🪷 Mahābhārata · Śānti-Parva · Chapter 124

The Book of Peace · the great dharma-śāstra · Parva 12 · 69 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 69 Shlokas

MBh 12.124.1
युधिष्ठिर उवाच इमे जना नरश्रेष्ठ प्रशंसन्ति सदा भुवि धर्मस्य शीलमेवादौ ततो मे संशयो महान्
MBh 12.124.2
यदि तच्छक्यमस्माभिर्ज्ञातुं धर्मभृतां वर श्रोतुमिच्छामि तत्सर्वं यथैतदुपलभ्यते
MBh 12.124.3
कथं नु प्राप्यते शीलं श्रोतुमिच्छामि भारत किंलक्षणं च तत्प्रोक्तं ब्रूहि मे वदतां वर
MBh 12.124.4
भीष्म उवाच पुरा दुर्योधनेनेह धृतराष्ट्राय मानद आख्यातं तप्यमानेन श्रियं दृष्ट्वा तथागताम्
MBh 12.124.5
इन्द्रप्रस्थे महाराज तव सभ्रातृकस्य ह सभायां चावहसनं तत्सर्वं शृणु भारत
MBh 12.124.6
भवतस्तां सभां दृष्ट्वा समृद्धिं चाप्यनुत्तमाम् दुर्योधनस्तदासीनः सर्वं पित्रे न्यवेदयत्
MBh 12.124.7
श्रुत्वा च धृतराष्ट्रोऽपि दुर्योधनवचस्तदा अब्रवीत्कर्णसहितं दुर्योधनमिदं वचः
MBh 12.124.8
किमर्थं तप्यसे पुत्र श्रोतुमिच्छामि तत्त्वतः श्रुत्वा त्वामनुनेष्यामि यदि सम्यग्भविष्यसि
MBh 12.124.9
यथा त्वं महदैश्वर्यं प्राप्तः परपुरंजय किंकरा भ्रातरः सर्वे मित्राः संबन्धिनस्तथा
MBh 12.124.10
आच्छादयसि प्रावारानश्नासि पिशितोदनम् आजानेया वहन्ति त्वां कस्माच्छोचसि पुत्रक
MBh 12.124.11
दुर्योधन उवाच दश तानि सहस्राणि स्नातकानां महात्मनाम् भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने
MBh 12.124.12
दृष्ट्वा च तां सभां दिव्यां दिव्यपुष्पफलान्विताम् अश्वांस्तित्तिरकल्माषान्रत्नानि विविधानि च
MBh 12.124.13
दृष्ट्वा तां पाण्डवेयानामृद्धिमिन्द्रोपमां शुभाम् अमित्राणां सुमहतीमनुशोचामि मानद
MBh 12.124.14
धृतराष्ट्र उवाच यदीच्छसि श्रियं तात यादृशीं तां युधिष्ठिरे विशिष्टां वा नरव्याघ्र शीलवान्भव पुत्रक
MBh 12.124.15
शीलेन हि त्रयो लोकाः शक्या जेतुं न संशयः न हि किंचिदसाध्यं वै लोके शीलवतां भवेत्
MBh 12.124.16
एकरात्रेण मान्धाता त्र्यहेण जनमेजयः सप्तरात्रेण नाभागः पृथिवीं प्रतिपेदिवान्
MBh 12.124.17
एते हि पार्थिवाः सर्वे शीलवन्तो दमान्विताः अतस्तेषां गुणक्रीता वसुधा स्वयमागमत्
MBh 12.124.18
अत्राप्युदाहरन्तीममितिहासं पुरातनम् नारदेन पुरा प्रोक्तं शीलमाश्रित्य भारत
MBh 12.124.19
प्रह्रादेन हृतं राज्यं महेन्द्रस्य महात्मनः शीलमाश्रित्य दैत्येन त्रैलोक्यं च वशीकृतम्
MBh 12.124.20
ततो बृहस्पतिं शक्रः प्राञ्जलिः समुपस्थितः उवाच च महाप्राज्ञः श्रेय इच्छामि वेदितुम्
MBh 12.124.21
ततो बृहस्पतिस्तस्मै ज्ञानं नैःश्रेयसं परम् कथयामास भगवान्देवेन्द्राय कुरूद्वह
MBh 12.124.22
एतावच्छ्रेय इत्येव बृहस्पतिरभाषत इन्द्रस्तु भूयः पप्रच्छ क्व विशेषो भवेदिति
MBh 12.124.23
बृहस्पतिरुवाच विशेषोऽस्ति महांस्तात भार्गवस्य महात्मनः तत्रागमय भद्रं ते भूय एव पुरंदर
MBh 12.124.24
धृतराष्ट्र उवाच आत्मनस्तु ततः श्रेयो भार्गवात्सुमहायशाः ज्ञानमागमयत्प्रीत्या पुनः स परमद्युतिः
MBh 12.124.25
तेनापि समनुज्ञातो भार्गवेण महात्मना श्रेयोऽस्तीति पुनर्भूयः शुक्रमाह शतक्रतुः
MBh 12.124.26
भार्गवस्त्वाह धर्मज्ञः प्रह्रादस्य महात्मनः ज्ञानमस्ति विशेषेण ततो हृष्टश्च सोऽभवत्
MBh 12.124.27
स ततो ब्राह्मणो भूत्वा प्रह्रादं पाकशासनः सृत्वा प्रोवाच मेधावी श्रेय इच्छामि वेदितुम्
MBh 12.124.28
प्रह्रादस्त्वब्रवीद्विप्रं क्षणो नास्ति द्विजर्षभ त्रैलोक्यराज्ये सक्तस्य ततो नोपदिशामि ते
MBh 12.124.29
ब्राह्मणस्त्वब्रवीद्वाक्यं कस्मिन्काले क्षणो भवेत् ततोपदिष्टमिच्छामि यद्यत्कार्यान्तरं भवेत्
MBh 12.124.30
ततः प्रीतोऽभवद्राजा प्रह्रादो ब्रह्मवादिने तथेत्युक्त्वा शुभे काले ज्ञानतत्त्वं ददौ तदा
MBh 12.124.31
ब्राह्मणोऽपि यथान्यायं गुरुवृत्तिमनुत्तमाम् चकार सर्वभावेन यद्वत्स मनसेच्छति
MBh 12.124.32
पृष्टश्च तेन बहुशः प्राप्तं कथमरिंदम त्रैलोक्यराज्यं धर्मज्ञ कारणं तद्ब्रवीहि मे
MBh 12.124.33
प्रह्राद उवाच नासूयामि द्विजश्रेष्ठ राजास्मीति कदाचन कव्यानि वदतां तात संयच्छामि वहामि च
MBh 12.124.34
ते विस्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा ते मा कव्यपदे सक्तं शुश्रूषुमनसूयकम्
MBh 12.124.35
धर्मात्मानं जितक्रोधं संयतं संयतेन्द्रियम् समाचिन्वन्ति शास्तारः क्षौद्रं मध्विव मक्षिकाः
MBh 12.124.36
सोऽहं वागग्रपिष्टानां रसानामवलेहिता स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः
MBh 12.124.37
एतत्पृथिव्याममृतमेतच्चक्षुरनुत्तमम् यद्ब्राह्मणमुखे कव्यमेतच्छ्रुत्वा प्रवर्तते
MBh 12.124.38
धृतराष्ट्र उवाच एतावच्छ्रेय इत्याह प्रह्रादो ब्रह्मवादिनम् शुश्रूषितस्तेन तदा दैत्येन्द्रो वाक्यमब्रवीत्
MBh 12.124.39
यथावद्गुरुवृत्त्या ते प्रीतोऽस्मि द्विजसत्तम वरं वृणीष्व भद्रं ते प्रदातास्मि न संशयः
MBh 12.124.40
कृतमित्येव दैत्येन्द्रमुवाच स च वै द्विजः प्रह्रादस्त्वब्रवीत्प्रीतो गृह्यतां वर इत्युत
MBh 12.124.41
ब्राह्मण उवाच यदि राजन्प्रसन्नस्त्वं मम चेच्छसि चेद्धितम् भवतः शीलमिच्छामि प्राप्तुमेष वरो मम
MBh 12.124.42
धृतराष्ट्र उवाच ततः प्रीतश्च दैत्येन्द्रो भयं चास्याभवन्महत् वरे प्रदिष्टे विप्रेण नाल्पतेजायमित्युत
MBh 12.124.43
एवमस्त्विति तं प्राह प्रह्रादो विस्मितस्तदा उपाकृत्य तु विप्राय वरं दुःखान्वितोऽभवत्
MBh 12.124.44
दत्ते वरे गते विप्रे चिन्तासीन्महती ततः प्रह्रादस्य महाराज निश्चयं न च जग्मिवान्
MBh 12.124.45
तस्य चिन्तयतस्तात छायाभूतं महाद्युते तेजो विग्रहवत्तात शरीरमजहात्तदा
MBh 12.124.46
तमपृच्छन्महाकायं प्रह्रादः को भवानिति प्रत्याह ननु शीलोऽस्मि त्यक्तो गच्छाम्यहं त्वया
MBh 12.124.47
तस्मिन्द्विजवरे राजन्वत्स्याम्यहमनिन्दितम् योऽसौ शिष्यत्वमागम्य त्वयि नित्यं समाहितः इत्युक्त्वान्तर्हितं तद्वै शक्रं चान्वविशत्प्रभो
MBh 12.124.48
तस्मिंस्तेजसि याते तु तादृग्रूपस्ततोऽपरः शरीरान्निःसृतस्तस्य को भवानिति चाब्रवीत्
MBh 12.124.49
धर्मं प्रह्राद मां विद्धि यत्रासौ द्विजसत्तमः तत्र यास्यामि दैत्येन्द्र यतः शीलं ततो ह्यहम्
MBh 12.124.50
ततोऽपरो महाराज प्रज्वलन्निव तेजसा शरीरान्निःसृतस्तस्य प्रह्रादस्य महात्मनः
MBh 12.124.51
को भवानिति पृष्टश्च तमाह स महाद्युतिः सत्यमस्म्यसुरेन्द्राग्र्य यास्येऽहं धर्ममन्विह
MBh 12.124.52
तस्मिन्ननुगते धर्मं पुरुषे पुरुषोऽपरः निश्चक्राम ततस्तस्मात्पृष्टश्चाह महात्मना वृत्तं प्रह्राद मां विद्धि यतः सत्यं ततो ह्यहम्
MBh 12.124.53
तस्मिन्गते महाश्वेतः शरीरात्तस्य निर्ययौ पृष्टश्चाह बलं विद्धि यतो वृत्तमहं ततः इत्युक्त्वा च ययौ तत्र यतो वृत्तं नराधिप
MBh 12.124.54
ततः प्रभामयी देवी शरीरात्तस्य निर्ययौ तामपृच्छत्स दैत्येन्द्रः सा श्रीरित्येवमब्रवीत्
MBh 12.124.55
उषितास्मि सुखं वीर त्वयि सत्यपराक्रमे त्वया त्यक्ता गमिष्यामि बलं यत्र ततो ह्यहम्
MBh 12.124.56
ततो भयं प्रादुरासीत्प्रह्रादस्य महात्मनः अपृच्छत च तां भूयः क्व यासि कमलालये
MBh 12.124.57
त्वं हि सत्यव्रता देवी लोकस्य परमेश्वरी कश्चासौ ब्राह्मणश्रेष्ठस्तत्त्वमिच्छामि वेदितुम्
MBh 12.124.58
श्रीरुवाच स शक्रो ब्रह्मचारी च यस्त्वया चोपशिक्षितः त्रैलोक्ये ते यदैश्वर्यं तत्तेनापहृतं प्रभो
MBh 12.124.59
शीलेन हि त्वया लोकाः सर्वे धर्मज्ञ निर्जिताः तद्विज्ञाय महेन्द्रेण तव शीलं हृतं प्रभो
MBh 12.124.60
धर्मः सत्यं तथा वृत्तं बलं चैव तथा ह्यहम् शीलमूला महाप्राज्ञ सदा नास्त्यत्र संशयः
MBh 12.124.61
भीष्म उवाच एवमुक्त्वा गता तु श्रीस्ते च सर्वे युधिष्ठिर दुर्योधनस्तु पितरं भूय एवाब्रवीदिदम्
MBh 12.124.62
शीलस्य तत्त्वमिच्छामि वेत्तुं कौरवनन्दन प्राप्यते च यथा शीलं तमुपायं वदस्व मे
MBh 12.124.63
धृतराष्ट्र उवाच सोपायं पूर्वमुद्दिष्टं प्रह्रादेन महात्मना संक्षेपतस्तु शीलस्य शृणु प्राप्तिं नराधिप
MBh 12.124.64
अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा अनुग्रहश्च दानं च शीलमेतत्प्रशस्यते
MBh 12.124.65
यदन्येषां हितं न स्यादात्मनः कर्म पौरुषम् अपत्रपेत वा येन न तत्कुर्यात्कथंचन
MBh 12.124.66
तत्तु कर्म तथा कुर्याद्येन श्लाघेत संसदि एतच्छीलं समासेन कथितं कुरुसत्तम
MBh 12.124.67
यद्यप्यशीला नृपते प्राप्नुवन्ति क्वचिच्छ्रियम् न भुञ्जते चिरं तात समूलाश्च पतन्ति ते
MBh 12.124.68
एतद्विदित्वा तत्त्वेन शीलवान्भव पुत्रक यदीच्छसि श्रियं तात सुविशिष्टां युधिष्ठिरात्
MBh 12.124.69
भीष्म उवाच एतत्कथितवान्पुत्रे धृतराष्ट्रो नराधिप एतत्कुरुष्व कौन्तेय ततः प्राप्स्यसि तत्फलम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 69 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.124local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷