🪷 Mahābhārata · Śānti-Parva · Chapter 165

The Book of Peace · the great dharma-śāstra · Parva 12 · 31 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 31 Shlokas

MBh 12.165.1
भीष्म उवाच ततः स विदितो राज्ञः प्रविश्य गृहमुत्तमम् पूजितो राक्षसेन्द्रेण निषसादासनोत्तमे
MBh 12.165.2
पृष्टश्च गोत्रचरणं स्वाध्यायं ब्रह्मचारिकम् न तत्र व्याजहारान्यद्गोत्रमात्रादृते द्विजः
MBh 12.165.3
ब्रह्मवर्चसहीनस्य स्वाध्यायविरतस्य च गोत्रमात्रविदो राजा निवासं समपृच्छत
MBh 12.165.4
क्व ते निवासः कल्याण किंगोत्रा ब्राह्मणी च ते तत्त्वं ब्रूहि न भीः कार्या विश्रमस्व यथासुखम्
MBh 12.165.5
गौतम उवाच मध्यदेशप्रसूतोऽहं वासो मे शबरालये शूद्रा पुनर्भूर्भार्या मे सत्यमेतद्ब्रवीमि ते
MBh 12.165.6
भीष्म उवाच ततो राजा विममृशे कथं कार्यमिदं भवेत् कथं वा सुकृतं मे स्यादिति बुद्ध्यान्वचिन्तयत्
MBh 12.165.7
अयं वै जननाद्विप्रः सुहृत्तस्य महात्मनः संप्रेषितश्च तेनायं काश्यपेन ममान्तिकम्
MBh 12.165.8
तस्य प्रियं करिष्यामि स हि मामाश्रितः सदा भ्राता मे बान्धवश्चासौ सखा च हृदयंगमः
MBh 12.165.9
कार्त्तिक्यामद्य भोक्तारः सहस्रं मे द्विजोत्तमाः तत्रायमपि भोक्ता वै देयमस्मै च मे धनम्
MBh 12.165.10
ततः सहस्रं विप्राणां विदुषां समलंकृतम् स्नातानामनुसंप्राप्तमहतक्षौमवाससाम्
MBh 12.165.11
तानागतान्द्विजश्रेष्ठान्विरूपाक्षो विशां पते यथार्हं प्रतिजग्राह विधिदृष्टेन कर्मणा
MBh 12.165.12
बृस्यस्तेषां तु संन्यस्ता राक्षसेन्द्रस्य शासनात् भूमौ वरकुथास्तीर्णाः प्रेष्यैर्भरतसत्तम
MBh 12.165.13
तासु ते पूजिता राज्ञा निषण्णा द्विजसत्तमाः व्यराजन्त महाराज नक्षत्रपतयो यथा
MBh 12.165.14
ततो जाम्बूनदाः पात्रीर्वज्राङ्का विमलाः शुभाः वरान्नपूर्णा विप्रेभ्यः प्रादान्मधुघृताप्लुताः
MBh 12.165.15
तस्य नित्यं तथाषाढ्यां माघ्यां च बहवो द्विजाः ईप्सितं भोजनवरं लभन्ते सत्कृतं सदा
MBh 12.165.16
विशेषतस्तु कार्त्तिक्यां द्विजेभ्यः संप्रयच्छति शरद्व्यपाये रत्नानि पौर्णमास्यामिति श्रुतिः
MBh 12.165.17
सुवर्णं रजतं चैव मणीनथ च मौक्तिकम् वज्रान्महाधनांश्चैव वैडूर्याजिनराङ्कवान्
MBh 12.165.18
रत्नराशीन्विनिक्षिप्य दक्षिणार्थे स भारत ततः प्राह द्विजश्रेष्ठान्विरूपाक्षो महायशाः
MBh 12.165.19
गृह्णीत रत्नान्येतानि यथोत्साहं यथेष्टतः येषु येषु च भाण्डेषु भुक्तं वो द्विजसत्तमाः तान्येवादाय गच्छध्वं स्ववेश्मानीति भारत
MBh 12.165.20
इत्युक्तवचने तस्मिन्राक्षसेन्द्रे महात्मनि यथेष्टं तानि रत्नानि जगृहुर्ब्राह्मणर्षभाः
MBh 12.165.21
ततो महार्हैस्ते सर्वे रत्नैरभ्यर्चिताः शुभैः ब्राह्मणा मृष्टवसनाः सुप्रीताः स्म तदाभवन्
MBh 12.165.22
ततस्तान्राक्षसेन्द्रश्च द्विजानाह पुनर्वचः नानादिगागतान्राजन्राक्षसान्प्रतिषिध्य वै
MBh 12.165.23
अध्यैकदिवसं विप्रा न वोऽस्तीह भयं क्वचित् राक्षसेभ्यः प्रमोदध्वमिष्टतो यात माचिरम्
MBh 12.165.24
ततः प्रदुद्रुवुः सर्वे विप्रसंघाः समन्ततः गौतमोऽपि सुवर्णस्य भारमादाय सत्वरः
MBh 12.165.25
कृच्छ्रात्समुद्वहन्वीर न्यग्रोधं समुपागमत् न्यषीदच्च परिश्रान्तः क्लान्तश्च क्षुधितश्च ह
MBh 12.165.26
ततस्तमभ्यगाद्राजन्राजधर्मा खगोत्तमः स्वागतेनाभ्यनन्दच्च गौतमं मित्रवत्सलः
MBh 12.165.27
तस्य पक्षाग्रविक्षेपैः क्लमं व्यपनयत्खगः पूजां चाप्यकरोद्धीमान्भोजनं चाप्यकल्पयत्
MBh 12.165.28
स भुक्तवान्सुविश्रान्तो गौतमोऽचिन्तयत्तदा हाटकस्याभिरूपस्य भारोऽयं सुमहान्मया गृहीतो लोभमोहाद्वै दूरं च गमनं मम
MBh 12.165.29
न चास्ति पथि भोक्तव्यं प्राणसंधारणं मम किं कृत्वा धारयेयं वै प्राणानित्यभ्यचिन्तयत्
MBh 12.165.30
ततः स पथि भोक्तव्यं प्रेक्षमाणो न किंचन कृतघ्नः पुरुषव्याघ्र मनसेदमचिन्तयत्
MBh 12.165.31
अयं बकपतिः पार्श्वे मांसराशिः स्थितो मम इमं हत्वा गृहीत्वा च यास्येऽहं समभिद्रुतम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 31 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.165local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷