🪷 Mahābhārata · Śānti-Parva · Chapter 122
The Book of Peace · the great dharma-śāstra · Parva 12 · 55 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 55 Shlokas
MBh 12.122.1
भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
अङ्गेषु राजा द्युतिमान्वसुहोम इति श्रुतः
MBh 12.122.2
स राजा धर्मनित्यः सन्सह पत्न्या महातपाः
मुञ्जपृष्ठं जगामाथ देवर्षिगणपूजितम्
MBh 12.122.3
तत्र शृङ्गे हिमवतो मेरौ कनकपर्वते
यत्र मुञ्जवटे रामो जटाहरणमादिशत्
MBh 12.122.4
तदाप्रभृति राजेन्द्र ऋषिभिः संशितव्रतैः
मुञ्जपृष्ठ इति प्रोक्तः स देशो रुद्रसेवितः
MBh 12.122.5
स तत्र बहुभिर्युक्तः सदा श्रुतिमयैर्गुणैः
ब्राह्मणानामनुमतो देवर्षिसदृशोऽभवत्
MBh 12.122.6
तं कदाचिददीनात्मा सखा शक्रस्य मानितः
अभ्यागच्छन्महीपालो मान्धाता शत्रुकर्शनः
MBh 12.122.7
सोऽभिसृत्य तु मान्धाता वसुहोमं नराधिपम्
दृष्ट्वा प्रकृष्टं तपसा विनयेनाभ्यतिष्ठत
MBh 12.122.8
वसुहोमोऽपि राज्ञो वै गामर्घ्यं च न्यवेदयत्
अष्टाङ्गस्य च राज्यस्य पप्रच्छ कुशलं तदा
MBh 12.122.9
सद्भिराचरितं पूर्वं यथावदनुयायिनम्
अपृच्छद्वसुहोमस्तं राजन्किं करवाणि ते
MBh 12.122.10
सोऽब्रवीत्परमप्रीतो मान्धाता राजसत्तमम्
वसुहोमं महाप्राज्ञमासीनं कुरुनन्दन
MBh 12.122.11
बृहस्पतेर्मतं राजन्नधीतं सकलं त्वया
तथैवौशनसं शास्त्रं विज्ञातं ते नराधिप
MBh 12.122.12
तदहं श्रोतुमिच्छामि दण्ड उत्पद्यते कथम्
किं वापि पूर्वं जागर्ति किं वा परममुच्यते
MBh 12.122.13
कथं क्षत्रियसंस्थश्च दण्डः संप्रत्यवस्थितः
ब्रूहि मे सुमहाप्राज्ञ ददाम्याचार्यवेतनम्
MBh 12.122.14
वसुहोम उवाच
शृणु राजन्यथा दण्डः संभूतो लोकसंग्रहः
प्रजाविनयरक्षार्थं धर्मस्यात्मा सनातनः
MBh 12.122.15
ब्रह्मा यियक्षुर्भगवान्सर्वलोकपितामहः
ऋत्विजं नात्मना तुल्यं ददर्शेति हि नः श्रुतम्
MBh 12.122.16
स गर्भं शिरसा देवो वर्षपूगानधारयत्
पूर्णे वर्षसहस्रे तु स गर्भः क्षुवतोऽपतत्
MBh 12.122.17
स क्षुपो नाम संभूतः प्रजापतिररिंदम
ऋत्विगासीत्तदा राजन्यज्ञे तस्य महात्मनः
MBh 12.122.18
तस्मिन्प्रवृत्ते सत्रे तु ब्रह्मणः पार्थिवर्षभ
हृष्टरूपप्रचारत्वाद्दण्डः सोऽन्तर्हितोऽभवत्
MBh 12.122.19
तस्मिन्नन्तर्हिते चाथ प्रजानां संकरोऽभवत्
नैव कार्यं न चाकार्यं भोज्याभोज्यं न विद्यते
MBh 12.122.20
पेयापेयं कुतः सिद्धिर्हिंसन्ति च परस्परम्
गम्यागम्यं तदा नासीत्परस्वं स्वं च वै समम्
MBh 12.122.21
परस्परं विलुम्पन्ते सारमेया इवामिषम्
अबलं बलिनो जघ्नुर्निर्मर्यादमवर्तत
MBh 12.122.22
ततः पितामहो विष्णुं भगवन्तं सनातनम्
संपूज्य वरदं देवं महादेवमथाब्रवीत्
MBh 12.122.23
अत्र साध्वनुकम्पां वै कर्तुमर्हसि केवलम्
संकरो न भवेदत्र यथा वै तद्विधीयताम्
MBh 12.122.24
ततः स भगवान्ध्यात्वा चिरं शूलजटाधरः
आत्मानमात्मना दण्डमसृजद्देवसत्तमः
MBh 12.122.25
तस्माच्च धर्मचरणां नीतिं देवीं सरस्वतीम्
असृजद्दण्डनीतिः सा त्रिषु लोकेषु विश्रुता
MBh 12.122.26
भूयः स भगवान्ध्यात्वा चिरं शूलवरायुधः
तस्य तस्य निकायस्य चकारैकैकमीशरम्
MBh 12.122.27
देवानामीश्वरं चक्रे देवं दशशतेक्षणम्
यमं वैवस्वतं चापि पितॄणामकरोत्पतिम्
MBh 12.122.28
धनानां रक्षसां चापि कुबेरमपि चेश्वरम्
पर्वतानां पतिं मेरुं सरितां च महोदधिम्
MBh 12.122.29
अपां राज्ये सुराणां च विदधे वरुणं प्रभुम्
मृत्युं प्राणेश्वरमथो तेजसां च हुताशनम्
MBh 12.122.30
रुद्राणामपि चेशानं गोप्तारं विदधे प्रभुः
महात्मानं महादेवं विशालाक्षं सनातनम्
MBh 12.122.31
वसिष्ठमीशं विप्राणां वसूनां जातवेदसम्
तेजसां भास्करं चक्रे नक्षत्राणां निशाकरम्
MBh 12.122.32
वीरुधामंशुमन्तं च भूतानां च प्रभुं वरम्
कुमारं द्वादशभुजं स्कन्दं राजानमादिशत्
MBh 12.122.33
कालं सर्वेशमकरोत्संहारविनयात्मकम्
मृत्योश्चतुर्विभागस्य दुःखस्य च सुखस्य च
MBh 12.122.34
ईश्वरः सर्वदेहस्तु राजराजो धनाधिपः
सर्वेषामेव रुद्राणां शूलपाणिरिति श्रुतिः
MBh 12.122.35
तमेकं ब्रह्मणः पुत्रमनुजातं क्षुपं ददौ
प्रजानामधिपं श्रेष्ठं सर्वधर्मभृतामपि
MBh 12.122.36
महादेवस्ततस्तस्मिन्वृत्ते यज्ञे यथाविधि
दण्डं धर्मस्य गोप्तारं विष्णवे सत्कृतं ददौ
MBh 12.122.37
विष्णुरङ्गिरसे प्रादादङ्गिरा मुनिसत्तमः
प्रादादिन्द्रमरीचिभ्यां मरीचिर्भृगवे ददौ
MBh 12.122.38
भृगुर्ददावृषिभ्यस्तु तं दण्डं धर्मसंहितम्
ऋषयो लोकपालेभ्यो लोकपालाः क्षुपाय च
MBh 12.122.39
क्षुपस्तु मनवे प्रादादादित्यतनयाय च
पुत्रेभ्यः श्राद्धदेवस्तु सूक्ष्मधर्मार्थकारणात्
तं ददौ सूर्यपुत्रस्तु मनुर्वै रक्षणात्मकम्
MBh 12.122.40
विभज्य दण्डः कर्तव्यो धर्मेण न यदृच्छया
दुर्वाचा निग्रहो बन्धो हिरण्यं बाह्यतःक्रिया
MBh 12.122.41
व्यङ्गत्वं च शरीरस्य वधो वा नाल्पकारणात्
शरीरपीडास्तास्तास्तु देहत्यागो विवासनम्
MBh 12.122.42
आनुपूर्व्या च दण्डोऽसौ प्रजा जागर्ति पालयन्
इन्द्रो जागर्ति भगवानिन्द्रादग्निर्विभावसुः
MBh 12.122.43
अग्नेर्जागर्ति वरुणो वरुणाच्च प्रजापतिः
प्रजापतेस्ततो धर्मो जागर्ति विनयात्मकः
MBh 12.122.44
धर्माच्च ब्रह्मणः पुत्रो व्यवसायः सनातनः
व्यवसायात्ततस्तेजो जागर्ति परिपालयन्
MBh 12.122.45
ओषध्यस्तेजसस्तस्मादोषधिभ्यश्च पर्वताः
पर्वतेभ्यश्च जागर्ति रसो रसगुणात्तथा
MBh 12.122.46
जागर्ति निरृतिर्देवी ज्योतींषि निरृतेरपि
वेदाः प्रतिष्ठा ज्योतिर्भ्यस्ततो हयशिराः प्रभुः
MBh 12.122.47
ब्रह्मा पितामहस्तस्माज्जागर्ति प्रभुरव्ययः
पितामहान्महादेवो जागर्ति भगवाञ्शिवः
MBh 12.122.48
विश्वेदेवाः शिवाच्चापि विश्वेभ्यश्च तथर्षयः
ऋषिभ्यो भगवान्सोमः सोमाद्देवाः सनातनाः
MBh 12.122.49
देवेभ्यो ब्राह्मणा लोके जाग्रतीत्युपधारय
ब्राह्मणेभ्यश्च राजन्या लोकान्रक्षन्ति धर्मतः
स्थावरं जङ्गमं चैव क्षत्रियेभ्यः सनातनम्
MBh 12.122.50
प्रजा जाग्रति लोकेऽस्मिन्दण्डो जागर्ति तासु च
सर्वसंक्षेपको दण्डः पितामहसमः प्रभुः
MBh 12.122.51
जागर्ति कालः पूर्वं च मध्ये चान्ते च भारत
ईश्वरः सर्वलोकस्य महादेवः प्रजापतिः
MBh 12.122.52
देवदेवः शिवः शर्वो जागर्ति सततं प्रभुः
कपर्दी शंकरो रुद्रो भवः स्थाणुरुमापतिः
MBh 12.122.53
इत्येष दण्डो विख्यात आदौ मध्ये तथावरे
भूमिपालो यथान्यायं वर्तेतानेन धर्मवित्
MBh 12.122.54
भीष्म उवाच
इतीदं वसुहोमस्य शृणुयाद्यो मतं नरः
श्रुत्वा च सम्यग्वर्तेत स कामानाप्नुयान्नृपः
MBh 12.122.55
इति ते सर्वमाख्यातं यो दण्डो मनुजर्षभ
नियन्ता सर्वलोकस्य धर्माक्रान्तस्य भारत
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 121
- Next chapter · Śānti-Parva Ch 123 →
Sources and Connected Readings
Continue from these 55 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.122local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷