🪷 Mahābhārata · Śānti-Parva · Chapter 125
The Book of Peace · the great dharma-śāstra · Parva 12 · 34 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 34 Shlokas
MBh 12.125.1
युधिष्ठिर उवाच
शीलं प्रधानं पुरुषे कथितं ते पितामह
कथमाशा समुत्पन्ना या च सा तद्वदस्व मे
MBh 12.125.2
संशयो मे महानेष समुत्पन्नः पितामह
छेत्ता च तस्य नान्योऽस्ति त्वत्तः परपुरंजय
MBh 12.125.3
पितामहाशा महती ममासीद्धि सुयोधने
प्राप्ते युद्धे तु यद्युक्तं तत्कर्तायमिति प्रभो
MBh 12.125.4
सर्वस्याशा सुमहती पुरुषस्योपजायते
तस्यां विहन्यमानायां दुःखो मृत्युरसंशयम्
MBh 12.125.5
सोऽहं हताशो दुर्बुद्धिः कृतस्तेन दुरात्मना
धार्तराष्ट्रेण राजेन्द्र पश्य मन्दात्मतां मम
MBh 12.125.6
आशां महत्तरां मन्ये पर्वतादपि सद्रुमात्
आकाशादपि वा राजन्नप्रमेयैव वा पुनः
MBh 12.125.7
एषा चैव कुरुश्रेष्ठ दुर्विचिन्त्या सुदुर्लभा
दुर्लभत्वाच्च पश्यामि किमन्यद्दुर्लभं ततः
MBh 12.125.8
भीष्म उवाच
अत्र ते वर्तयिष्यामि युधिष्ठिर निबोध तत्
इतिहासं सुमित्रस्य निर्वृत्तमृषभस्य च
MBh 12.125.9
सुमित्रो नाम राजर्षिर्हैहयो मृगयां गतः
ससार स मृगं विद्ध्वा बाणेन नतपर्वणा
MBh 12.125.10
स मृगो बाणमादाय ययावमितविक्रमः
स च राजा बली तूर्णं ससार मृगमन्तिकात्
MBh 12.125.11
ततो निम्नं स्थलं चैव स मृगोऽद्रवदाशुगः
मुहूर्तमेव राजेन्द्र समेन स पथागमत्
MBh 12.125.12
ततः स राजा तारुण्यादौरसेन बलेन च
ससार बाणासनभृत्सखड्गो हंसवत्तदा
MBh 12.125.13
तीर्त्वा नदान्नदीश्चैव पल्वलानि वनानि च
अतिक्रम्याभ्यतिक्रम्य ससारैव वने चरन्
MBh 12.125.14
स तु कामान्मृगो राजन्नासाद्यासाद्य तं नृपम्
पुनरभ्येति जवनो जवेन महता ततः
MBh 12.125.15
स तस्य बाणैर्बहुभिः समभ्यस्तो वनेचरः
प्रक्रीडन्निव राजेन्द्र पुनरभ्येति चान्तिकम्
MBh 12.125.16
पुनश्च जवमास्थाय जवनो मृगयूथपः
अतीत्यातीत्य राजेन्द्र पुनरभ्येति चान्तिकम्
MBh 12.125.17
तस्य मर्मच्छिदं घोरं सुमित्रोऽमित्रकर्शनः
समादाय शरश्रेष्ठं कार्मुकान्निरवासृजत्
MBh 12.125.18
ततो गव्यूतिमात्रेण मृगयूथपयूथपः
तस्य बाणपथं त्यक्त्वा तस्थिवान्प्रहसन्निव
MBh 12.125.19
तस्मिन्निपतिते बाणे भूमौ प्रज्वलिते ततः
प्रविवेश महारण्यं मृगो राजाप्यथाद्रवत्
MBh 12.125.20
प्रविश्य तु महारण्यं तापसानामथाश्रमम्
आससाद ततो राजा श्रान्तश्चोपाविशत्पुनः
MBh 12.125.21
तं कार्मुकधरं दृष्ट्वा श्रमार्तं क्षुधितं तदा
समेत्य ऋषयस्तस्मिन्पूजां चक्रुर्यथाविधि
MBh 12.125.22
ऋषयो राजशार्दूलमपृच्छन्स्वं प्रयोजनम्
केन भद्रमुखार्थेन संप्राप्तोऽसि तपोवनम्
MBh 12.125.23
पदातिर्बद्धनिस्त्रिंशो धन्वी बाणी नरेश्वर
एतदिच्छाम विज्ञातुं कुतः प्राप्तोऽसि मानद
कस्मिन्कुले हि जातस्त्वं किंनामासि ब्रवीहि नः
MBh 12.125.24
ततः स राजा सर्वेभ्यो द्विजेभ्यः पुरुषर्षभ
आचख्यौ तद्यथान्यायं परिचर्यां च भारत
MBh 12.125.25
हैहयानां कुले जातः सुमित्रो मित्रनन्दनः
चरामि मृगयूथानि निघ्नन्बाणैः सहस्रशः
बलेन महता गुप्तः सामात्यः सावरोधनः
MBh 12.125.26
मृगस्तु विद्धो बाणेन मया सरति शल्यवान्
तं द्रवन्तमनु प्राप्तो वनमेतद्यदृच्छया
भवत्सकाशे नष्टश्रीर्हताशः श्रमकर्शितः
MBh 12.125.27
किं नु दुःखमतोऽन्यद्वै यदहं श्रमकर्शितः
भवतामाश्रमं प्राप्तो हताशो नष्टलक्षणः
MBh 12.125.28
न राजलक्षणत्यागो न पुरस्य तपोधनाः
दुःखं करोति तत्तीव्रं यथाशा विहता मम
MBh 12.125.29
हिमवान्वा महाशैलः समुद्रो वा महोदधिः
महत्त्वान्नान्वपद्येतां रोदस्योरन्तरं यथा
आशायास्तपसि श्रेष्ठास्तथा नान्तमहं गतः
MBh 12.125.30
भवतां विदितं सर्वं सर्वज्ञा हि तपोधनाः
भवन्तः सुमहाभागास्तस्मात्प्रक्ष्यामि संशयम्
MBh 12.125.31
आशावान्पुरुषो यः स्यादन्तरिक्षमथापि वा
किं नु ज्यायस्तरं लोके महत्त्वात्प्रतिभाति वः
एतदिच्छामि तत्त्वेन श्रोतुं किमिह दुर्लभम्
MBh 12.125.32
यदि गुह्यं तपोनित्या न वो ब्रूतेह माचिरम्
न हि गुह्यमतः श्रोतुमिच्छामि द्विजपुंगवाः
MBh 12.125.33
भवत्तपोविघातो वा येन स्याद्विरमे ततः
यदि वास्ति कथायोगो योऽयं प्रश्नो मयेरितः
MBh 12.125.34
एतत्कारणसामग्र्यं श्रोतुमिच्छामि तत्त्वतः
भवन्तो हि तपोनित्या ब्रूयुरेतत्समाहिताः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 124
- Next chapter · Śānti-Parva Ch 126 →
Sources and Connected Readings
Continue from these 34 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.125local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷