🪷 Mahābhārata · Śānti-Parva · Chapter 169

The Book of Peace · the great dharma-śāstra · Parva 12 · 37 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 37 Shlokas

MBh 12.169.1
युधिष्ठिर उवाच अतिक्रामति कालेऽस्मिन्सर्वभूतक्षयावहे किं श्रेयः प्रतिपद्येत तन्मे ब्रूहि पितामह
MBh 12.169.2
भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम् पितुः पुत्रेण संवादं तन्निबोध युधिष्ठिर
MBh 12.169.3
द्विजातेः कस्यचित्पार्थ स्वाध्यायनिरतस्य वै बभूव पुत्रो मेधावी मेधावी नाम नामतः
MBh 12.169.4
सोऽब्रवीत्पितरं पुत्रः स्वाध्यायकरणे रतम् मोक्षधर्मार्थकुशलो लोकतत्त्वविचक्षणः
MBh 12.169.5
धीरः किं स्वित्तात कुर्यात्प्रजान;न्क्षिप्रं ह्यायुर्भ्रश्यते मानवानाम् पितस्तदाचक्ष्व यथार्थयोगं; ममानुपूर्व्या येन धर्मं चरेयम्
MBh 12.169.6
पितोवाच वेदानधीत्य ब्रह्मचर्येण पुत्र; पुत्रानिच्छेत्पावनार्थं पितॄणाम् अग्नीनाधाय विधिवच्चेष्टयज्ञो; वनं प्रविश्याथ मुनिर्बुभूषेत्
MBh 12.169.7
पुत्र उवाच एवमभ्याहते लोके समन्तात्परिवारिते अमोघासु पतन्तीषु किं धीर इव भाषसे
MBh 12.169.8
पितोवाच कथमभ्याहतो लोकः केन वा परिवारितः अमोघाः काः पतन्तीह किं नु भीषयसीव माम्
MBh 12.169.9
पुत्र उवाच मृत्युनाभ्याहतो लोको जरया परिवारितः अहोरात्राः पतन्त्येते ननु कस्मान्न बुध्यसे
MBh 12.169.10
यदाहमेतज्जानामि न मृत्युस्तिष्ठतीति ह सोऽहं कथं प्रतीक्षिष्ये जालेनापिहितश्चरन्
MBh 12.169.11
रात्र्यां रात्र्यां व्यतीतायामायुरल्पतरं यदा गाधोदके मत्स्य इव सुखं विन्देत कस्तदा तदेव वन्ध्यं दिवसमिति विद्याद्विचक्षणः
MBh 12.169.12
अनवाप्तेषु कामेषु मृत्युरभ्येति मानवम् शष्पाणीव विचिन्वन्तमन्यत्रगतमानसम् वृकीवोरणमासाद्य मृत्युरादाय गच्छति
MBh 12.169.13
अद्यैव कुरु यच्छ्रेयो मा त्वा कालोऽत्यगादयम् अकृतेष्वेव कार्येषु मृत्युर्वै संप्रकर्षति
MBh 12.169.14
श्वःकार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् न हि प्रतीक्षते मृत्युः कृतं वास्य न वा कृतम् को हि जानाति कस्याद्य मृत्युसेना निवेक्ष्यते
MBh 12.169.15
युवैव धर्मशीलः स्यादनिमित्तं हि जीवितम् कृते धर्मे भवेत्कीर्तिरिह प्रेत्य च वै सुखम्
MBh 12.169.16
मोहेन हि समाविष्टः पुत्रदारार्थमुद्यतः कृत्वा कार्यमकार्यं वा पुष्टिमेषां प्रयच्छति
MBh 12.169.17
तं पुत्रपशुसंमत्तं व्यासक्तमनसं नरम् सुप्तं व्याघ्रं महौघो वा मृत्युरादाय गच्छति
MBh 12.169.18
संचिन्वानकमेवैकं कामानामवितृप्तकम् व्याघ्रः पशुमिवादाय मृत्युरादाय गच्छति
MBh 12.169.19
इदं कृतमिदं कार्यमिदमन्यत्कृताकृतम् एवमीहासुखासक्तं कृतान्तः कुरुते वशे
MBh 12.169.20
कृतानां फलमप्राप्तं कर्मणां फलसङ्गिनम् क्षेत्रापणगृहासक्तं मृत्युरादाय गच्छति
MBh 12.169.21
मृत्युर्जरा च व्याधिश्च दुःखं चानेककारणम् अनुषक्तं यदा देहे किं स्वस्थ इव तिष्ठसि
MBh 12.169.22
जातमेवान्तकोऽन्ताय जरा चान्वेति देहिनम् अनुषक्ता द्वयेनैते भावाः स्थावरजङ्गमाः
MBh 12.169.23
मृत्योर्वा गृहमेवैतद्या ग्रामे वसतो रतिः देवानामेष वै गोष्ठो यदरण्यमिति श्रुतिः
MBh 12.169.24
निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः
MBh 12.169.25
न हिंसयति यः प्राणान्मनोवाक्कायहेतुभिः जीवितार्थापनयनैः कर्मभिर्न स बध्यते
MBh 12.169.26
न मृत्युसेनामायान्तीं जातु कश्चित्प्रबाधते ऋते सत्यमसंत्याज्यं सत्ये ह्यमृतमाश्रितम्
MBh 12.169.27
तस्मात्सत्यव्रताचारः सत्ययोगपरायणः सत्यारामः समो दान्तः सत्येनैवान्तकं जयेत्
MBh 12.169.28
अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम् मृत्युमापद्यते मोहात्सत्येनापद्यतेऽमृतम्
MBh 12.169.29
सोऽहं ह्यहिंस्रः सत्यार्थी कामक्रोधबहिष्कृतः समदुःखसुखः क्षेमी मृत्युं हास्याम्यमर्त्यवत्
MBh 12.169.30
शान्तियज्ञरतो दान्तो ब्रह्मयज्ञे स्थितो मुनिः वाङ्मनःकर्मयज्ञश्च भविष्याम्युदगायने
MBh 12.169.31
पशुयज्ञैः कथं हिंस्रैर्मादृशो यष्टुमर्हति अन्तवद्भिरुत प्राज्ञः क्षत्रयज्ञैः पिशाचवत्
MBh 12.169.32
यस्य वाङ्मनसी स्यातां सम्यक्प्रणिहिते सदा तपस्त्यागश्च योगश्च स वै सर्वमवाप्नुयात्
MBh 12.169.33
नास्ति विद्यासमं चक्षुर्नास्ति विद्यासमं बलम् नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम्
MBh 12.169.34
आत्मन्येवात्मना जात आत्मनिष्ठोऽप्रजोऽपि वा आत्मन्येव भविष्यामि न मां तारयति प्रजा
MBh 12.169.35
नैतादृशं ब्राह्मणस्यास्ति वित्तं; यथैकता समता सत्यता च शीले स्थितिर्दण्डनिधानमार्जवं; ततस्ततश्चोपरमः क्रियाभ्यः
MBh 12.169.36
किं ते धनैर्बान्धवैर्वापि किं ते; किं ते दारैर्ब्राह्मण यो मरिष्यसि आत्मानमन्विच्छ गुहां प्रविष्टं; पितामहस्ते क्व गतः पिता च
MBh 12.169.37
भीष्म उवाच पुत्रस्यैतद्वचः श्रुत्वा तथाकार्षीत्पिता नृप तथा त्वमपि वर्तस्व सत्यधर्मपरायणः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 37 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.169local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷