🪷 Mahābhārata · Śānti-Parva · Chapter 166
The Book of Peace · the great dharma-śāstra · Parva 12 · 25 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 25 Shlokas
MBh 12.166.1
भीष्म उवाच
अथ तत्र महार्चिष्माननलो वातसारथिः
तस्याविदूरे रक्षार्थं खगेन्द्रेण कृतोऽभवत्
MBh 12.166.2
स चापि पार्श्वे सुष्वाप विश्वस्तो बकराट्तदा
कृतघ्नस्तु स दुष्टात्मा तं जिघांसुरजागरत्
MBh 12.166.3
ततोऽलातेन दीप्तेन विश्वस्तं निजघान तम्
निहत्य च मुदा युक्तः सोऽनुबन्धं न दृष्टवान्
MBh 12.166.4
स तं विपक्षरोमाणं कृत्वाग्नावपचत्तदा
तं गृहीत्वा सुवर्णं च ययौ द्रुततरं द्विजः
MBh 12.166.5
ततोऽन्यस्मिन्गते चाह्नि विरूपाक्षोऽब्रवीत्सुतम्
न प्रेक्षे राजधर्माणमद्य पुत्र खगोत्तमम्
MBh 12.166.6
स पूर्वसंध्यां ब्रह्माणं वन्दितुं याति सर्वदा
मां चादृष्ट्वा कदाचित्स न गच्छति गृहान्खगः
MBh 12.166.7
उभे द्विरात्रं संध्ये वै नाभ्यगात्स ममालयम्
तस्मान्न शुध्यते भावो मम स ज्ञायतां सुहृत्
MBh 12.166.8
स्वाध्यायेन वियुक्तो हि ब्रह्मवर्चसवर्जितः
तं गतस्तत्र मे शङ्का हन्यात्तं स द्विजाधमः
MBh 12.166.9
दुराचारस्तु दुर्बुद्धिरिङ्गितैर्लक्षितो मया
निष्क्रियो दारुणाकारः कृष्णो दस्युरिवाधमः
MBh 12.166.10
गौतमः स गतस्तत्र तेनोद्विग्नं मनो मम
पुत्र शीघ्रमितो गत्वा राजधर्मनिवेशनम्
ज्ञायतां स विशुद्धात्मा यदि जीवति माचिरम्
MBh 12.166.11
स एवमुक्तस्त्वरितो रक्षोभिः सहितो ययौ
न्यग्रोधं तत्र चापश्यत्कङ्कालं राजधर्मणः
MBh 12.166.12
स रुदन्नगमत्पुत्रो राक्षसेन्द्रस्य धीमतः
त्वरमाणः परं शक्त्या गौतमग्रहणाय वै
MBh 12.166.13
ततोऽविदूरे जगृहुर्गौतमं राक्षसास्तदा
राजधर्मशरीरं च पक्षास्थिचरणोज्झितम्
MBh 12.166.14
तमादायाथ रक्षांसि द्रुतं मेरुव्रजं ययुः
राज्ञश्च दर्शयामासुः शरीरं राजधर्मणः
कृतघ्नं पुरुषं तं च गौतमं पापचेतसम्
MBh 12.166.15
रुरोद राजा तं दृष्ट्वा सामात्यः सपुरोहितः
आर्तनादश्च सुमहानभूत्तस्य निवेशने
MBh 12.166.16
सस्त्रीकुमारं च पुरं बभूवास्वस्थमानसम्
अथाब्रवीन्नृपः पुत्रं पापोऽयं वध्यतामिति
MBh 12.166.17
अस्य मांसैरिमे सर्वे विहरन्तु यथेष्टतः
पापाचारः पापकर्मा पापात्मा पापनिश्चयः
हन्तव्योऽयं मम मतिर्भवद्भिरिति राक्षसाः
MBh 12.166.18
इत्युक्ता राक्षसेन्द्रेण राक्षसा घोरविक्रमाः
नैच्छन्त तं भक्षयितुं पापकर्मायमित्युत
MBh 12.166.19
दस्यूनां दीयतामेष साध्वद्य पुरुषाधमः
इत्यूचुस्तं महाराज राक्षसेन्द्रं निशाचराः
MBh 12.166.20
शिरोभिश्च गता भूमिमूचू रक्षोगणाधिपम्
न दातुमर्हसि त्वं नो भक्षणायास्य किल्बिषम्
MBh 12.166.21
एवमस्त्विति तानाह राक्षसेन्द्रो निशाचरान्
दस्यूनां दीयतामेष कृतघ्नोऽद्यैव राक्षसाः
MBh 12.166.22
इत्युक्ते तस्य ते दासाः शूलमुद्गरपाणयः
छित्त्वा तं खण्डशः पापं दस्युभ्यः प्रददुस्तदा
MBh 12.166.23
दस्यवश्चापि नैच्छन्त तमत्तुं पापकारिणम्
क्रव्यादा अपि राजेन्द्र कृतघ्नं नोपभुञ्जते
MBh 12.166.24
ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा
निष्कृतिर्विहिता राजन्कृतघ्ने नास्ति निष्कृतिः
MBh 12.166.25
मित्रद्रोही नृशंसश्च कृतघ्नश्च नराधमः
क्रव्यादैः कृमिभिश्चान्यैर्न भुज्यन्ते हि तादृशाः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 165
- Next chapter · Śānti-Parva Ch 167 →
Sources and Connected Readings
Continue from these 25 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.166local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷