🪷 Mahābhārata · Śānti-Parva · Chapter 171

The Book of Peace · the great dharma-śāstra · Parva 12 · 61 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 61 Shlokas

MBh 12.171.1
युधिष्ठिर उवाच ईहमानः समारम्भान्यदि नासादयेद्धनम् धनतृष्णाभिभूतश्च किं कुर्वन्सुखमाप्नुयात्
MBh 12.171.2
भीष्म उवाच सर्वसाम्यमनायासः सत्यवाक्यं च भारत निर्वेदश्चाविवित्सा च यस्य स्यात्स सुखी नरः
MBh 12.171.3
एतान्येव पदान्याहुः पञ्च वृद्धाः प्रशान्तये एष स्वर्गश्च धर्मश्च सुखं चानुत्तमं सताम्
MBh 12.171.4
अत्राप्युदाहरन्तीममितिहासं पुरातनम् निर्वेदान्मङ्किना गीतं तन्निबोध युधिष्ठिर
MBh 12.171.5
ईहमानो धनं मङ्किर्भग्नेहश्च पुनः पुनः केनचिद्धनशेषेण क्रीतवान्दम्यगोयुगम्
MBh 12.171.6
सुसंबद्धौ तु तौ दम्यौ दमनायाभिनिःसृतौ आसीनमुष्ट्रं मध्येन सहसैवाभ्यधावताम्
MBh 12.171.7
तयोः संप्राप्तयोरुष्ट्रः स्कन्धदेशममर्षणः उत्थायोत्क्षिप्य तौ दम्यौ प्रससार महाजवः
MBh 12.171.8
ह्रियमाणौ तु तौ दम्यौ तेनोष्ट्रेण प्रमाथिना म्रियमाणौ च संप्रेक्ष्य मङ्किस्तत्राब्रवीदिदम्
MBh 12.171.9
न चैवाविहितं शक्यं दक्षेणापीहितुं धनम् युक्तेन श्रद्धया सम्यगीहां समनुतिष्ठता
MBh 12.171.10
कृतस्य पूर्वं चानर्थैर्युक्तस्याप्यनुतिष्ठतः इमं पश्यत संगत्या मम दैवमुपप्लवम्
MBh 12.171.11
उद्यम्योद्यम्य मे दम्यौ विषमेणेव गच्छति उत्क्षिप्य काकतालीयमुन्माथेनेव जम्बुकः
MBh 12.171.12
मणी वोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम शुद्धं हि दैवमेवेदमतो नैवास्ति पौरुषम्
MBh 12.171.13
यदि वाप्युपपद्येत पौरुषं नाम कर्हिचित् अन्विष्यमाणं तदपि दैवमेवावतिष्ठते
MBh 12.171.14
तस्मान्निर्वेद एवेह गन्तव्यः सुखमीप्सता सुखं स्वपिति निर्विण्णो निराशश्चार्थसाधने
MBh 12.171.15
अहो सम्यक्शुकेनोक्तं सर्वतः परिमुच्यता प्रतिष्ठता महारण्यं जनकस्य निवेशनात्
MBh 12.171.16
यः कामान्प्राप्नुयात्सर्वान्यश्चैनान्केवलांस्त्यजेत् प्रापणात्सर्वकामानां परित्यागो विशिष्यते
MBh 12.171.17
नान्तं सर्वविवित्सानां गतपूर्वोऽस्ति कश्चन शरीरे जीविते चैव तृष्णा मन्दस्य वर्धते
MBh 12.171.18
निवर्तस्व विवित्साभ्यः शाम्य निर्विद्य मामक असकृच्चासि निकृतो न च निर्विद्यसे तनो
MBh 12.171.19
यदि नाहं विनाश्यस्ते यद्येवं रमसे मया मा मां योजय लोभेन वृथा त्वं वित्तकामुक
MBh 12.171.20
संचितं संचितं द्रव्यं नष्टं तव पुनः पुनः कदा विमोक्ष्यसे मूढ धनेहां धनकामुक
MBh 12.171.21
अहो नु मम बालिश्यं योऽहं क्रीडनकस्तव किं नैव जातु पुरुषः परेषां प्रेष्यतामियात्
MBh 12.171.22
न पूर्वे नापरे जातु कामानामन्तमाप्नुवन् त्यक्त्वा सर्वसमारम्भान्प्रतिबुद्धोऽस्मि जागृमि
MBh 12.171.23
नूनं ते हृदयं काम वज्रसारमयं दृधम् यदनर्थशताविष्टं शतधा न विदीर्यते
MBh 12.171.24
त्यजामि काम त्वां चैव यच्च किंचित्प्रियं तव तवाहं सुखमन्विच्छन्नात्मन्युपलभे सुखम्
MBh 12.171.25
काम जानामि ते मूलं संकल्पात्किल जायसे न त्वां संकल्पयिष्यामि समूलो न भविष्यसि
MBh 12.171.26
ईहा धनस्य न सुखा लब्ध्वा चिन्ता च भूयसी लब्धनाशो यथा मृत्युर्लब्धं भवति वा न वा
MBh 12.171.27
परेत्य यो न लभते ततो दुःखतरं नु किम् न च तुष्यति लब्धेन भूय एव च मार्गति
MBh 12.171.28
अनुतर्षुल एवार्थः स्वादु गाङ्गमिवोदकम् मद्विलापनमेतत्तु प्रतिबुद्धोऽस्मि संत्यज
MBh 12.171.29
य इमं मामकं देहं भूतग्रामः समाश्रितः स यात्वितो यथाकामं वसतां वा यथासुखम्
MBh 12.171.30
न युष्मास्विह मे प्रीतिः कामलोभानुसारिषु तस्मादुत्सृज्य सर्वान्वः सत्यमेवाश्रयाम्यहम्
MBh 12.171.31
सर्वभूतान्यहं देहे पश्यन्मनसि चात्मनः योगे बुद्धिं श्रुते सत्त्वं मनो ब्रह्मणि धारयन्
MBh 12.171.32
विहरिष्याम्यनासक्तः सुखी लोकान्निरामयः यथा मा त्वं पुनर्नैवं दुःखेषु प्रणिधास्यसि
MBh 12.171.33
त्वया हि मे प्रणुन्नस्य गतिरन्या न विद्यते तृष्णाशोकश्रमाणां हि त्वं काम प्रभवः सदा
MBh 12.171.34
धननाशोऽधिकं दुःखं मन्ये सर्वमहत्तरम् ज्ञातयो ह्यवमन्यन्ते मित्राणि च धनच्युतम्
MBh 12.171.35
अवज्ञानसहस्रैस्तु दोषाः कष्टतराधने धने सुखकला या च सापि दुःखैर्विधीयते
MBh 12.171.36
धनमस्येति पुरुषं पुरा निघ्नन्ति दस्यवः क्लिश्यन्ति विविधैर्दण्डैर्नित्यमुद्वेजयन्ति च
MBh 12.171.37
मन्दलोलुपता दुःखमिति बुद्धं चिरान्मया यद्यदालम्बसे काम तत्तदेवानुरुध्यसे
MBh 12.171.38
अतत्त्वज्ञोऽसि बालश्च दुस्तोषोऽपूरणोऽनलः नैव त्वं वेत्थ सुलभं नैव त्वं वेत्थ दुर्लभम्
MBh 12.171.39
पातालमिव दुष्पूरो मां दुःखैर्योक्तुमिच्छसि नाहमद्य समावेष्टुं शक्यः काम पुनस्त्वया
MBh 12.171.40
निर्वेदमहमासाद्य द्रव्यनाशाद्यदृच्छया निर्वृतिं परमां प्राप्य नाद्य कामान्विचिन्तये
MBh 12.171.41
अतिक्लेशान्सहामीह नाहं बुध्याम्यबुद्धिमान् निकृतो धननाशेन शये सर्वाङ्गविज्वरः
MBh 12.171.42
परित्यजामि काम त्वां हित्वा सर्वमनोगतीः न त्वं मया पुनः काम नस्योतेनेव रंस्यसे
MBh 12.171.43
क्षमिष्येऽक्षममाणानां न हिंसिष्ये च हिंसितः द्वेष्यमुक्तः प्रियं वक्ष्याम्यनादृत्य तदप्रियम्
MBh 12.171.44
तृप्तः स्वस्थेन्द्रियो नित्यं यथालब्धेन वर्तयन् न सकामं करिष्यामि त्वामहं शत्रुमात्मनः
MBh 12.171.45
निर्वेदं निर्वृतिं तृप्तिं शान्तिं सत्यं दमं क्षमाम् सर्वभूतदयां चैव विद्धि मां शरणागतम्
MBh 12.171.46
तस्मात्कामश्च लोभश्च तृष्णा कार्पण्यमेव च त्यजन्तु मां प्रतिष्ठन्तं सत्त्वस्थो ह्यस्मि सांप्रतम्
MBh 12.171.47
प्रहाय कामं लोभं च क्रोधं पारुष्यमेव च नाद्य लोभवशं प्राप्तो दुःखं प्राप्स्याम्यनात्मवान्
MBh 12.171.48
यद्यत्त्यजति कामानां तत्सुखस्याभिपूर्यते कामस्य वशगो नित्यं दुःखमेव प्रपद्यते
MBh 12.171.49
कामान्व्युदस्य धुनुते यत्किंचित्पुरुषो रजः कामक्रोधोद्भवं दुःखमह्रीररतिरेव च
MBh 12.171.50
एष ब्रह्मप्रविष्टोऽहं ग्रीष्मे शीतमिव ह्रदम् शाम्यामि परिनिर्वामि सुखमासे च केवलम्
MBh 12.171.51
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्
MBh 12.171.52
आत्मना सप्तमं कामं हत्वा शत्रुमिवोत्तमम् प्राप्यावध्यं ब्रह्मपुरं राजेव स्यामहं सुखी
MBh 12.171.53
एतां बुद्धिं समास्थाय मङ्किर्निर्वेदमागतः सर्वान्कामान्परित्यज्य प्राप्य ब्रह्म महत्सुखम्
MBh 12.171.54
दम्यनाशकृते मङ्किरमरत्वं किलागमत् अच्छिनत्काममूलं स तेन प्राप महत्सुखम्
MBh 12.171.55
अत्राप्युदाहरन्तीममितिहासं पुरातनम् गीतं विदेहराजेन जनकेन प्रशाम्यता
MBh 12.171.56
अनन्तं बत मे वित्तं यस्य मे नास्ति किंचन मिथिलायां प्रदीप्तायां न मे दह्यति किंचन
MBh 12.171.57
अत्रैवोदाहरन्तीमं बोध्यस्य पदसंचयम् निर्वेदं प्रति विन्यस्तं प्रतिबोध युधिष्ठिर
MBh 12.171.58
बोध्यं दान्तमृषिं राजा नहुषः पर्यपृच्छत निर्वेदाच्छान्तिमापन्नं शान्तं प्रज्ञानतर्पितम्
MBh 12.171.59
उपदेशं महाप्राज्ञ शमस्योपदिशस्व मे कां बुद्धिं समनुध्याय शान्तश्चरसि निर्वृतः
MBh 12.171.60
बोध्य उवाच उपदेशेन वर्तामि नानुशास्मीह कंचन लक्षणं तस्य वक्ष्येऽहं तत्स्वयं प्रविमृश्यताम्
MBh 12.171.61
पिङ्गला कुररः सर्पः सारङ्गान्वेषणं वने इषुकारः कुमारी च षडेते गुरवो मम

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 61 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.171local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷