🪷 Mahābhārata · Śānti-Parva · Chapter 121

The Book of Peace · the great dharma-śāstra · Parva 12 · 57 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 57 Shlokas

MBh 12.121.1
युधिष्ठिर उवाच अयं पितामहेनोक्तो राजधर्मः सनातनः ईश्वरश्च महादण्डो दण्डे सर्वं प्रतिष्ठितम्
MBh 12.121.2
देवतानामृषीणां च पितॄणां च महात्मनाम् यक्षरक्षःपिशाचानां मर्त्यानां च विशेषतः
MBh 12.121.3
सर्वेषां प्राणिनां लोके तिर्यक्ष्वपि निवासिनाम् सर्वव्यापी महातेजा दण्डः श्रेयानिति प्रभो
MBh 12.121.4
इत्येतदुक्तं भवता सर्वं दण्ड्यं चराचरम् दृश्यते लोकमासक्तं ससुरासुरमानुषम्
MBh 12.121.5
एतदिच्छाम्यहं ज्ञातुं तत्त्वेन भरतर्षभ को दण्डः कीदृशो दण्डः किंरूपः किंपरायणः
MBh 12.121.6
किमात्मकः कथंभूतः कतिमूर्तिः कथंप्रभुः जागर्ति स कथं दण्डः प्रजास्ववहितात्मकः
MBh 12.121.7
कश्च पूर्वापरमिदं जागर्ति परिपालयन् कश्च विज्ञायते पूर्वं कोऽपरो दण्डसंज्ञितः किंसंस्थश्च भवेद्दण्डः का चास्य गतिरिष्यते
MBh 12.121.8
भीष्म उवाच शृणु कौरव्य यो दण्डो व्यवहार्यो यथा च सः यस्मिन्हि सर्वमायत्तं स दण्ड इह केवलः
MBh 12.121.9
धर्मस्याख्या महाराज व्यवहार इतीष्यते तस्य लोपः कथं न स्याल्लोकेष्ववहितात्मनः इत्यर्थं व्यवहारस्य व्यवहारत्वमिष्यते
MBh 12.121.10
अपि चैतत्पुरा राजन्मनुना प्रोक्तमादितः सुप्रणीतेन दण्डेन प्रियाप्रियसमात्मना प्रजा रक्षति यः सम्यग्धर्म एव स केवलः
MBh 12.121.11
अथोक्तमेतद्वचनं प्रागेव मनुना पुरा जन्म चोक्तं वसिष्ठेन ब्रह्मणो वचनं महत्
MBh 12.121.12
प्रागिदं वचनं प्रोक्तमतः प्राग्वचनं विदुः व्यवहारस्य चाख्यानाद्व्यवहार इहोच्यते
MBh 12.121.13
दण्डात्त्रिवर्गः सततं सुप्रणीतात्प्रवर्तते दैवं हि परमो दण्डो रूपतोऽग्निरिवोच्छिखः
MBh 12.121.14
नीलोत्पलदलश्यामश्चतुर्दंष्ट्रश्चतुर्भुजः अष्टपान्नैकनयनः शङ्कुकर्णोर्ध्वरोमवान्
MBh 12.121.15
जटी द्विजिह्वस्ताम्रास्यो मृगराजतनुच्छदः एतद्रूपं बिभर्त्युग्रं दण्डो नित्यं दुरावरः
MBh 12.121.16
असिर्गदा धनुः शक्तिस्त्रिशूलं मुद्गरः शरः मुसलं परशुश्चक्रं प्रासो दण्डर्ष्टितोमराः
MBh 12.121.17
सर्वप्रहरणीयानि सन्ति यानीह कानिचित् दण्ड एव हि सर्वात्मा लोके चरति मूर्तिमान्
MBh 12.121.18
भिन्दंश्छिन्दन्रुजन्कृन्तन्दारयन्पाटयंस्तथा घातयन्नभिधावंश्च दण्ड एव चरत्युत
MBh 12.121.19
असिर्विशसनो धर्मस्तीक्ष्णवर्त्मा दुरासदः श्रीगर्भो विजयः शास्ता व्यवहारः प्रजागरः
MBh 12.121.20
शास्त्रं ब्राह्मणमन्त्रश्च शास्ता प्राग्वचनं गतः धर्मपालोऽक्षरो देवः सत्यगो नित्यगो ग्रहः
MBh 12.121.21
असङ्गो रुद्रतनयो मनुज्येष्ठः शिवंकरः नामान्येतानि दण्डस्य कीर्तितानि युधिष्ठिर
MBh 12.121.22
दण्डो हि भगवान्विष्णुर्यज्ञो नारायणः प्रभुः शश्वद्रूपं महद्बिभ्रन्महापुरुष उच्यते
MBh 12.121.23
यथोक्ता ब्रह्मकन्येति लक्ष्मीर्नीतिः सरस्वती दण्डनीतिर्जगद्धात्री दण्डो हि बहुविग्रहः
MBh 12.121.24
अर्थानर्थौ सुखं दुःखं धर्माधर्मौ बलाबले दौर्भाग्यं भागधेयं च पुण्यापुण्ये गुणागुणौ
MBh 12.121.25
कामाकामावृतुर्मासः शर्वरी दिवसः क्षणः अप्रसादः प्रसादश्च हर्षः क्रोधः शमो दमः
MBh 12.121.26
दैवं पुरुषकारश्च मोक्षामोक्षौ भयाभये हिंसाहिंसे तपो यज्ञः संयमोऽथ विषाविषम्
MBh 12.121.27
अन्तश्चादिश्च मध्यं च कृत्यानां च प्रपञ्चनम् मदः प्रमादो दर्पश्च दम्भो धैर्यं नयानयौ
MBh 12.121.28
अशक्तिः शक्तिरित्येव मानस्तम्भौ व्ययाव्ययौ विनयश्च विसर्गश्च कालाकालौ च भारत
MBh 12.121.29
अनृतं ज्ञाज्ञता सत्यं श्रद्धाश्रद्धे तथैव च क्लीबता व्यवसायश्च लाभालाभौ जयाजयौ
MBh 12.121.30
तीक्ष्णता मृदुता मृत्युरागमानागमौ तथा विराद्धिश्चैव राद्धिश्च कार्याकार्ये बलाबले
MBh 12.121.31
असूया चानसूया च धर्माधर्मौ तथैव च अपत्रपानपत्रपे ह्रीश्च संपद्विपच्च ह
MBh 12.121.32
तेजः कर्मणि पाण्डित्यं वाक्शक्तिस्तत्त्वबुद्धिता एवं दण्डस्य कौरव्य लोकेऽस्मिन्बहुरूपता
MBh 12.121.33
न स्याद्यदीह दण्डो वै प्रमथेयुः परस्परम् भयाद्दण्डस्य चान्योन्यं घ्नन्ति नैव युधिष्ठिर
MBh 12.121.34
दण्डेन रक्ष्यमाणा हि राजन्नहरहः प्रजाः राजानं वर्धयन्तीह तस्माद्दण्डः परायणम्
MBh 12.121.35
व्यवस्थापयति क्षिप्रमिमं लोकं नरेश्वर सत्ये व्यवस्थितो धर्मो ब्राह्मणेष्ववतिष्ठते
MBh 12.121.36
धर्मयुक्ता द्विजाः श्रेष्ठा वेदयुक्ता भवन्ति च बभूव यज्ञो वेदेभ्यो यज्ञः प्रीणाति देवताः
MBh 12.121.37
प्रीताश्च देवता नित्यमिन्द्रे परिददत्युत अन्नं ददाति शक्रश्चाप्यनुगृह्णन्निमाः प्रजाः
MBh 12.121.38
प्राणाश्च सर्वभूतानां नित्यमन्ने प्रतिष्ठिताः तस्मात्प्रजाः प्रतिष्ठन्ते दण्डो जागर्ति तासु च
MBh 12.121.39
एवंप्रयोजनश्चैव दण्डः क्षत्रियतां गतः रक्षन्प्रजाः प्रजागर्ति नित्यं सुविहितोऽक्षरः
MBh 12.121.40
ईश्वरः पुरुषः प्राणः सत्त्वं वित्तं प्रजापतिः भूतात्मा जीव इत्येव नामभिः प्रोच्यतेऽष्टभिः
MBh 12.121.41
अददद्दण्ड एवास्मै ध्रुवमैश्वर्यमेव च बले नयश्च संयुक्तः सदा पञ्चविधात्मकः
MBh 12.121.42
कुलबाहुधनामात्याः प्रज्ञा चोक्ता बलानि च आहार्यं चाष्टकैर्द्रव्यैर्बलमन्यद्युधिष्ठिर
MBh 12.121.43
हस्तिनोऽश्वा रथाः पत्तिर्नावो विष्टिस्तथैव च दैशिकाश्चारकाश्चैव तदष्टाङ्गं बलं स्मृतम्
MBh 12.121.44
अष्टाङ्गस्य तु युक्तस्य हस्तिनो हस्तियायिनः अश्वारोहाः पदाताश्च मन्त्रिणो रसदाश्च ये
MBh 12.121.45
भिक्षुकाः प्राड्विवाकाश्च मौहूर्ता दैवचिन्तकाः कोशो मित्राणि धान्यं च सर्वोपकरणानि च
MBh 12.121.46
सप्तप्रकृति चाष्टाङ्गं शरीरमिह यद्विदुः राज्यस्य दण्ड एवाङ्गं दण्डः प्रभव एव च
MBh 12.121.47
ईश्वरेण प्रयत्नेन धारणे क्षत्रियस्य हि दण्डो दत्तः समानात्मा दण्डो हीदं सनातनम् राज्ञां पूज्यतमो नान्यो यथाधर्मप्रदर्शनः
MBh 12.121.48
ब्रह्मणा लोकरक्षार्थं स्वधर्मस्थापनाय च भर्तृप्रत्यय उत्पन्नो व्यवहारस्तथापरः तस्माद्यः सहितो दृष्टो भर्तृप्रत्ययलक्षणः
MBh 12.121.49
व्यवहारस्तु वेदात्मा वेदप्रत्यय उच्यते मौलश्च नरशार्दूल शास्त्रोक्तश्च तथापरः
MBh 12.121.50
उक्तो यश्चापि दण्डोऽसौ भर्तृप्रत्ययलक्षणः ज्ञेयो न स नरेन्द्रस्थो दण्डप्रत्यय एव च
MBh 12.121.51
दण्डप्रत्ययदृष्टोऽपि व्यवहारात्मकः स्मृतः व्यवहारः स्मृतो यश्च स वेदविषयात्मकः
MBh 12.121.52
यश्च वेदप्रसूतात्मा स धर्मो गुणदर्शकः धर्मप्रत्यय उत्पन्नो यथाधर्मः कृतात्मभिः
MBh 12.121.53
व्यवहारः प्रजागोप्ता ब्रह्मदिष्टो युधिष्ठिर त्रीन्धारयति लोकान्वै सत्यात्मा भूतिवर्धनः
MBh 12.121.54
यश्च दण्डः स दृष्टो नो व्यवहारः सनातनः व्यवहारश्च यो दृष्टः स धर्म इति नः श्रुतः यश्च वेदः स वै धर्मो यश्च धर्मः स सत्पथः
MBh 12.121.55
ब्रह्मा प्रजापतिः पूर्वं बभूवाथ पितामहः लोकानां स हि सर्वेषां ससुरासुररक्षसाम् समनुष्योरगवतां कर्ता चैव स भूतकृत्
MBh 12.121.56
ततो नो व्यवहारोऽयं भर्तृप्रत्ययलक्षणः तस्मादिदमवोचाम व्यवहारनिदर्शनम्
MBh 12.121.57
माता पिता च भ्राता च भार्या चाथ पुरोहितः नादण्ड्यो विद्यते राज्ञां यः स्वधर्मे न तिष्ठति

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 57 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.121local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷