🪷 Mahābhārata · Śānti-Parva · Chapter 167
The Book of Peace · the great dharma-śāstra · Parva 12 · 24 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 24 Shlokas
MBh 12.167.1
भीष्म उवाच
ततश्चितां बकपतेः कारयामास राक्षसः
रत्नैर्गन्धैश्च बहुभिर्वस्त्रैश्च समलंकृताम्
MBh 12.167.2
तत्र प्रज्वाल्य नृपते बकराजं प्रतापवान्
प्रेतकार्याणि विधिवद्राक्षसेन्द्रश्चकार ह
MBh 12.167.3
तस्मिन्कालेऽथ सुरभिर्देवी दाक्षायणी शुभा
उपरिष्टात्ततस्तस्य सा बभूव पयस्विनी
MBh 12.167.4
तस्या वक्त्राच्च्युतः फेनः क्षीरमिश्रस्तदानघ
सोऽपतद्वै ततस्तस्यां चितायां राजधर्मणः
MBh 12.167.5
ततः संजीवितस्तेन बकराजस्तदानघ
उत्पत्य च समेयाय विरूपाक्षं बकाधिपः
MBh 12.167.6
ततोऽभ्ययाद्देवराजो विरूपाक्षपुरं तदा
प्राह चेदं विरूपाक्षं दिष्ट्यायं जीवतीत्युत
MBh 12.167.7
श्रावयामास चेन्द्रस्तं विरूपाक्षं पुरातनम्
यथा शापः पुरा दत्तो ब्रह्मणा राजधर्मणः
MBh 12.167.8
यदा बकपती राजन्ब्रह्माणं नोपसर्पति
ततो रोषादिदं प्राह बकेन्द्राय पितामहः
MBh 12.167.9
यस्मान्मूढो मम सदो नागतोऽसौ बकाधमः
तस्माद्वधं स दुष्टात्मा नचिरात्समवाप्स्यति
MBh 12.167.10
तदायं तस्य वचनान्निहतो गौतमेन वै
तेनैवामृतसिक्तश्च पुनः संजीवितो बकः
MBh 12.167.11
राजधर्मा ततः प्राह प्रणिपत्य पुरंदरम्
यदि तेऽनुग्रहकृता मयि बुद्धिः पुरंदर
सखायं मे सुदयितं गौतमं जीवयेत्युत
MBh 12.167.12
तस्य वाक्यं समाज्ञाय वासवः पुरुषर्षभ
संजीवयित्वा सख्ये वै प्रादात्तं गौतमं तदा
MBh 12.167.13
सभाण्डोपस्करं राजंस्तमासाद्य बकाधिपः
संपरिष्वज्य सुहृदं प्रीत्या परमया युतः
MBh 12.167.14
अथ तं पापकर्माणं राजधर्मा बकाधिपः
विसर्जयित्वा सधनं प्रविवेश स्वमालयम्
MBh 12.167.15
यथोचितं च स बको ययौ ब्रह्मसदस्तदा
ब्रह्मा च तं महात्मानमातिथ्येनाभ्यपूजयत्
MBh 12.167.16
गौतमश्चापि संप्राप्य पुनस्तं शबरालयम्
शूद्रायां जनयामास पुत्रान्दुष्कृतकारिणः
MBh 12.167.17
शापश्च सुमहांस्तस्य दत्तः सुरगणैस्तदा
कुक्षौ पुनर्भ्वां भार्यायां जनयित्वा चिरात्सुतान्
निरयं प्राप्स्यति महत्कृतघ्नोऽयमिति प्रभो
MBh 12.167.18
एतत्प्राह पुरा सर्वं नारदो मम भारत
संस्मृत्य चापि सुमहदाख्यानं पुरुषर्षभ
मयापि भवते सर्वं यथावदुपवर्णितम्
MBh 12.167.19
कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम्
अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः
MBh 12.167.20
मित्रद्रोहो न कर्तव्यः पुरुषेण विशेषतः
मित्रध्रुङ्निरयं घोरमनन्तं प्रतिपद्यते
MBh 12.167.21
कृतज्ञेन सदा भाव्यं मित्रकामेन चानघ
मित्रात्प्रभवते सत्यं मित्रात्प्रभवते बलम्
सत्कारैरुत्तमैर्मित्रं पूजयेत विचक्षणः
MBh 12.167.22
परित्याज्यो बुधैः पापः कृतघ्नो निरपत्रपः
मित्रद्रोही कुलाङ्गारः पापकर्मा नराधमः
MBh 12.167.23
एष धर्मभृतां श्रेष्ठ प्रोक्तः पापो मया तव
मित्रद्रोही कृतघ्नो वै किं भूयः श्रोतुमिच्छसि
MBh 12.167.24
वैशंपायन उवाच
एतच्छ्रुत्वा तदा वाक्यं भीष्मेणोक्तं महात्मना
युधिष्ठिरः प्रीतमना बभूव जनमेजय
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 166
- Next chapter · Śānti-Parva Ch 168 →
Sources and Connected Readings
Continue from these 24 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.167local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷