🪷 Mahābhārata · Śānti-Parva · Chapter 118
The Book of Peace · the great dharma-śāstra · Parva 12 · 28 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 28 Shlokas
MBh 12.118.1
भीष्म उवाच
स श्वा प्रकृतिमापन्नः परं दैन्यमुपागमत्
ऋषिणा हुंकृतः पापस्तपोवनबहिष्कृतः
MBh 12.118.2
एवं राज्ञा मतिमता विदित्वा शीलशौचताम्
आर्जवं प्रकृतिं सत्त्वं कुलं वृत्तं श्रुतं दमम्
MBh 12.118.3
अनुक्रोशं बलं वीर्यं भावं संप्रशमं क्षमाम्
भृत्या ये यत्र योग्याः स्युस्तत्र स्थाप्याः सुशिक्षिताः
MBh 12.118.4
नापरीक्ष्य महीपालः प्रकर्तुं भृत्यमर्हति
अकुलीननराकीर्णो न राजा सुखमेधते
MBh 12.118.5
कुलजः प्रकृतो राज्ञा तत्कुलीनतया सदा
न पापे कुरुते बुद्धिं निन्द्यमानोऽप्यनागसि
MBh 12.118.6
अकुलीनस्तु पुरुषः प्रकृतः साधुसंक्षयात्
दुर्लभैश्वर्यतां प्राप्तो निन्दितः शत्रुतां व्रजेत्
MBh 12.118.7
कुलीनं शिक्षितं प्राज्ञं ज्ञानविज्ञानकोविदम्
सर्वशास्त्रार्थतत्त्वज्ञं सहिष्णुं देशजं तथा
MBh 12.118.8
कृतज्ञं बलवन्तं च क्षान्तं दान्तं जितेन्द्रियम्
अलुब्धं लब्धसंतुष्टं स्वामिमित्रबुभूषकम्
MBh 12.118.9
सचिवं देशकालज्ञं सर्वसंग्रहणे रतम्
सत्कृतं युक्तमनसं हितैषिणमतन्द्रितम्
MBh 12.118.10
युक्ताचारं स्वविषये संधिविग्रहकोविदम्
राज्ञस्त्रिवर्गवेत्तारं पौरजानपदप्रियम्
MBh 12.118.11
खातकव्यूहतत्त्वज्ञं बलहर्षणकोविदम्
इङ्गिताकारतत्त्वज्ञं यात्रायानविशारदम्
MBh 12.118.12
हस्तिशिक्षासु तत्त्वज्ञमहंकारविवर्जितम्
प्रगल्भं दक्षिणं दान्तं बलिनं युक्तकारिणम्
MBh 12.118.13
चोक्षं चोक्षजनाकीर्णं सुवेषं सुखदर्शनम्
नायकं नीतिकुशलं गुणषष्ट्या समन्वितम्
MBh 12.118.14
अस्तब्धं प्रश्रितं शक्तं मृदुवादिनमेव च
धीरं श्लक्ष्णं महर्द्धिं च देशकालोपपादकम्
MBh 12.118.15
सचिवं यः प्रकुरुते न चैनमवमन्यते
तस्य विस्तीर्यते राज्यं ज्योत्स्ना ग्रहपतेरिव
MBh 12.118.16
एतैरेव गुणैर्युक्तो राजा शास्त्रविशारदः
एष्टव्यो धर्मपरमः प्रजापालनतत्परः
MBh 12.118.17
धीरो मर्षी शुचिः शीघ्रः काले पुरुषकारवित्
शुश्रूषुः श्रुतवाञ्श्रोता ऊहापोहविशारदः
MBh 12.118.18
मेधावी धारणायुक्तो यथान्यायोपपादकः
दान्तः सदा प्रियाभाषी क्षमावांश्च विपर्यये
MBh 12.118.19
दानाच्छेदे स्वयंकारी सुद्वारः सुखदर्शनः
आर्तहस्तप्रदो नित्यमाप्तंमन्यो नये रतः
MBh 12.118.20
नाहंवादी न निर्द्वंद्वो न यत्किंचनकारकः
कृते कर्मण्यमोघानां कर्ता भृत्यजनप्रियः
MBh 12.118.21
संगृहीतजनोऽस्तब्धः प्रसन्नवदनः सदा
दाता भृत्यजनावेक्षी न क्रोधी सुमहामनाः
MBh 12.118.22
युक्तदण्डो न निर्दण्डो धर्मकार्यानुशासकः
चारनेत्रः परावेक्षी धर्मार्थकुशलः सदा
MBh 12.118.23
राजा गुणशताकीर्ण एष्टव्यस्तादृशो भवेत्
योधाश्चैव मनुष्येन्द्र सर्वैर्गुणगुणैर्वृताः
MBh 12.118.24
अन्वेष्टव्याः सुपुरुषाः सहाया राज्यधारणाः
न विमानयितव्याश्च राज्ञा वृद्धिमभीप्सता
MBh 12.118.25
योधाः समरशौटीराः कृतज्ञाः शस्त्रकोविदाः
धर्मशास्त्रसमायुक्ताः पदातिजनसंयुताः
MBh 12.118.26
अर्थमानविवृद्धाश्च रथचर्याविशारदाः
इष्वस्त्रकुशला यस्य तस्येयं नृपतेर्मही
MBh 12.118.27
सर्वसंग्रहणे युक्तो नृपो भवति यः सदा
उत्थानशीलो मित्राढ्यः स राजा राजसत्तमः
MBh 12.118.28
शक्या अश्वसहस्रेण वीरारोहेण भारत
संगृहीतमनुष्येण कृत्स्ना जेतुं वसुंधरा
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 117
- Next chapter · Śānti-Parva Ch 119 →
Sources and Connected Readings
Continue from these 28 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.118local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷