🪷 Mahābhārata · Śānti-Parva · Chapter 175
The Book of Peace · the great dharma-śāstra · Parva 12 · 37 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 37 Shlokas
MBh 12.175.1
युधिष्ठिर उवाच
कुतः सृष्टमिदं विश्वं जगत्स्थावरजङ्गमम्
प्रलये च कमभ्येति तन्मे ब्रूहि पितामह
MBh 12.175.2
ससागरः सगगनः सशैलः सबलाहकः
सभूमिः साग्निपवनो लोकोऽयं केन निर्मितः
MBh 12.175.3
कथं सृष्टानि भूतानि कथं वर्णविभक्तयः
शौचाशौचं कथं तेषां धर्माधर्मावथो कथम्
MBh 12.175.4
कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः
अस्माल्लोकादमुं लोकं सर्वं शंसतु नो भवान्
MBh 12.175.5
भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
भृगुणाभिहितं श्रेष्ठं भरद्वाजाय पृच्छते
MBh 12.175.6
कैलासशिखरे दृष्ट्वा दीप्यमानमिवौजसा
भृगुं महर्षिमासीनं भरद्वाजोऽन्वपृच्छत
MBh 12.175.7
ससागरः सगगनः सशैलः सबलाहकः
सभूमिः साग्निपवनो लोकोऽयं केन निर्मितः
MBh 12.175.8
कथं सृष्टानि भूतानि कथं वर्णविभक्तयः
शौचाशौचं कथं तेषां धर्माधर्मावथो कथम्
MBh 12.175.9
कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः
परलोकमिमं चापि सर्वं शंसतु नो भवान्
MBh 12.175.10
एवं स भगवान्पृष्टो भरद्वाजेन संशयम्
महर्षिर्ब्रह्मसंकाशः सर्वं तस्मै ततोऽब्रवीत्
MBh 12.175.11
मानसो नाम विख्यातः श्रुतपूर्वो महर्षिभिः
अनादिनिधनो देवस्तथाभेद्योऽजरामरः
MBh 12.175.12
अव्यक्त इति विख्यातः शाश्वतोऽथाक्षरोऽव्ययः
यतः सृष्टानि भूतानि जायन्ते च म्रियन्ति च
MBh 12.175.13
सोऽसृजत्प्रथमं देवो महान्तं नाम नामतः
आकाशमिति विख्यातं सर्वभूतधरः प्रभुः
MBh 12.175.14
आकाशादभवद्वारि सलिलादग्निमारुतौ
अग्निमारुतसंयोगात्ततः समभवन्मही
MBh 12.175.15
ततस्तेजोमयं दिव्यं पद्मं सृष्टं स्वयंभुवा
तस्मात्पद्मात्समभवद्ब्रह्मा वेदमयो निधिः
MBh 12.175.16
अहंकार इति ख्यातः सर्वभूतात्मभूतकृत्
ब्रह्मा वै सुमहातेजा य एते पञ्च धातवः
MBh 12.175.17
शैलास्तस्यास्थिसंज्ञास्तु मेदो मांसं च मेदिनी
समुद्रास्तस्य रुधिरमाकाशमुदरं तथा
MBh 12.175.18
पवनश्चैव निःश्वासस्तेजोऽग्निर्निम्नगाः सिराः
अग्नीषोमौ तु चन्द्रार्कौ नयने तस्य विश्रुते
MBh 12.175.19
नभश्चोर्ध्वं शिरस्तस्य क्षितिः पादौ दिशो भुजौ
दुर्विज्ञेयो ह्यनन्तत्वात्सिद्धैरपि न संशयः
MBh 12.175.20
स एव भगवान्विष्णुरनन्त इति विश्रुतः
सर्वभूतात्मभूतस्थो दुर्विज्ञेयोऽकृतात्मभिः
MBh 12.175.21
अहंकारस्य यः स्रष्टा सर्वभूतभवाय वै
यतः समभवद्विश्वं पृष्टोऽहं यदिह त्वया
MBh 12.175.22
भरद्वाज उवाच
गगनस्य दिशां चैव भूतलस्यानिलस्य च
कान्यत्र परिमाणानि संशयं छिन्धि मेऽर्थतः
MBh 12.175.23
भृगुरुवाच
अनन्तमेतदाकाशं सिद्धचारणसेवितम्
रम्यं नानाश्रयाकीर्णं यस्यान्तो नाधिगम्यते
MBh 12.175.24
ऊर्ध्वं गतेरधस्तात्तु चन्द्रादित्यौ न दृश्यतः
तत्र देवाः स्वयं दीप्ता भास्वराश्चाग्निवर्चसः
MBh 12.175.25
ते चाप्यन्तं न पश्यन्ति नभसः प्रथितौजसः
दुर्गमत्वादनन्तत्वादिति मे विद्धि मानद
MBh 12.175.26
उपरिष्टोपरिष्टात्तु प्रज्वलद्भिः स्वयंप्रभैः
निरुद्धमेतदाकाशमप्रमेयं सुरैरपि
MBh 12.175.27
पृथिव्यन्ते समुद्रास्तु समुद्रान्ते तमः स्मृतम्
तमसोऽन्ते जलं प्राहुर्जलस्यान्तेऽग्निरेव च
MBh 12.175.28
रसातलान्ते सलिलं जलान्ते पन्नगाधिपः
तदन्ते पुनराकाशमाकाशान्ते पुनर्जलम्
MBh 12.175.29
एवमन्तं भगवतः प्रमाणं सलिलस्य च
अग्निमारुततोयेभ्यो दुर्ज्ञेयं दैवतैरपि
MBh 12.175.30
अग्निमारुततोयानां वर्णाः क्षितितलस्य च
आकाशसदृशा ह्येते भिद्यन्ते तत्त्वदर्शनात्
MBh 12.175.31
पठन्ति चैव मुनयः शास्त्रेषु विविधेषु च
त्रैलोक्ये सागरे चैव प्रमाणं विहितं यथा
अदृश्याय त्वगम्याय कः प्रमाणमुदाहरेत्
MBh 12.175.32
सिद्धानां देवतानां च यदा परिमिता गतिः
तदा गौणमनन्तस्य नामानन्तेति विश्रुतम्
नामधेयानुरूपस्य मानसस्य महात्मनः
MBh 12.175.33
यदा तु दिव्यं तद्रूपं ह्रसते वर्धते पुनः
कोऽन्यस्तद्वेदितुं शक्तो योऽपि स्यात्तद्विधोऽपरः
MBh 12.175.34
ततः पुष्करतः सृष्टः सर्वज्ञो मूर्तिमान्प्रभुः
ब्रह्मा धर्ममयः पूर्वः प्रजापतिरनुत्तमः
MBh 12.175.35
भरद्वाज उवाच
पुष्कराद्यदि संभूतो ज्येष्ठं भवति पुष्करम्
ब्रह्माणं पूर्वजं चाह भवान्संदेह एव मे
MBh 12.175.36
भृगुरुवाच
मानसस्येह या मूर्तिर्ब्रह्मत्वं समुपागता
तस्यासनविधानार्थं पृथिवी पद्ममुच्यते
MBh 12.175.37
कर्णिका तस्य पद्मस्य मेरुर्गगनमुच्छ्रितः
तस्य मध्ये स्थितो लोकान्सृजते जगतः प्रभुः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 174
- Next chapter · Śānti-Parva Ch 176 →
Sources and Connected Readings
Continue from these 37 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.175local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷