्युलोभमोहः; स खलु सुखी विहरेदिमं विहारम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 171
- Next chapter · Śānti-Parva Ch 173 →
Sources and Connected Readings
Continue from these 37 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.172local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷