🪷 Mahābhārata · Śānti-Parva · Chapter 170

The Book of Peace · the great dharma-śāstra · Parva 12 · 23 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 23 Shlokas

MBh 12.170.1
युधिष्ठिर उवाच धनिनो वाधना ये च वर्तयन्ति स्वतन्त्रिणः सुखदुःखागमस्तेषां कः कथं वा पितामह
MBh 12.170.2
भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम् शम्याकेन विमुक्तेन गीतं शान्तिगतेन ह
MBh 12.170.3
अब्रवीन्मां पुरा कश्चिद्ब्राह्मणस्त्यागमास्थितः क्लिश्यमानः कुदारेण कुचैलेन बुभुक्षया
MBh 12.170.4
उत्पन्नमिह लोके वै जन्मप्रभृति मानवम् विविधान्युपवर्तन्ते दुःखानि च सुखानि च
MBh 12.170.5
तयोरेकतरे मार्गे यद्येनमभिसंनयेत् न सुखं प्राप्य संहृष्येन्न दुःखं प्राप्य संज्वरेत्
MBh 12.170.6
न वै चरसि यच्छ्रेय आत्मनो वा यदीहसे अकामात्मापि हि सदा धुरमुद्यम्य चैव हि
MBh 12.170.7
अकिंचनः परिपतन्सुखमास्वादयिष्यसि अकिंचनः सुखं शेते समुत्तिष्ठति चैव हि
MBh 12.170.8
आकिंचन्यं सुखं लोके पथ्यं शिवमनामयम् अनमित्रमथो ह्येतद्दुर्लभं सुलभं सताम्
MBh 12.170.9
अकिंचनस्य शुद्धस्य उपपन्नस्य सर्वशः अवेक्षमाणस्त्रीँल्लोकान्न तुल्यमुपलक्षये
MBh 12.170.10
आकिंचन्यं च राज्यं च तुलया समतोलयम् अत्यरिच्यत दारिद्र्यं राज्यादपि गुणाधिकम्
MBh 12.170.11
आकिंचन्ये च राज्ये च विशेषः सुमहानयम् नित्योद्विग्नो हि धनवान्मृत्योरास्यगतो यथा
MBh 12.170.12
नैवास्याग्निर्न चादित्यो न मृत्युर्न च दस्यवः प्रभवन्ति धनज्यानिनिर्मुक्तस्य निराशिषः
MBh 12.170.13
तं वै सदा कामचरमनुपस्तीर्णशायिनम् बाहूपधानं शाम्यन्तं प्रशंसन्ति दिवौकसः
MBh 12.170.14
धनवान्क्रोधलोभाभ्यामाविष्टो नष्टचेतनः तिर्यगीक्षः शुष्कमुखः पापको भ्रुकुटीमुखः
MBh 12.170.15
निर्दशंश्चाधरोष्ठं च क्रुद्धो दारुणभाषिता कस्तमिच्छेत्परिद्रष्टुं दातुमिच्छति चेन्महीम्
MBh 12.170.16
श्रिया ह्यभीक्ष्णं संवासो मोहयत्यविचक्षणम् सा तस्य चित्तं हरति शारदाभ्रमिवानिलः
MBh 12.170.17
अथैनं रूपमानश्च धनमानश्च विन्दति अभिजातोऽस्मि सिद्धोऽस्मि नास्मि केवलमानुषः इत्येभिः कारणैस्तस्य त्रिभिश्चित्तं प्रसिच्यते
MBh 12.170.18
स प्रसिक्तमना भोगान्विसृज्य पितृसंचितान् परिक्षीणः परस्वानामादानं साधु मन्यते
MBh 12.170.19
तमतिक्रान्तमर्यादमाददानं ततस्ततः प्रतिषेधन्ति राजानो लुब्धा मृगमिवेषुभिः
MBh 12.170.20
एवमेतानि दुःखानि तानि तानीह मानवम् विविधान्युपवर्तन्ते गात्रसंस्पर्शजानि च
MBh 12.170.21
तेषां परमदुःखानां बुद्ध्या भैषज्यमाचरेत् लोकधर्मं समाज्ञाय ध्रुवाणामध्रुवैः सह
MBh 12.170.22
नात्यक्त्वा सुखमाप्नोति नात्यक्त्वा विन्दते परम् नात्यक्त्वा चाभयः शेते त्यक्त्वा सर्वं सुखी भव
MBh 12.170.23
इत्येतद्धास्तिनपुरे ब्राह्मणेनोपवर्णितम् शम्याकेन पुरा मह्यं तस्मात्त्यागः परो मतः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 23 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.170local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷