🪷 Mahābhārata · Śānti-Parva · Chapter 117
The Book of Peace · the great dharma-śāstra · Parva 12 · 44 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 44 Shlokas
MBh 12.117.1
भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
निदर्शनकरं लोके सज्जनाचरितं सदा
MBh 12.117.2
अस्यैवार्थस्य सदृशं यच्छ्रुतं मे तपोवने
जामदग्न्यस्य रामस्य यदुक्तमृषिसत्तमैः
MBh 12.117.3
वने महति कस्मिंश्चिदमनुष्यनिषेविते
ऋषिर्मूलफलाहारो नियतो नियतेन्द्रियः
MBh 12.117.4
दीक्षादमपरः शान्तः स्वाध्यायपरमः शुचिः
उपवासविशुद्धात्मा सततं सत्पथे स्थितः
MBh 12.117.5
तस्य संदृश्य सद्भावमुपविष्टस्य धीमतः
सर्वसत्त्वाः समीपस्था भवन्ति वनचारिणः
MBh 12.117.6
सिंहव्याघ्राः सशरभा मत्ताश्चैव महागजाः
द्वीपिनः खड्गभल्लूका ये चान्ये भीमदर्शनाः
MBh 12.117.7
ते सुखप्रश्नदाः सर्वे भवन्ति क्षतजाशनाः
तस्यर्षेः शिष्यवच्चैव न्यग्भूताः प्रियकारिणः
MBh 12.117.8
दत्त्वा च ते सुखप्रश्नं सर्वे यान्ति यथागतम्
ग्राम्यस्त्वेकः पशुस्तत्र नाजहाच्छ्वा महामुनिम्
MBh 12.117.9
भक्तोऽनुरक्तः सततमुपवासकृशोऽबलः
फलमूलोत्कराहारः शान्तः शिष्टाकृतिर्यथा
MBh 12.117.10
तस्यर्षेरुपविष्टस्य पादमूले महामुनेः
मनुष्यवद्गतो भावः स्नेहबद्धोऽभवद्भृशम्
MBh 12.117.11
ततोऽभ्ययान्महावीर्यो द्वीपी क्षतजभोजनः
श्वार्थमत्यन्तसंदुष्टः क्रूरः काल इवान्तकः
MBh 12.117.12
लेलिह्यमानस्तृषितः पुच्छास्फोटनतत्परः
व्यादितास्यः क्षुधाभग्नः प्रार्थयानस्तदामिषम्
MBh 12.117.13
तं दृष्ट्वा क्रूरमायान्तं जीवितार्थी नराधिप
प्रोवाच श्वा मुनिं तत्र यत्तच्छृणु महामते
MBh 12.117.14
श्वशत्रुर्भगवन्नत्र द्वीपी मां हन्तुमिच्छति
त्वत्प्रसादाद्भयं न स्यात्तस्मान्मम महामुने
MBh 12.117.15
मुनिरुवाच
न भयं द्वीपिनः कार्यं मृत्युतस्ते कथंचन
एष श्वरूपरहितो द्वीपी भवसि पुत्रक
MBh 12.117.16
भीष्म उवाच
ततः श्वा द्वीपितां नीतो जाम्बूनदनिभाकृतिः
चित्राङ्गो विस्फुरन्हृष्टो वने वसति निर्भयः
MBh 12.117.17
ततोऽभ्ययान्महारौद्रो व्यादितास्यः क्षुधान्वितः
द्वीपिनं लेलिहद्वक्त्रो व्याघ्रो रुधिरलालसः
MBh 12.117.18
व्याघ्रं दृष्ट्वा क्षुधाभग्नं दंष्ट्रिणं वनगोचरम्
द्वीपी जीवितरक्षार्थमृषिं शरणमेयिवान्
MBh 12.117.19
ततः संवासजं स्नेहमृषिणा कुर्वता सदा
स द्वीपी व्याघ्रतां नीतो रिपुभिर्बलवत्तरः
ततो दृष्ट्वा स शार्दूलो नाभ्यहंस्तं विशां पते
MBh 12.117.20
स तु श्वा व्याघ्रतां प्राप्य बलवान्पिशिताशनः
न मूलफलभोगेषु स्पृहामप्यकरोत्तदा
MBh 12.117.21
यथा मृगपतिर्नित्यं प्रकाङ्क्षति वनौकसः
तथैव स महाराज व्याघ्रः समभवत्तदा
MBh 12.117.22
व्याघ्रस्तूटजमूलस्थस्तृप्तः सुप्तो हतैर्मृगैः
नागश्चागात्तमुद्देशं मत्तो मेघ इवोत्थितः
MBh 12.117.23
प्रभिन्नकरटः प्रांशुः पद्मी विततमस्तकः
सुविषाणो महाकायो मेघगम्भीरनिस्वनः
MBh 12.117.24
तं दृष्ट्वा कुञ्जरं मत्तमायान्तं मदगर्वितम्
व्याघ्रो हस्तिभयात्त्रस्तस्तमृषिं शरणं ययौ
MBh 12.117.25
ततोऽनयत्कुञ्जरतां तं व्याघ्रमृषिसत्तमः
महामेघोपमं दृष्ट्वा तं स भीतोऽभवद्गजः
MBh 12.117.26
ततः कमलषण्डानि शल्लकीगहनानि च
व्यचरत्स मुदा युक्तः पद्मरेणुविभूषितः
MBh 12.117.27
कदाचिद्रममाणस्य हस्तिनः सुमुखं तदा
ऋषेस्तस्योटजस्थस्य कालोऽगच्छन्निशानिशम्
MBh 12.117.28
अथाजगाम तं देशं केसरी केसरारुणः
गिरिकन्दरजो भीमः सिंहो नागकुलान्तकः
MBh 12.117.29
तं दृष्ट्वा सिंहमायान्तं नागः सिंहभयाकुलः
ऋषिं शरणमापेदे वेपमानो भयातुरः
MBh 12.117.30
ततः स सिंहतां नीतो नागेन्द्रो मुनिना तदा
वन्यं नागणयत्सिंहं तुल्यजातिसमन्वयात्
MBh 12.117.31
दृष्ट्वा च सोऽनशत्सिंहो वन्यो भीसन्नवाग्बलः
स चाश्रमेऽवसत्सिंहस्तस्मिन्नेव वने सुखी
MBh 12.117.32
न त्वन्ये क्षुद्रपशवस्तपोवननिवासिनः
व्यदृश्यन्त भयत्रस्ता जीविताकाङ्क्षिणः सदा
MBh 12.117.33
कदाचित्कालयोगेन सर्वप्राणिविहिंसकः
बलवान्क्षतजाहारो नानासत्त्वभयंकरः
MBh 12.117.34
अष्टपादूर्ध्वचरणः शरभो वनगोचरः
तं सिंहं हन्तुमागच्छन्मुनेस्तस्य निवेशनम्
MBh 12.117.35
तं मुनिः शरभं चक्रे बलोत्कटमरिंदम
ततः स शरभो वन्यो मुनेः शरभमग्रतः
दृष्ट्वा बलिनमत्युग्रं द्रुतं संप्राद्रवद्भयात्
MBh 12.117.36
स एवं शरभस्थाने न्यस्तो वै मुनिना तदा
मुनेः पार्श्वगतो नित्यं शारभ्यं सुखमाप्तवान्
MBh 12.117.37
ततः शरभसंत्रस्ताः सर्वे मृगगणा वनात्
दिशः संप्राद्रवन्राजन्भयाज्जीवितकाङ्क्षिणः
MBh 12.117.38
शरभोऽप्यतिसंदुष्टो नित्यं प्राणिवधे रतः
फलमूलाशनं शान्तं नैच्छत्स पिशिताशनः
MBh 12.117.39
ततो रुधिरतर्षेण बलिना शरभोऽन्वितः
इयेष तं मुनिं हन्तुमकृतज्ञः श्वयोनिजः
MBh 12.117.40
ततस्तेन तपःशक्त्या विदितो ज्ञानचक्षुषा
विज्ञाय च महाप्राज्ञो मुनिः श्वानं तमुक्तवान्
MBh 12.117.41
श्वा त्वं द्वीपित्वमापन्नो द्वीपी व्याघ्रत्वमागतः
व्याघ्रो नागो मदपटुर्नागः सिंहत्वमाप्तवान्
MBh 12.117.42
सिंहोऽतिबलसंयुक्तो भूयः शरभतां गतः
मया स्नेहपरीतेन न विमृष्टः कुलान्वयः
MBh 12.117.43
यस्मादेवमपापं मां पाप हिंसितुमिच्छसि
तस्मात्स्वयोनिमापन्नः श्वैव त्वं हि भविष्यसि
MBh 12.117.44
ततो मुनिजनद्वेषाद्दुष्टात्मा श्वाकृतोऽबुधः
ऋषिणा शरभः शप्तः स्वं रूपं पुनराप्तवान्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 116
- Next chapter · Śānti-Parva Ch 118 →
Sources and Connected Readings
Continue from these 44 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.117local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷