🪷 Mahābhārata · Śānti-Parva · Chapter 119
The Book of Peace · the great dharma-śāstra · Parva 12 · 20 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 20 Shlokas
MBh 12.119.1
भीष्म उवाच
एवं शुनासमान्भृत्यान्स्वस्थाने यो नराधिपः
नियोजयति कृत्येषु स राज्यफलमश्नुते
MBh 12.119.2
न श्वा स्वस्थानमुत्क्रम्य प्रमाणमभि सत्कृतः
आरोप्यः श्वा स्वकात्स्थानादुत्क्रम्यान्यत्प्रपद्यते
MBh 12.119.3
स्वजातिकुलसंपन्नाः स्वेषु कर्मस्ववस्थिताः
प्रकर्तव्या बुधा भृत्या नास्थाने प्रक्रिया क्षमा
MBh 12.119.4
अनुरूपाणि कर्माणि भृत्येभ्यो यः प्रयच्छति
स भृत्यगुणसंपन्नं राजा फलमुपाश्नुते
MBh 12.119.5
शरभः शरभस्थाने सिंहः सिंह इवोर्जितः
व्याघ्रो व्याघ्र इव स्थाप्यो द्वीपी द्वीपी यथा तथा
MBh 12.119.6
कर्मस्विहानुरूपेषु न्यस्या भृत्या यथाविधि
प्रतिलोमं न भृत्यास्ते स्थाप्याः कर्मफलैषिणा
MBh 12.119.7
यः प्रमाणमतिक्रम्य प्रतिलोमं नराधिपः
भृत्यान्स्थापयतेऽबुद्धिर्न स रञ्जयते प्रजाः
MBh 12.119.8
न बालिशा न च क्षुद्रा न चाप्रतिमितेन्द्रियाः
नाकुलीना नराः पार्श्वे स्थाप्या राज्ञा हितैषिणा
MBh 12.119.9
साधवः कुशलाः शूरा ज्ञानवन्तोऽनसूयकाः
अक्षुद्राः शुचयो दक्षा नराः स्युः पारिपार्श्वकाः
MBh 12.119.10
न्यग्भूतास्तत्पराः क्षान्ताश्चौक्षाः प्रकृतिजाः शुभाः
स्वे स्वे स्थानेऽपरिक्रुष्टास्ते स्यू राज्ञो बहिश्चराः
MBh 12.119.11
सिंहस्य सततं पार्श्वे सिंह एव जनो भवेत्
असिंहः सिंहसहितः सिंहवल्लभते फलम्
MBh 12.119.12
यस्तु सिंहः श्वभिः कीर्णः सिंहकर्मफले रतः
न स सिंहफलं भोक्तुं शक्तः श्वभिरुपासितः
MBh 12.119.13
एवमेतैर्मनुष्येन्द्र शूरैः प्राज्ञैर्बहुश्रुतैः
कुलीनैः सह शक्येत कृत्स्नां जेतुं वसुंधराम्
MBh 12.119.14
नावैद्यो नानृजुः पार्श्वे नाविद्यो नामहाधनः
संग्राह्यो वसुधापालैर्भृत्यो भृत्यवतां वर
MBh 12.119.15
बाणवद्विसृता यान्ति स्वामिकार्यपरा जनाः
ये भृत्याः पार्थिवहितास्तेषां सान्त्वं प्रयोजयेत्
MBh 12.119.16
कोशश्च सततं रक्ष्यो यत्नमास्थाय राजभिः
कोशमूला हि राजानः कोशमूलकरो भव
MBh 12.119.17
कोष्ठागारं च ते नित्यं स्फीतं धान्यैः सुसंचितम्
सदास्तु सत्सु संन्यस्तं धनधान्यपरो भव
MBh 12.119.18
नित्ययुक्ताश्च ते भृत्या भवन्तु रणकोविदाः
वाजिनां च प्रयोगेषु वैशारद्यमिहेष्यते
MBh 12.119.19
ज्ञातिबन्धुजनावेक्षी मित्रसंबन्धिसंवृतः
पौरकार्यहितान्वेषी भव कौरवनन्दन
MBh 12.119.20
एषा ते नैष्ठिकी बुद्धिः प्रज्ञा चाभिहिता मया
श्वा ते निदर्शनं तात किं भूयः श्रोतुमिच्छसि
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 118
- Next chapter · Śānti-Parva Ch 120 →
Sources and Connected Readings
Continue from these 20 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.119local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷